________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५२५ न्तत्वाभावेऽपि च रूढत्वादुत्तरपदत्वं ततश्चोत्तरपदस्यान्तो नकार इति णत्वविकल्पों भवति । अयुवपक्काह्न इति किम् ? आर्ययूना क्षत्रिययूना प्रपक्कानि परिपक्कानि प्रपक्केन परिपक्केम प्रपकानां परिपक्कानां दीर्घाह्री शरत् दीर्घाह्ना निदान त्र्यह्नि चतुरहनि 'सङ्ख्यासायवेरहस्याहन् ङौ वा' (१।४।५०) इत्यह्नस्याहनादेशः। अलचटतवर्गशसान्तरे इत्येव-गईभवाहिनौ गईभवाहिनः॥ यदा तु माषस्य कुम्भवाप इति तदा 'कवर्गकस्वरवति' (२।३।७६) इति नित्यं प्राप्ते । एवं शेषेष्वपि यथासम्भवं वाच्यम् ,५ अन्ये तु माषाणां कुम्भवाप इति व्यवधायकस्योत्तरपदावयवत्वे प्रतिषेधं नेच्छन्ति, तन्मते माषकुम्भवापेणेत्यादौ नित्यमेव णत्वम् , अपरे तु माषकुम्भस्य वाप इति व्यवधायकस्य पूर्वपदावयवत्वेऽपि प्रतिषेधं नेच्छन्ति, तन्मते माषकुम्भवापेन माषकुम्भवापेणेत्यादौ विकल्प एव भवति । अनाडीति किम् ? प्राणद्धं पर्याणद्धं प्रण्यास्यति प्रण्यापचति । अतद्धित इति किम् ? आगोमयेण शुष्कगोमयेण । एवं च आङो व्यवधायकत्वाभावात् ह्यस्तन्यां प्रण्यागदत् इति सिद्धम् ॥८५॥ अद्यतन्यां सूत्रम्-१०
व्यञ्जनादेोपान्त्यस्यातः ॥ ८६ ॥ [सि० ४।३।४७] व्यञ्जनादेर्धातोरुपान्त्यस्यातः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अगादीत-अगदीत् अगादिष्टाम्-अगदिष्टाम् अगादिषुः-अगदिषुः ५ । जगाद ६ । गद्यात् ७ । गदिता ८ । गदिष्यति ९ । अगदिश्यत् १०। 'अर्द गतियांचनयो । अर्दति ४ । आर्दीत् ५। आनद ६ । अर्थात् ७। अर्दिता ८ । अर्दिष्यति ९ । आर्दिष्यत् १० । 'णिदु कुत्सायाम्। 'पाठे धात्वादेो न:' ॥८६॥१५
'व्यञ्ज. सेटि सिचीति परस्मैपदविषये इति शेषः । अगादीत् अगदीत् । एवं गौरिवाचारीत् अगावीत् अगवीत् । व्यञ्जनादेरिति किम् ? मा भवानटीत् मा भवानशीत् । उपान्त्यस्येति किम् ? अरक्षीत् अपिपठिषीत् अवधीत् । अत इति किम् ? अदेवीत् । सेटीत्येव अधाक्षीत् । एवं 'पठ व्यक्तायां वाचि' इति ठकारान्तस्यापि पठधातोर्लाघवार्थमत्र निर्देशः। एवं च रद विलेखने' विलेखनमुत्पाटनं रदति अरादीत् अरदीत् रराद रेदतुः । 'णद जिश्विदा अव्यक्ते' शब्दे, शब्दमात्र इत्यन्ये, २० 'पाठे धात्वादेर्णो नः' (२।३।९७) इति नत्वे नदति 'अदुरुपसर्ग' (२।३।७७ ) इति णत्वे प्रणदति 'नेर्मादा०' (२।३१७९) इति णत्वे प्रणिनदति, अनादीत् अनदीत्, ननाद नेदतुः । 'बिक्ष्विदा' श्वेदति अक्ष्वेदीत् चिक्ष्वेद चिक्ष्विदतुः । अर्दधातुं पठतो निर्दिशति अर्दतीत्यादि सर्व सुगमम् । 'ऋथ अर्दिण् हिंसाया'मित्यस्य तु 'युजादेर्नवा' (३।४।१८) इति वा णिचि अर्दयते अर्दते । 'नर्द णर्द गर्द' शब्दे नोपदेशत्वाण्णत्वाभावे प्रनर्दति । णर्दधातोस्तु 'पाठे धात्वादे'रिति नत्वे नर्दति णोपदेशत्वाण्णत्वे २५ प्रणर्दति, गर्द गर्दति अगर्दीत् जगर्द गर्दभः, 'तर्द हिंसायाम्' तर्दति अतर्दीत् ततर्द, 'कर्द कुत्सिते शब्दे' कर्दति अकर्दीत् चकर्द, 'खर्द दशने' दशनमिह दन्दशूककर्तृकं दन्तकर्म स्वभावाच्च धातुः साधनप्रधानप्रयोगसमवायी खर्दति अखर्दीत् चखर्द । पूर्वे तु 'खर्द दन्दशूक' इति पठन्ति, व्याचक्षते चवन्दशनशीलो दन्दशूक उच्यते अनेन च तद्विषया क्रिया लक्ष्यते क्रियार्थत्वाद्धातोः । दन्दशन इति यङन्तनिर्देशेऽपि तद्विषया क्रिया प्रतीयते, किन्तु साधननिर्देशः साधनप्रधानप्रयोगसमवायित्व-३० ज्ञापनार्थ इति । 'अदु बन्धने' उदित्वान्नोऽन्ते अन्दति आन्दीत् 'अनात०' (४।१।६९) इत्यात्वे ने च आनन्द । उणादौ 'कृषिचमि०' (८२९) इत्यूः अन्दूः गजपादशृङखलम् । 'इदु परमैश्वर्ये' परमैश्चर्य परमेशनक्रिया उदित्वान्ने इन्दति ऐन्दीत् 'गुरुनाम्यादे' (३।४।४८१) इत्यामादेशे इन्दाञ्चकार उणादौ भीवृधि० (३८७) इति रे इन्द्रः । 'विदु अवयवे' अवयव एकदेशः। अनेन स्वगता क्रिया ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org