________________
प्रकियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः वृद्धेरेदित्त्वात् 'न विजागृ०' (४।३।४९) इति निषेधे अकटीत् । अस्यादेशादित्वादनादेशादेरित्येत्वाभावे चकाट चकटतुः । 'शट रुजाविशरणगत्यवसादनेषु(-वशातनेषु)' चतुर्वर्थेषु तालव्यादिः, शटति अशाटीत् २ शशाट शेटतुः । 'वट वेष्टने' वटति रजुम् अवाटीत् २ ववाट 'अनादेशादे०' (४।१।२४) इत्येत्वेऽस्य 'न शसददि०' (४।१।३०) इति प्रतिषेधे ववटतुः । 'किट खिट उत्रासे' उत्रासो भयोद्गतिः उपासनं च, केटति खेटति अकेटीत् अखेटीत् चिकेट चिखेट । 'शिट षिट अनादरें' एतौ तालव्य-५ मूर्धन्यादी शेटति अशेटीत् शिशेट । पिट 'षः सः' (२।३।९८) इति सत्वे सेटति षोपदेशत्वात्पत्वे सिषेट । 'जट झट सङ्घाते' जटति अजाटीत् २ जजाट, झटति उज्झटति अझाटीत् २ जझाट आदेशादित्वादेत्वाभावे जझटतुः । 'पिट शब्दे च' चकारात्सङ्घाते, पेटति अपेटीत् पिपेट पिपिटतुः । 'भट भृतौ' भटति अभाटीत् २ बभाट । 'तट उच्छ्राये' तटति अताटीत् २ तताट तेटतुः । 'खट काङ्क्ष' काङ्क्षास्यास्तीति काङ्क्षः अभ्रादित्वादः काङ्क्षाविशिष्टो धात्वर्थः । खटति अखाटीत् २१० चखाट चखटतुः । 'णट नृत्तौ' नतावित्यन्ये, हिंसायामप्येके, नटति णोपदेशत्वात् 'अदुरुपसर्ग० (२।३१७७ ) इति णत्वे प्रणटति । नायं णोपदेश इत्येके, प्रनटति अनाटीत् २ ननाट नेटतुः । 'नटण्' अवस्यन्दने' इत्यस्य तु नाटयति नाटकम् 'जासनाट.' (२।२।१४) इति कर्मणो वा व्याप्यत्वे चौरस्योन्नाटयति । 'हट दीप्तौ' हटति अहाटीत् २ जहाट जहटतुः, णके हाटकम् । 'षट अवयवे' 'घः स.' (२।३।९८) इति सत्वे सटति असाटीत् २ ससाट सेटतुः । 'लुट विलोटने' विलोडन १५ इत्यन्ये, लोटति अलोटीत् लुलोट लुलुटतुः । 'लुटच् विलोटने' इत्यस्य तु लुट्यति, 'लुटण भासार्थः' लोटयति । 'चिट प्रैष्ये' प्रैष्यं दासत्वं चेटति अचेटीत् चिचेट चिचिटतुः । 'विट शब्दे' आक्रोशे इत्यन्ये, वेटति अवेटीत् विवेट विविटतुः । 'हेट विबाधायाम्' हेटति अहेटीत् जिहेट । डान्तोऽयमित्येके हेडति अहेडीत् जिहेड। 'अट पट इट किट कट कटु कटै गतौ' अटति आटीत् 'अस्यादेराः परोक्षायाम्' (४।१।६८) आट आटतु आटुः, पटति अपाटीत् पपाट पेटतुः, 'पटण भासार्थः' अस्य २० तु पाटयति 'पट वटण् ग्रन्थे' अदन्तः पटयति । इट एटति ऐटीत् २ इयेट इयटतुः, किट केटति अकेटीत् चिकेट चिकिटतुः, उत्रासे पठितो(तम)ऽप्यर्थभेदात्पुनः पठति । कट कटति अकाटीत् २ चकाट चकटतुः, कटु उदित्वानागमे कण्टति अकण्टीत् चकण्ट, कटै कटति ऐदित्त्वात् क्तयोर्नेट कट्टः कट्टवान् । 'कटु वैकल्ये' कुण्टति अकुण्टीत् चकुण्ट, डान्तोऽयमित्येके कुण्डति । 'मुट प्रमर्दने' मोटति 'पुट मुटण संचूर्णने' इत्यस्य तु मोटयति । 'चुट चुटु अल्पीभावे' चोटति अचोटीत् चुचोट । चुण्टति २५ अचुण्टीत् चुचुण्ट । 'वटु विभाजने' विभाजनं विभागीकरणं उदित्वान्ने वण्टति अवण्टीत् ववण्ट । 'वटुण् विभाजने' इत्यस्य तु वण्टयति, 'रुटु लुटु स्तेये' रुण्टति अरुण्टीत् रुरुण्ट, लुण्टति अलुण्टीत् लुलुण्ट, 'लुटण तेये च' लुण्टयति, ठान्तावतावित्यन्ये । 'स्फट स्फुट्ट विशरणे' स्फुटति वस्त्रम् उदिदयमिति केचित् तत्र ने स्फण्टति अस्फाटीत् २ पस्फाट पस्फटतुः, स्फुट स्फोटति अद्यतन्यां ऋदित्वादङ् अस्फुटत् पक्षे अस्फोटीत् , 'स्फुटत् विकसने' इत्यस्य तु कुटादित्वात् स्फुटति अस्फुटीत् ३० पुस्फोट, 'वट स्फुटण् भेदे' इत्यस्य तु स्फोटयति । कथं स्फुटयति स्फुटं करोतीति णिचि भविष्यति बहुलमेतदितिवचनात् चुराद्यदन्तो वा 'स्फुटण्' ज्ञेयः । 'लट बाल्ये' बाल्यं बालक्रिया लटति अलाटीत् २ ललाट लेटतुः । 'रट रठ च परिभाषणे' चकारो लटानुकर्षणार्थः तेन लटेरर्थद्वयं सिद्धम् , रटति अराटीत् २ रराट रेटतुः । इत्यष्टात्रिंशत् टान्ताः सेटश्च ३८ । रठति अराठीत् २ रराठ रेठतुः । 'पठ व्यक्तायां वाचि' पठति अपाठीत् २ पपाठ पेठतुः । एवं गद्धातोरतिदेशेन तत्र कण्ठतो निर्दे-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org