________________
५२६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुलक्ष्यते उविस्वाने विन्दति यद्यभिधानमस्ति विन्दुरिति तु दृश्यते यथा गण्डति गण्ड इति । उणादौ 'भृमृतृत्सरी(०१६)त्युः' विन्तुः ।। ८६ ॥
उदितः खरान्नोऽन्तः ॥ ८७ ॥ [सि० ४।४।९८] उदितो धातो खरात्परो नोऽन्तः स्यात् । नां धुड्वर्गेन्त्योऽपदान्ते । निन्दति ४ । इट इतीति ५सिल्लोपे । अनिन्दीत् अनिन्दिष्टाम् अनिन्दिषुः । अनिन्दिष्म ५ । निनिन्द ६ । निन्द्यात् ७ । निन्दिता ८॥ एवं 'टुनदु समृद्धौ' नन्दतीत्यादि १० । 'णमं प्रह्वत्वे । नमति ४ ॥ ८७॥ __ 'उदित.' णिदुधातुं णदुधातुं च स्पष्टमाचष्टे, स्पष्टार्थं च सर्वमेतत् । किन्तु 'निंसनिक्षनिन्दः कृति वा' (२॥३॥८४) अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात्परस्य निसादीनां धातूनां नकारस्य कृत्प्रत्यये
परे णो वा भवति । 'प्रणिसुकि चुम्बने' प्रणिंसनं प्रनिसनं प्रणिक्षणं प्रनिक्षणं । णिदु-धातुः प्रस्तुतोऽयं १० प्रणिन्दनं । कृतीति किम् ? प्रणिस्ते परिणिस्ते प्रणिक्षति परिणिक्षति प्रणिन्दति परिणिन्दति, णोपदेशत्वानित्यं णत्वं भवति । 'चद् दीप्त्यालादयोः' आहादः आह्नादनमानन्दोत्पादनमित्यर्थः । उदित्वान्ने चन्दति अचन्दीत् चचन्द । चन्दति दीप्यते आह्लादयति वा रम्यादिभ्यः०' ( ५।३।१३६) इत्यनटि चन्दनम् उणादौ 'मीवृधिः' (३८७) इति सूत्रेण रे चन्द्रः 'मदिमन्दिचन्दि०' (४१२) इति इरे चन्दिरश्चन्द्रः ।
छन्द इति 'छदिदहिभ्यामि( ९५४ )त्यसि छादयते । 'त्रदु चेष्टायां' त्रन्दति अत्रन्दीत् तत्रन्द । 'कदु १५ऋदु क्लदु रोदनाहानयोः' कन्दति अकन्दीत् चकन्द, ऋदु क्रन्दति अक्रन्दीत् चक्रन्द, कुदु कुन्दति अक्ल
म्दीत् चन्द, कदुङ्क्रदुङ्दु ङ् इति घटादावात्मनेपदिनः कन्दते क्रन्दते लन्दते । 'क्लिदु परिदेवने परिदेवनं शोचनम् क्विन्दति अक्किन्दीत् चिक्लिन्द । 'स्कन्द्र गतिशोषणयोः' स्कन्दति आस्कन्दति । वे स्कन्दोऽक्तयो' (२॥३५१) विपूर्वस्य स्कन्देः संबन्धिनः सकारस्य षो वा भवति अक्तयोः, न
चेत् तक्तवतू प्रत्ययौ भवतः । द्विवचनादर्थवद्हणानपेक्षमुभयपरिग्रहः, विष्कन्दति विस्कन्दति । २० अक्तयोरिति किम् ? विस्कन्नः विस्कनवान् ॥ 'परेः' (२।३।५२) परिपूर्वस्य स्कन्देः सकारस्य षो वा
भवति । परिष्कन्दति परिस्कन्दति । योगविभागादक्तयोरिति नानुवर्तते तेन क्तयोरपि विकल्पो भवति परिष्कण्णः परिस्कमा, परिष्कण्णवान् परिस्कन्नवान् । ऋदित्वाद्वाऽङि अस्कदत् अस्कान्त्सीत् अस्काम्ताम् अस्काम्सुः चस्कन्द चस्कन्दतुः चस्कन्दुः, अनुस्वारेत्त्वान्नेट् स्कन्ता स्कन्त्स्यति, यङि 'वञ्च
संस' (४।१५०) इति पूर्वस्य न्यागमे चनीस्कद्यते । यङ्लुपि चनीस्कन्दीति चनीस्कन्ति २ २५ 'स्कन्दस्यन्दः' (४।३।३०) इति क्तः कित्त्वाभावानलोपाभावे स्कन्त्वा प्रस्कन्ध, ये तु यपः कित्त्वमिच्छन्ति तन्मते प्रस्कद्य । विशपतेति (५।४।८१) णमि गेहावस्कन्दमास्ते गेहं गेहमवस्कन्दमास्ते । उणावौ 'स्कन्धमिभ्यां धः' (२५१) स्कन्धः अंसः । बहुलाधिकाराहस्य लुक् । 'स्कन्देध च' (९६०) इत्यसि स्कन्धः स्कन्धसी । इति दान्ता षड्विंशतिः स्कन्दंवर्जाः सेटश्च । 'षिधू गत्याम्' 'पः स.' इति सत्वे सेधति असेधीत् सिसेध । 'गतौ सेधः' (२॥३॥६१) सकारस्य षो न भवति । अभिसेधति ३० अनुसेधति गाः अभिगच्छति अनुगच्छतीत्यर्थः । गतेरन्यत्र 'स्थासेनि०' (२।३।४०) इति षत्वे प्रतिषेधति
पापात् , अनेकार्थत्वाचायं निषेधेऽपि वर्तते, पोपदेशत्वाद्गतेरन्यत्र 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिषेध अदित्वात् 'अदितो वा' (१।४।४२) इति वैटि सिद्धा सेधित्वा 'वौ व्यञ्जनादेः०' (४।३।२५) इति इटि क्त्वो वा कित्त्वम् , सनो वा कित्त्वे सिसिधिषति सिसेधिषति, क्ति वेट्वात् क्तयोर्नेसिद्धः सिद्धवान् । (निरनुबन्धपाठे तु सिधितः)॥ "षिधूच संराद्धौ' इत्यस्य, दिवादिकस्य तु सिद्ध्यति निसिद्ध्यति ३५ स्थासेनी'त्यत्र सेधनिर्देशान्नात्र षत्वम् । अनुखारेस्वात् सेद्धा सेत्स्यति । 'षिधौ शास्त्रमाङ्गल्ययोः'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org