________________
प्रक्रियावृत्ति रूपे श्रीहेमप्रकाशे भ्वादयः परस्मैपदिनः
५२१ दोपान्योऽयं तवर्गस्यः' इति दस्य डत्वे चुति अचुडीत् चुचुडु अचि चुडुं भगम् । किपि सौ 'पदस्य' इति संयोगान्तलोपे चुद् चुत् । डोपान्त्योऽयमित्यन्ये तत्र संयोगान्तलोपे चुड् चुट् । इति डान्तास्त्रिंशत् सेटश्च । 'अण रण वणवण षण भण भ्रण मण घण ध्वण ध्रण कण कण चण शब्दे' १४ चतुर्दशैते शब्दे । शब्दः शब्दक्रिया । अणति आणीत् आण आणतुः, रणति अराणीत् २ रराण रेणतुः, वणति अवाणीत् २ ववाण 'अनादेशादे० (४।१।२४) इत्येत्वस्य 'न शसदादिः' (४।१।३०) इति ५ निषेधे ववणतुः ववणुः, व्रणति अवाणीत् २ वव्राण वत्रणतुः, बणति अबाणीत् २ बबाण 'अनादेशादे०' इत्येत्वे बेणतुः बेणुः पवर्गतृतीयादित्वेन 'न शसददि०' इति प्रतिषेधाभावः, भणति अभाणीत् २ बभाण आदेशादित्वादेत्वाभावे बभणतुः बभणुः । णावचि भाणः प्रबन्धविशेषः । भ्रणति अभ्राणीत् २ बभ्राण बभ्रणतुः, मणति अमाणीत् २ ममाण मेणतुः मेणुः, धणति अधाणीत् २ दधाण दधणतुः, ध्वणति अध्वाणीत् २ दध्वाण, ध्रणति अध्राणीत् २ दध्राण दध्रणतुः दध्रणुः, कणति अकाणीत् १० २ चकाण चकणतुः, कणति अकाणीत् २ चकाण चक्कणतु चकणुः, चणति अचाणीत् २ चचाण चेणतुः चेणुः, इह च शब्दार्थत्वाविशेषेऽपि रगितं नूपुरादौ मणितं सुरतकूजिते कणितमार्ने कणितं वीणादौ रूढम् , एवमन्यत्रापि कूजितं विहङ्गादौ बृंहितं गजे हेषितं हये वासितं पशुषु गर्जितं मेघादौ गुञ्जितं सिंहादावित्यादिकं लक्ष्यादभ्यूह्यम् । 'ओणू अपनयने' ओणति औणत् औणीत् 'गुरुनाम्यादे' (३।४।४८) इति परोक्षाया आमादेशे ओणाश्चकार ऋदित्वाण्णौ डे 'उपान्त्यस्यासमानलोपि-१५ शास्वृदितो डे' (४।२।३५) समानलोपि-शासूक्-ऋदनुबन्धवर्जितस्य धातोरुपान्त्यस्य परे णौ परे ह्रस्वो भवति । अस्य च ऋदित्त्वात् ह्रस्वाभावे मा भवानोणिणत् । ननु नित्यत्वादन्तरङ्गत्वाच द्वित्वे कृते उपान्त्याभावादेव ह्रखो न प्राप्नोति किमृदित्करणेन । सत्यं इदमेव ऋदिकरणं ज्ञापकं नित्यमन्तरङ्गं च द्वित्वमुपान्त्यहखो बाधते तेनान्यत्रापि पूर्वं ह्रस्वः पश्वाहित्वम् मा भवानटिटत् मा भवानशिशत् वनि 'वन्याङ् पञ्चमस्य' (४।२।६५) इत्यात्वे अवावा स्त्रियां २० 'णखरा०' (२।४।४) इति ङयां नस्य रत्वे अवावरी । 'शोण वर्णगत्योः' तालव्यादिः, शोणति अशोणत् अशोणीत् शुशोण शुशोणतुः, 'श्रोण श्लोण सङ्घाते' तालव्यादी, श्रोणति अश्रोणत् अश्रोणीत् शुश्रोण शुश्रोणतुः अचि गौरादित्वात् ड्यां च श्रोणी, श्रोणिरिति तु शृणौतेरौणादिके णौ, श्लोण श्लोणति अश्लोणत् शुश्लोण शुश्लोणतुः, 'पैण गतिप्रेरणश्लेषणेषु' पैणति अपैणत् पिपैण । इत्येकोनविंशतिर्णान्ताः सेटश्च । 'चितै संज्ञाने' संज्ञानं संवित्तिः, चेतति अचेतीत् चिचेत ऐदित्त्वात् क्तयोर्नेट २५ चित्तः चित्तवान् चित्तम् , 'चितिण् संवेदने' इत्यस्य तु चेतयते चेतनः चेतना 'अत सातत्यगमने' गमनं नित्यगतिः अतति आतीत् आत आततुः 'च्युत आसेचने' आसेचनमीषत्सेकः च्योतति ऋदित्वात् 'ऋदिच्छि०' (३।४।६५) इति वाङि अच्युतत् अच्योतीत् चुच्योत चुच्युततुः । 'चुतृ स्चुतृ स्च्युत क्षरणे' क्षरणं स्रवणं चोतति अचुतत् अचोतीत् चुचोत । स्चुत सो दन्त्योऽत्र 'सस्य शौ' (१।३।६१) इति शत्वे श्चोतति अश्श्रुतत् अश्वोतीत् । स्च्युत सो दन्त्यः, योपान्त्यश्वात्र, 'सस्य शौ' इति शत्वे त्र्योतति ३० अभ्युतत् अभ्योतीत् चुन्योत । षट् छ्योतन्तीति 'डः सः त्सोऽश्वः' (१।३।१८) इति श्चो वर्जनाच्छः त्सो न भवति । श्चो वर्जनादेव च सकारापदिष्टं कार्य तदादेशस्य तालव्यस्यापि विज्ञायते तेन घृतं छ्योततीति किप् घृतश्च्युत् , घृतच्युतमाचष्टे णिचि अन्त्यस्वरादिलुकि पुनः विप् 'वो' (४।४।१२१) इति यलुकि घृतञ्च् ततः सौ 'संयोगस्यादौ०' (२।१।८८) इति शलुकि सिद्धं धृतक इति । नन्वत्र 'न सन्धि.' (७।४।१११) इत्यत्रास्लुकि इति वर्जनाण्णिलुकः स्थानित्वप्रतिषेधाभावे णिलुकू स्थानीति पदान्तत्वाभावे ३५
है• प्रका० उत्त० ६६
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org