SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ५२० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुक्ष्यति । 'वठ स्थौल्ये' वठति अवाठीत् २ 'अनादेशादे' (४।१।२४) इत्येत्वस्य 'न शसददि०' (४।१।३०) इति प्रतिषेधे ववठतुः । 'मठ मदनिवासयोश्च' चकारात्स्थौल्ये, मठति अमाठीत् २ ममाठ मेठतुः । 'कठ कृच्छ्रजीवने' कठति अकाठीत् २ चकाठ आदेशादित्वात् चकठतुः । 'हठ बलात्कारे' प्लवनकीलबन्धनयोरित्यन्ये, हठति अहाठीत् २ जहाठ जहठतुः 'उठ रुठ लठ उपघाते' ५ उठति औठीत् उवोठ ऊठतुः ऊठुः । रुठ रोठति । लुठ लोठति । 'लुठत् संश्लेषणे' इत्यस्य लुठति । 'पिठ हिंसासंक्लेशयोः' पेठति अपेठीत् पिपेठ पिपिठतुः । 'शठ कैतवे च' चकारात् हिंसासंक्लेशयोः । तालव्यादिः, शठति अशाठीत् २ शशाठ शेठतुः । 'शुठ गतिप्रतीघाते' तालव्यादिः, शोठति शुशोठ उदिदयमित्येके शुण्ठति । 'शुठण आलस्ये' इत्यस्य तु शोठयति । 'कुटु लुटु आलस्ये च' चकाराद्गतिप्रतीघाते, उदित्वान्ने कुण्ठति अकुण्ठीत् चुकुण्ठ । लुछ लुण्ठति अलुण्ठीत् लुलुण्ठ । 'शुद्ध शोषणे' १० तालव्यादिः शुण्ठति अशुण्ठीत् शुशुण्ठ कर्मणि घनि शुण्ठी, 'शुठुण शोषणे' इत्यस्य तु शुण्ठयति उणादौ 'किलिपिलि.'(६०८) इति इः शुण्ठिः नागरमेव । अठ रुठु गतौ अठति उदित्वान्ने रुण्ठति, लछुमप्यन्येऽधीयते लुण्ठति अलुण्ठीत् लुलुण्ठ । केचिदर्थभेदात् पुन ठमपि पठन्ति । इति ठान्ताः सप्तदश सेटश्च १७ । 'पुड्डु प्रमर्दने' पुण्डति अपुण्डीत् पुपुण्ड, 'मुडु खण्डने च' चकारात् प्रमर्दने, उदित्वान्ने मुण्डति अमुण्डीत् मुमुण्ड, 'मुडुङ् मजने' इत्यस्य तु मुण्डते, 'मड भूषायां १५ उदित्वान्ने मण्डति अमण्डीत् ममण्ड 'भूषाक्रोधार्थ' (५।२।४२) इत्यने मण्डनः उणादौ 'मृमन्यजि०'(५८)इत्यूके मण्डूकः 'मडुण् भूषायाम्' इत्यस्य तु मण्डयति, 'वडुङ् मडुङ् वेष्टने' इत्यस्य तु मण्डते, 'गड वदनैकदेशे' गण्डगतसंहननक्रियायामित्यर्थः गण्डति अगण्डीत् , 'शौड गर्वे' तालव्यादिः, शौडति अशौडत् अशौडीत् शुशौड शुशौडतुः, 'यौड़ सम्बन्धे' संबन्धः लेषः, यौडति अयौडत् अयौडीत् युयौड, 'मेड ग्रेड म्लेड लोड लौट्ट उन्मादे' मेडति अमेडत् २० अमेडीत् मिमेड मिमेडतुः, एवं ब्रेडति म्लेडति लोडति लौडति पश्चापि ज्ञेयाः । शौड्रादयो लोडवर्जा टान्ता इत्यन्ये 'रोड रौड तोड़ अनादरे' रोडति अरोडत् अरोडीत् रुरोड, रौडति अरौडत् अरौडीत् रुरौड, तौडति अतौडत् अतौडीत् तुतौड। 'क्रीड विहारे' क्रीडति अक्रीडत् अक्रीडीत् चिक्रीड 'तुड़ तूड़ तोडने' तोडनं दारणम् । तोडति अतोडत् अतोडीत् तुतोड, दारणस्य हिंसाविशेषत्वाद्धन्त्यर्थाश्चेति चुरादित्वे तोडयति, संयुक्तडान्तोऽयमित्येके तुडुति उभयोर्लक्ष्यं 'तुडुत्यंहः सकलमचिरात्तोडयत्यश्रियं च' । 'तूड' २५ सूडति अतूडत् अतूडीत् तुतूड। 'हुडहूड हट्ट हौड गतौ' होडति हूडति हडति हौडति अहोडत् २ अहूडत् २ अहडत् २ अहौडत् २ जुहोड जुहूड जुहूड जुहौड। 'खोड़ प्रतीपाते' गतावित्यनुवृत्तेर्गतिविषये प्रतीपाते खोडति अखोडत् २ चुखोड । 'विड आक्रोशे' वेडति अवेडीतू विवेड विविडतुः। 'अड उद्यमे' अडति ध्यडति आडीत् आड । 'लड विलासे' लडति लत्वे ललति अलडत् ललाड लेडतुः 'लडण उपसेवायाम्' इत्यस्य तु उपलाडयति 'ललिण् ईप्सायाम्' लालयते 'घुपेरविशब्दे' (४।४।६८) इति विशब्दप्रति३०षेधात् णिचो नित्यत्वे उल्ललते। 'कडु मदे' उदित्वान्ने कण्डति अकण्डीत् चकण्ड, 'कडुङ् मदे' इत्यस्य तु कण्डते । 'कदूड कार्ये दोपान्त्योऽयं तवर्गस्य०' ( १।३।६० ) इति दस्य डत्वे कड्डुति अकड्डीत् चकड्ड । अचि कडः कर्कशः । किपि 'पदस्य' (२।११८९) इति संयोगान्तलोपे कद् कत् , अन्ये तु डोपान्त्य मेनं मन्यन्ते तदा संयोगान्तलोपे कड् कट् । 'अदुड अभियोगें' 'तवर्गस्यः' इति दस्य डत्वे अड्डति ___ आहीत् 'अनात०' (४।१।६९) इत्यात्वे ने च आनडु । विपि 'पदस्य' इति संयोगान्तलोपे अद् अत् ३५ अन्ये तु डोपान्यमेनं मन्यन्ते तदा संयोगान्तलोपे अट अडू । चुदृड हावकरणे हावो भावसूचनम् , For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy