________________
५२४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'अना' अविट्परोक्षा-सेट्थवोरिति पूर्वसूत्रादनुवर्तनीयम् । ननु वित्परोक्षावर्जनं णवर्थ णवि तु णित्त्वाद्वृद्धौ अकारस्यैवाभावात् अनर्थकमिदमिति । नैवम् अन्त्यणवो वा णित्त्वात् अहं पपच पपतेत्यादौ अकारसम्भवात्तव्यावर्तकत्वेन सार्थकमेवेदमिति । परोक्षायामित्येव-पत्यते । सेट्थवीयेव-पपत्थ अनादेशादेरिति किम् ? बभणतुः बभणिथ, चकणतुः चकणिथ । एकव्यञ्जनमध्य इति किम् ? तत५क्षतुः । अत इति किम् ? दिदिवथुः दिदेविथ । अवित्परोक्षा-सेट्थवूभ्यामनादेशादित्वस्य विशेषणं किम् ? इहापि यथा स्यात्–णम् नेमतुः नेमुः, षहि सेहे सेहाते सेहिरे, युजादौ षहण सेहिथ । अत्र हि अनिमित्ते एव नत्वसत्वे न तु परोक्षाथनिमित्ते इति । इति तकारान्तधातवो दश सेटश्च ॥ १०॥ 'कुथु पुथु लुथु मुथु मन्थ मान्थ हिंसासंक्लेशयोः' हिंसा प्राण्युपघातः, संक्लेशो बाधा । उदित्वान्ने
कुन्थति । 'कुथश् संक्लेशे' इत्यस्य तु कुनाति, पुथु पुन्थति, लुथु उदित्वान्ने लुन्थति, मथु मन्थति, १० मन्थ नोऽपान्त्योऽयं विलोडनेऽयमित्येके मन्थति, 'मन्थश् विलोडने' इत्यस्य तु मनाति मनीतः । मान्थ
मान्थति अमान्थीत् ममान्थ । इति थान्ता षट् सेटश्च ॥ ६ ॥ 'खाह भक्षणे' खादति अखादीत् चखाद चखादतुः । 'बद स्थैर्ये' ओष्ठ्यादिः । 'वद व्यक्तायां वाचि' इति तु दन्त्योष्ठ्यादिः स च यजादिगणे पठितः, बदति अबादीत् अबदीत् बबाद बेदतुः । 'खद हिंसायां च' चकारात् स्थैर्ये । खदति
अखादीत् चखाद चखदतुः । गधातुं कण्ठतो निर्दिशति-गदति 'नेमादा' (२३१७९) इति १५णत्वे प्रणिगदति हस्तन्यां प्रण्यगदत् । प्राण्यगदत् अत्र 'पदेऽन्तरे०' इत्यत्राङो वर्जनादाब्यव
धानेऽपि णत्वं स्यात् । तथाहि 'पदेऽन्तरेऽनातद्धिते' (२।३।९३) आङन्तं तद्धितान्तं च वर्जयित्वाऽन्यस्मिन् पदे निमित्त निमित्तिनोरन्तरे व्यवधायके नस्य णत्वं न स्यात् । प्रावनद्धं पर्यवनीतं माषकुम्भवापेन, ब्रीहिकुम्भवापेन, चतुरङ्गयोगेन, भर्तृबाहुयुगेन, रोषभीममुखेन । अत्र यदा माषकुम्भस्य वाप इति, माषाः कुम्भवापोऽस्येति वा समासस्तदा 'वोत्तरपदान्त-न-स्यादेरयुव२० पकाहः' (२।३।७५) अनेन विकल्पे प्राप्ते निषेधस्तद्यथा-पूर्वपदस्थाद्रपूवर्णात्परस्योत्तरपदान्तभूतस्य
नस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा स्यात्, न चेत्स नकारो युवन पक्कन् अहन शब्दसंबन्धी भवति । उत्तरपदान्त-व्रीहिवापिणौ ब्रीहिवापिनी व्रीहिवापिणी व्रीहिवापिनी स्त्री कुले वा । माषवापिणौ माषवापिनौ माषवापिणी माषवापिनी स्त्री कुले वा । नागम-व्रीहिवापाणि व्रीहिवापानि
माषवापाणि माषवापानि कुलानि । 'इवु व्याप्तौ' चेत्यस्यानटि प्रेण्वनं प्रेन्वनं 'हिवु प्रीणने' 'पिवु सेचने' २५ इत्यनयोः शतरि प्रहिण्वन् प्रहिन्वन् प्रपिण्वन् प्रपिन्वन् । हिनोतेरेव ह्यस्तन्यां प्राहिण्वन् प्राहिन्वन् । बहुलवचनादनाम्नोऽपि समासः, समासे हि पूर्वोत्तरपदव्यवहारः पुरुषश्च वारि च पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वाऽन्तरङ्गात्वादेकपदाश्रितं रघुवर्ण०' (२।३।६३) इत्यादिना नित्यमेव णत्वम् । स्यादि-ब्रीहिवापेण व्रीहिवापेन माषवापेण माषवापेन व्रीहिवापाणां वीहिवापानां माप
वापाणां माषवापानां । व्रीहिवापान माषवापानित्यत्र त्वनन्त्यस्येत्यधिकारान्न भवति । उत्तरपदेति किम् ? ३० गर्गाणां भगो गर्गभगः सोऽस्यास्तीति समासपदादिन् गर्गभगिणी अत्रोत्तरपदस्यान्तो नकारो न भव
तीति विकल्पो न भवति, एकपदस्थत्वात्तु मातृभोगीण इत्यादिवन्नित्यमेव णत्वं भवति । अन्तादिग्रहणं किम् ? गर्गाणां भगिनी गर्गभगिनी एवं दाक्षिभगिनी। अत्र न नकारोऽन्तः किन्तु डीप्रत्ययः । यद्येवं माषवापिणी माषवापिनीत्यत्र नकारस्योत्तरपदान्तत्वाभावाद्विकल्पो न प्राप्नोति । उच्यते । 'गतिकार
कोपपादानां कृद्भिः समासवचनं प्राक् प्रत्ययोत्पत्तेः' इति न्यायात् प्रागेव स्त्रीप्रत्ययादन्तरङ्गात्वादश्वक्रीती३५ त्यादावकारान्तेनेव क्रीतशब्देन नकारान्तेन वापिन्-शब्देनोपपदसमासः, पश्चात् स्त्रीप्रत्ययः। विभक्त्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org