________________
५२३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः प्रणियच्छति प्रणिद्यति प्रणिदधाति प्रणिधयति । पत प्रणिपतति, पद प्रणिपद्यते, नद प्रणिनदति, गद प्रणिगदति, वपी प्रणिवपति, वही प्रणिवहति, शमू प्रणिशाम्यति चिग् प्रणिचिनोति, याति प्रणियाति, वाति प्रणिवाति, द्राति प्रणिद्राति, प्साति प्रणिप्साति, स्यति प्रणिस्यति, हन्ति प्रणिहन्ति, देग्धि प्रणिदेग्धि । तृचि प्रणिमाता प्रणिदातेत्यादि । अन्तरः खल्वपि-अन्तर्णिमिमीते अन्तर्णिदेग्धि, अडागमस्य धात्ववयवत्वेन व्यवधायकत्वाभावात् प्रण्यपतत् प्रण्यमिमीतेत्यादावपि भवति । प्रण्यास्थतीत्यादौ ५ त्वाङा व्यवधानेऽपि 'पदेऽन्तरे०' (२।३।९३) इत्यत्राङो व्यवधायकत्वप्रतिषेधाद्भवति । अदुरित्येव दुर्निमाता । उपसर्गान्तर इत्येव-प्रातर्निमिमीते । वप्यादीनामनुबन्धेन तिवा च निर्देशो यङ्लुब्निवृत्त्यर्थः, तेन प्रनिवावपीत्यादौ न भवति । पूर्वेषु तु भवति-प्रणिमामाति प्रणिमामेतीत्यादि । ङ्मादिविति किम् ? प्रनिमाति प्रनिमीनाति प्रनिमिनोति प्रनिदायन्ते ब्रीहयः प्रनिदायन्ते पात्राणि ।।
अत्रायं विशेष:-'अकखाद्यपान्ते पाठे वा' (२।३।८०) पाठे धातूपदेशे ककारखकारादिः १० षकारान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परे अदुरुपसर्गान्तःशब्दस्थाद्रपुवर्णात्परस्य ने कारस्य णो वा भवति । प्रणिपचति प्रनिपचति, प्रणिभिनत्ति २ प्रणिपापच्यते २, प्रणिपापचीति २, प्रणिपिपक्षति प्रनिपिपक्षति, प्रण्यपीपचत् २ प्रणिष्टनाति प्रनिष्टनाति । स्तभेः सौत्रेषु पाठापाठविषयत्वम्। पूर्वसूत्रारम्भसामर्थ्यात्पूर्वसूत्रविभक्तोऽस्य विषयस्तेन प्रणिमयते इत्यादौ पूर्वेण नित्यमेव णत्वम् । अकखादीति किम् ? प्रनिकरोति प्रनिकिरति प्रनिखनति प्रनिखादयति । अषान्त इति किम् ? प्रनिद्वेष्टि १५ प्रनिपिनष्टि । पाठ इति किम् ? इह च प्रतिषेधो यथा स्यात् प्रनिचकार प्रनिचखाद प्रनिपक्ष्यति, इह च मा भूत् प्रणिवेष्टा पनिवेष्टा, प्रणिदेष्टा प्रनिदेष्टा । यङ्लुपि नेच्छन्त्यन्ये प्रनिपापचीत्यादि । एवं प्रणिपततीत्यादि सिद्धम् ॥ ८२ ॥ अद्यतन्यां सूत्रम्
लुदिद्युतादिपुष्यादेः परस्मै ॥ ८३ ॥ [सि० ३।४।६४] लदितो द्युतादेः पुष्यादेश्च परस्मैपदेऽद्यतन्यामङ् स्यात् ॥ ८३ ॥ 'लदि०' ल इत् येषां लदितः, द्युतादयो 'घुद्योऽद्यतन्याम्' (३।४।४४) इत्यत्र परिगणितास्त्रयोविंशतिः, पुष्यादयो दिवाद्यन्तर्गता 'दिवादेः श्यः' (३।४।७२) इत्यत्र परिगणिष्यते । पुष्यादेरित्यत्र श्यनिर्देशात् पोषति पुष्णात्यादिग्रहणं न स्यात् । शेषं स्पष्टम् ॥ ८३॥ पुनरप्यत्र विशेषमाह सूत्रं
श्वयत्यसूवचपतः श्वास्थवोचपतम् ॥ ८४॥ [सि० ४।३।१०३] एषां चतुर्णामङि परे यथासङ्ख्यं श्वादयः स्युः । इति पप्तादेशे । अपप्तत् अपप्तताम् अपतन २५ ५। पपात ६॥८४॥
'श्वय०' एषां चतुर्णामिति श्वयतीति 'ट्वोश्वि गतिवृद्ध्योः' इति असू इति 'असूच क्षेपणे' इति वच इति 'वचंक् परिभाषणे' इति पत् इति प्रस्तुतोऽयमेव धातुः । श्वश्च अस्थश्च वोचश्च पतश्च श्वास्थवोचपप्तम् चत्वारोऽप्येते यथाक्रममादेशाः । परोक्षायां पपात ॥ ८४ ॥ द्विवचने सूत्रं
अनादेशादेरेकव्यञ्जनमध्येऽतः॥ ८५॥[सि० ४।१०२४] ३० अवित्परोक्षा-सेदथवोः परयोर्योऽनादेशादिर्धातस्तत्संबन्धिनोऽकारस्यासंयुक्तव्यञ्जनमध्यगतस्य ए: साम तु द्विः । प्राक्तु खरे स्वरविधेरिति कृतमपि द्वित्वं निवर्तते इत्यर्थः । पेततु: पेतुः । पेतिथ ६ । पत्यात् ७ । पतिता ८ । 'गद व्यक्तायां वाचि' ।गदति प्रणिगदति ४ ॥८५॥३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org