________________
५२२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सलुगू न प्राप्नोत्येव यथा सुकुस्मयतेः किपि सुकूरिति । सत्यं अस्लुकीतिवर्जनस्य प्रायिकत्वादसद्विधौ सलुक्यपि स्थानित्वप्रतिषेधाद् भवत्येव, *स्चु (स्च्यु) तावपि समानमेतत् । आद्यो द्रमिलानामेव, द्वितीयः कौशिकस्यैव सम्मतः, एवमन्यत्राप्याचार्यभेदेन धातुपाठो द्रष्टव्य: । 'जुतृ भासने' जोतति ऋदित्वाद्वाङि अजुतत् अजोतीत् जुजोत जुजुततुः जुजुतुः । 'अतु बन्धने' उदित्वान्ने अन्तति आन्तीत् ५ 'अनातो०' (४।१।६९) इत्यात्वे ने च आनन्त । अन्ये 'अतु इतु बन्धने' इति पेठुः इन्तति ऐन्तीत् इन्ताञ्चकार । 'कित निवासे' केतति अकेतीत् चिकेत चिकिततुः । धातूनामनेकार्थत्वात् 'कितः संशयप्रतीकारे' ( ३।४।६ ) इति स्वार्थे सनि विचिकित्सति मे मनः, चिकित्सत्यातुरं वैद्यः । निग्रहविनाशावपि प्रतीकारस्यैव भेदौ । परक्षेत्रे विचिकित्स्यः पारदारिकः, विचिकित्स्यानि क्षेत्रे तृणानि । 'ऋत घृणागतिस्पर्द्धेषु' अयं स्वार्थिकप्रत्ययान्ताधिकारे वक्ष्यते । इति तान्ता दश सेटश्च ।
१०
अथात्र तकारान्तधात्वधिकारात् ज्वलाद्यन्तर्गणपठितमपि पतधातुं कण्ठतो निर्दिशति 'पत्लु इति' पतति सनि 'इवृध ० ' ( ४ | ४|४७ ) इति वेट् । अनिट् पक्षे 'रभलभ० ' ( ४।१।२१ ) इति स्वरस्ये त्वे द्वित्वाभावे च पित्सति, इटि पिपतिषति, यङि 'वञ्चस्रंस ० ' ( ४|१|५० ) इति पूर्वस्यान्तो नीः पनीपत्यते, भावकर्मणोरेव प्राप्तस्य ध्यणो 'भव्यगेय ० ' ( ५/१/७ ) इति कर्त्तरि वोत्पत्तौ आपात्यः, पक्षे आपात्यमनेन 'वा ज्वल ० ' ( ५|१|६२ ) इति णे पातः - राहुः, पक्षे विपतः - पक्षी, वनि उत्पातः १५ निपातः 'वेटोऽपतः' ( ४|४|६२ ) इति पतो वर्जनादिप्रतिषेधाभावे पतितः पतितवान् । 'उदः पचि०' (५/२/२९) इति इष्णौ उत्पतनशील उत्पतिष्णुः 'लषपत०' (५/२/४१ ) इत्युकणि प्रपातुकः 'भूषाक्रोधार्थ ० ' ( ५।२।४२ ) इत्यने पतन: 'नीदाम्बू ० ' ( ५।२।८८ ) इति त्रुटि पत्रम् 'विशपत०' ( ५।४।८१ ) इति णमि गेहानुप्रपातमास्ते उणादौ 'वृद्मक्षी ( ४५६ ) त्यत्रे पतत्रं पत्रं ' 'पतिकृलूभ्योणिदि ( ४७९ ) त्याले पातालं 'पतेः सल:' ( ५७४ ) पत्सलः प्रहार : 'कमिवमिति' ( ६१८ ) २० णिदिः सम्पातिः गृध्रराज: 'सात्मन्नात्मन्निति ( ९१६ ) मनि निपातनात् णौ पाप्मा 'पतण गतौ' वा अदन्तः ‘शीश्रृद्धा०’ ( ५।२।३७ ) इत्यालौ पतयालुः । कसौ 'घसेकस्वरातः ० ' ( ४|४|८२ ) इति इटि पेतिवान् पेतुषः ॥ ८१ ॥ अथास्य उपसर्गयोगे कार्यविशेषमाह सूत्रम् -
नेर्मादापतपदनदगदवपीव हीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ ॥ ८२ ॥ [ सि० २२३ ७९ ]
२५ अनुरुपसर्गान्तस्थाद्रादे परस्यैषां सप्तदशानां सम्बन्धिनो नेरुपसर्गस्य नो ण स्यात् । प्रणिपतति ॥ ८२ ॥
'नेङ्र्मा०' ज्यादीनां सप्तदशानां द्वन्द्वः । 'अदुरुपसर्ग ० ' (२।३।७७) इत्यादि दुर्वर्जोपसर्गस्थेभ्यः अन्तशब्दस्थेभ्यश्च (?) रेफषकारऋवर्णेभ्यः परस्य नेरुपसर्गस्य संबन्धिनो नकारस्य ङ्मादिषु (माङादिषु) सप्तदशसु धातुषु परेषु णो भवति । ङ्मेति ङकारोपलक्षितयोः 'माझ् मानशब्दयोः ' 'मेङ् प्रतिदाने ' ३० इत्येतयोर्ग्रहणं न तु 'मांकू माने' 'मींग्श हिंसायां' 'डुमिंग्ट् प्रक्षेपणे' इति माति- मीनाति - मिनोतीनां ग्रहणम् । क्रमेणोदाहरणानि - प्रणिमिमीते परिणिमिमीते प्रणिमयते परिणिमयते । अनयोङ्कारनिर्देशश्च नानुबन्धार्थः किन्तु मात्यादिनिवृत्त्यर्थः, तेन यङ्लुप्यपि नेर्णत्वं स्यात् प्रणिपनीपतीति । देति दासंज्ञापरिग्रहात् ददाति दयति- यच्छति • द्यति - दधाति-धयतीनां ग्रहणम् । 'डुदांग्क् दाने' 'देड् त्रैङ् पालने ३४ 'दाम् दाने' 'दों छोच् छेदने' 'डुधांग्क् धारणे' 'दूधें पाने' एते दासंज्ञा इत्यर्थः । प्रणिददाति प्रणिदयते * श्रुतावपि इति है मधातु पारायणे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org