________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादयः परसैपदिनः
५२७ शास्त्र शास्त्रविषयं शासनं माङ्गल्यं मङ्गलविषया क्रिया अनयोरेवार्थयोरयमौदित्, अर्थान्तरे पुनरूदित् पूर्वोक्त एव अन्यथा तत्पाठोऽनर्थकः स्यात् । अर्थान्तरेऽप्यनेनैवेविकल्पस्य सर्वत्रैव सिद्धत्वात् 'षः स.' इति सत्वे सेधति षोपदेशत्वात्सस्य कृतत्वे 'नाम्यन्तस्था०' इति षत्वं सिषेध 'स्थासेनि०' इति षत्वं अभिषेधति अव्यवाये अभ्यषेधत् घभि सेधः । 'निर्दुस्सो सेघसन्धिसानाम् (२॥३॥३१) निरादिभ्यः परेषां सेधादीनां सस्य समासे पो भवति । वचनभेदाद्यथासङ्ख्याभावः । निषेधः५ दुःषेधः सुषेधः निःषन्धिः दुःषन्धिः सुषन्धिः, निःषाम दुःषाम सुषाम ॥ परोक्षायां 'स्क्रसृवृ०' (४।४।८१) इति नित्यमिट सिषिधिव सिषिधिम 'घसेकखर०' (४४८२) इति नियमात् कसौ नेट् सिषिद्वान् वेदत्वात् 'वेटोऽपतः' (४४६२) इति तयोर्नेट् सिद्धः सिद्धवान् । 'शुन्ध शुद्धौ' शुन्धति अशुन्धीत् शुशुन्ध 'शुधंच शोचे' इत्यस्य तु शुद्ध्यति शुद्धः शुद्धवान् । इति धान्तात्रयः ३ । 'स्तन धन ध्वन चन खन वन शब्दे' स्तनति अस्तानीत् तस्तान स्तनिता । शब्दे घटादित्वा-१० णिगि हखे स्तनयति अन्यत्र स्तानयति पनि 'अभिनिष्टानः' (२।३।२४) अभि निस् इत्येतस्मात्परः स्तानशब्दः समासे कृतषत्वो निपात्यते, नानि संज्ञाविषये । अभिनिष्टानो वर्णः विसर्जनीयस्यैषा संज्ञा, वर्णमात्रस्येत्यन्ये । नानीत्येव-अभिनिस्तन्यतेऽभिनिस्तानो मृदङ्गः ॥धन धनति अधानीत् २ दधान 'मन्वन्०' (५।१।१४७) इति वन धन्वा बाहुलकाद् 'वन्याङ् पञ्चमस्य' (४॥ २०६५) इत्यात्वाभावः उणादौ 'कृषिचमि०' (८२९) इत्यूः धनूः ज्या चापश्च 'रुचर्ति०' (९९७) इत्युसि १५ धनुः । ध्वन ध्वनति अध्वानीत् दध्वान ते 'क्षुब्धविरिब्धः' (१।४।७०) इति निपातनात्तमलि नेट ध्वान्तं तमः, ध्वनितमन्यत्। शब्दे घटादित्वाण्णौ ह्रखे ध्वनयति अन्यत्र ध्वानयति । उणादौ 'पविपठि.' (६०७) इति इ. ध्वनिः । चन चनति हिंसायां घटादित्वाण्णौ हस्खे चनयति । वन दन्त्यादिः स्वनति 'व्यवात्खनोऽशने (२।३।४३) वेरवाचोपसर्गात्परस्य स्वनो धातोः सकारस्थाशने भोजनेऽर्थे द्वित्वेऽप्यट्यपि षो भवति, पूर्वसूत्रे चानुकृष्टत्वादिहाङ इति नानुवर्तते । विष्वणति अवध्वणति मुझे२० इत्यर्थः, सशब्दं भुक्के इत्यर्थ इत्यन्ये, भुञ्जानः कश्चिच्छब्दं करोतीत्यर्थः इत्यपरे, विषष्वाण अवषष्वाण विषवण्यते अवषंष्वण्यते विषिष्वणिषति अवषिष्वणिषति व्यध्वणत् अवाध्वणत् व्यषिष्वणत् अवाषिष्वणत् । व्यवादिति किम् ? अतिस्वनति अत्यसिखनत् । अशन इति किम् ? विस्वनति अववनति मृदङ्गः, विविधं शब्दं करोतीत्यर्थः ॥ परोक्षायां 'जभ्रमः' (४।१।२६) इति वैत्वे स्खेनतुः सस्वनतुः । अवतंसने घटादित्वाण्णौ हस्खे स्वनयति अन्यत्र स्वानयति सेट्त्वात् स्वनिता स्वनिष्यति २५ 'नवा कण' (५।३।४८) इति वालि स्वनः स्वानः 'क्षुब्धविरिब्धः' इति मनसि क्ते नेट् खान्तं मनः खनितमन्यत् । वन वनति अवानीत् २ ववान वेनतुः वेनुः इटि वनिता वनिष्यति अचि मृगविहगशब्दैर्वनतीति वनम् । 'वन षन भक्तौ' भक्तिर्भजनम् , वनिरर्थभेदार्थ पुनरीहाधीतः । वनति अनटि संवननम् । षन 'षः स०' (२।३।९८) इति सत्वे निमित्ताभावे इति णस्य नत्वे सनति असानीत् असनीत् ससान सेनतुः सेनुः । 'कनै दीप्तिकान्तिगतिषु' दीप्तिः प्रकाशः कान्तिः शोभा कनति ३० अकानीत् २ चकान चकनतुः । वनि सुकावा किपि सुका सुकानौ । उणादौ 'दृकृनि०' (२७) इति के कनकम् 'कनेरीनकः' (७३) कनीनिका 'स्थाच्छामा०' (३५७) इति ये कन्या । इति नान्ता नव सेटश्च । 'गुपौ रक्षणे' अयमने वक्ष्यते । 'कुप्यभिद्योध्य (५।१।३९) इति निपातनात् क्यपि कुप्यम् । 'गुपच व्याकुलत्वे' इत्यस्य तु गुप्यति । गुपण भासार्थः इत्यस्य तु गोपयति गोपना 'तपं धूप सन्तापै' तपति 'निसस्तपेज्नासेवायाम् (२०३५) 'हखानानास्ति'३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org