________________
५१८
५
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञ हैमलघु
अद्यतन्य तकारादौ कारादौ च सूत्रम् -
धुड्हस्खानुगनिटस्तथोः ॥ ७९ ॥ [ सि० ४ ३ ७० ]
धुडन्तात् हस्वान्ताच्च धातोः परस्यानिटः सिचस्तादौ थादौ च लुकू स्यात् । अत्याक्ताम् अत्याक्षुः । अत्याक्षीः । अत्याक्ष्म ५ ।। ७९ ।
'धुड्०' । क्रमेणोदाहरणानि, अभैत्तां अभैत्तं अभित्त अभित्था । वसू - अवात्तां अवात्तं अवात्त, ह्रस्व-अकृत अकृथाः, समस्थित समस्थिथाः, आहत आहथाः । धुड्-हस्वादिति किम् ? अमंस्त अमंस्थाः अच्योष्ट अच्योष्टाः । लुकः परत्वेऽपि नित्यत्वात्प्रागेव गुणः । तथोरिति किम् ? अभित्सातां अभित्सत, अकृषातां अकृषत । अनिट इति किम् ? व्यद्योतिष्ट व्यद्योतिष्ठाः । ह्रस्वान्ताद्धातोरिति किम् ? प्रास्नाविष्ट गौः स्वयमेव, अलाविष्टाम् अलाविष्ट, नेरिटश्च परस्य लोपो मा भूत्, न चात्रानिट इत्यं१० शेन व्यंगविकलता, अलावि इति हस्वान्तरूपाश्रयणेन ततः परस्यानिटः सिचो विद्यमानत्वात् ।
बधिकारे लुम्ग्रहणं सिजलुक्यपि स्थानित्वेन तत्कार्यप्रतिपत्त्यर्थं तेनावात्तामित्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिद्धा भवति । तथासि इत्यनुवर्त्तमाने तथग्रहणं व्याप्तिप्रतिपत्त्यर्थं तेन साहचर्यं मास्ति । तथोरिति द्विवचनं यथासङ्ख्यपरिहारार्थम् ॥ ७९ ॥ परोक्षायां णिति सूत्रम् ।
त्रिति ॥ ८० ॥ [ सि० ४ | ३ |५० ]
१५
ञिति णिति च परे धातोरुपान्त्यस्यातो वृद्धिः स्यात् । तत्याज तत्यजतुः । तत्यजिथ तत्यक्थ ६ । त्यज्यात् ७ । त्यक्ता ८ । त्यक्ष्यति ९ । अत्यक्ष्यत् १० । ' व्रज गतौ' । व्रजति ४ ॥ ८० ॥
'णिति' क्रमेणोदाहरणानि, अपाचि पाचकः पाकः पाचयति । अत इत्येव - भोगः भोजयति । उपान्त्यस्येत्येव-भङ्गः भञ्जकः चकासयति । णिति इति किम् ? पचति ॥ ८० ॥ व्रजधातोरद्यतन्यां सूत्रम् वदव्रजलः ॥ ८१ ॥ [ सि० ४ | ३ | ४८
]
२० वेदग्रजोलन्तरन्तयोश्रोपान्त्यस्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् । अत्राजीत् अत्राजिष्टाम् अत्राजिषुः । अत्राजीः ५ । वव्राज ६ । व्रज्यात् ७ । व्रजिता ८ । वजिष्यति ९ । अत्रजिष्यत् १० । 'पल पथे गतौ' । पतति ४ ॥ ८१ ॥
'बद०' उदाहरणक्रमश्चैवम् । अवादीत् अब्राजीत् । लन्त अचालीत् । रन्त अक्षात् । उपान्यस्येत्येव - अश्वल्लीत् अबधीत् । अत इत्येव - न्यमीलीत् न्यखोरीत् । 'व्यञ्जनादेवपान्त्यस्यातः ' २५ ( ४।३।४७) इति सूत्रस्यापवादोऽयम् । एवं 'षनं सङ्गे" "षः स० ' ( २ । ३ । ९८ ) इति षस्य सत्वे ‘दंशसञ्जः शवि’ (४।२।४९) इति निर्देश्य ( क्ष्य) माणसूत्रेण नलोपे सजति 'स्थासेनि०' (२।३।४० ) इति उपसर्गात्पत्वे व्यतिषजति अभिषजति अत्यजत् ' व्यञ्जनानामनिटि ' ( ४ | ३ | ४५ ) इति वृद्धौ असाङ्क्षीत् असाङ्क्ताम् असाक्षुः । संयोगान्तत्वात् ' इन्ध्यसंयोग ० ' ( ४।३।२१ ) परोक्षायाः कित्त्वाभावे ससञ्ज ससञ्जतुः ससजिथ ससङ्कथ ससञ्जिव ससञ्जिम, सज्यात् । एवं जान्ताश्चतु३० श्चत्वारिंशत्, त्यजञ्जवर्जाः सर्वे सेटश्च । 'कटे वर्षावरणयोः' वृष्टौ आवरणे चार्थे यथा कति वर्ष
मदजलं स्रवतीति कटः करिगण्डः, कटति आवृणोतीति कटो वीरणादिमयः, नास्य कटोऽसि निकट : समीप इत्यर्थः यत्तु 'संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे ( ७।१।१२५ ) इति नेः कटप्रत्यये निकट ३३ इति तदपि नैकधा शब्दव्युत्पत्तिरिति ज्ञेयम्, व्यञ्जनादेर्वोपान्स्यस्य' ( ४ | ३ | ४७ ) इति वा प्राप्ताया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org