SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः ५१७ घञ् क्यप् अल अच् वर्जिते अशिति प्रत्यये विषयभूते अजेवीं इत्यादेशः, अनुस्वार इनिषेधार्थः । प्रवेयं प्रवयणीयं प्रवायकः प्रवीय प्रवीता प्रवीतिः । घनादिवर्जनं किम् ? समाजः उदाजः समज्या, समजः पशूनाम्, 'समजस्तु पशूनां समाजस्त्वन्यदेहिनामिति कोषः । 'उदजः पशूनां' अजतीत्यजः अजा ॥ 'नने वा' (४।४।३) तृ अन इत्येतयोर्विषये वीं आदेशो वा स्यात् , प्रवेता प्राजिता प्रवयणो प्राजनो दण्डः, 'प्रतोदस्तु प्रवयणं प्राजनं तोत्र तोदने इति कोषः । अन्ये त्वने प्रत्यये व्यञ्जनादौ ५ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता प्राजिता प्रवेष्यति प्राजिष्यति प्रविवीषति प्राजिजिषति प्रवेतव्यं प्राजितव्यं प्रवेतुं प्राजितुम् ॥ इति वी आदेशे अवैषीत् वियाय वीयात् वेता वेष्यति अवेष्यत् । 'कूजू खुजू स्तेये' कोजति खोजति अकोजीत् अखोजीत् चुकोज चुखोज कोजिता खोजिता । 'अर्ज सर्ज अर्जने' अर्जति आर्जीत् आनर्ज, सर्जति असर्जीत् ससर्ज । 'कर्ज व्यथने' कर्जति अकर्जीत् चकर्ज । 'खर्ज मार्जने च' चात् व्यथने, खर्जति चखर्ज । 'खज मन्थे' मन्थो विलोडनं, खजति अखाजीत् १० चखाज चखजतुः खाजिता । 'खजु गतिवैकल्ये' गतेर्वैकल्यं विकृतत्वम् उदित्वान्नागमे खञ्जति चखञ्ज । 'एज़ कम्पने' एजति ऐजीत् ऐजिष्टाम् ऐजिषुः एजाञ्चकार एजिता । 'टोस्फूर्जा वज्रनिर्घोषे' स्फूर्जति अस्फूर्जीत् पुस्फूर्ज टुकार ओकार आकारश्च इतः टोरित्त्वात् 'ट्वितोऽथुः' (५।३।८३) 'व्यायामः कुलिशोऽस्यार्चिरतिभीः स्फूर्जथुर्ध्वनिः' इत्यभिधानचिन्तामणौ । ओदित्त्वाच्च 'सूयत्याद्योदितः' (४।२।७०) इति क्तयोस्तस्य नत्त्वे आदित्वाच्चेडभावे स्फूर्णः स्फूर्णवान्, 'भ्वादेर्नामिनः०१५ (२।१।६३) इति दीर्घ सिद्धे दीर्घोच्चारणं भ्वादेरिति दीर्घत्वस्यानित्यत्वज्ञापनार्थम् तेन कुर्दते कुर्दनमित्यपि सिद्धम् । 'क्षीज कूज गुज गुजु अव्यक्त शब्दे' क्षीजति अक्षीजीत् चिक्षीज, कूजति अकूजीत् चुकूज, गुज गोजति अगोजीत् जुगोज, गुजु उदित्त्वान्नागमे गुञ्जति अगुजीत् जुगुञ्ज । 'लज लजु तर्ज भर्त्सने' लजति अलाजीत् ललाज, लजु उदित्त्वान्नागमे लञ्जति अलञ्जीत् ललञ्ज, तर्जति अतीत् ततर्ज । 'लाज लाजु भर्जने च' चाद्भर्त्सने, लाजति अलाजीत् ललाज, लाजु लाञ्जति अलाञ्जीत् २० ललाञ्ज । 'जज जजु युद्धे' जजति जञ्जति अजाजीत् अजञ्जीत् जजाज जजञ्ज । 'तुज हिंसायाम्' तोजति अतोजीत् तुतोज । 'तुजु बलने च' चात् हिंसायाम् , पालनेऽपीत्यन्ये, बलनं प्राणनम्, तुञ्जति अतुञ्जीत् तुतुञ्ज । 'गर्ज गजु गृज गृजु मुज मुजु मृजु मज शब्दे' गर्जति अगर्जीत् जगर्ज बहुलमेतन्निदर्शनमिति वचनाचुरादित्वे गर्जयति, यल्लक्ष्यम् ‘प्रतिरवपरिपूर्णा गर्जयन्त्यद्रयोऽपि' । गजु गञ्जति अगञ्जीत् जगञ्ज, गृज गर्जति अगर्जीत् जग जगृजतुः, गृजु गृञ्जति अगृञ्जीत् जगृञ्ज, २५ मुज मोजति अमोजीत् मुमोज, मुजु मुञ्जति अमुञ्जीत् मुमुञ्ज, मृजु मृञ्जति, मज मजति अमाजीत् अमजीत् ममाज मेजतुः, 'गज मदने च' चकाराच्छब्दे, मदनं मदोत्पत्तिः गजति अगाजीत् अगजीत् जगाज जगजतुः । अथ त्यजधातोः साधने विशेषोऽस्तीति तं पाठतो निर्दिशति 'त्य हानौ' इत्यादि स्पष्टम् ॥ ७७ ॥ अद्यतन्यां सूत्रम् व्यञ्जनानामनिटि ॥ ७८॥ [सि० ४।३।४५] व्यञ्जनान्तस्य धातोः परस्मैपदविषयेऽनिटि सिचि समानस्य वृद्धिः स्यात् । 'चजः कगम्' इति जस्य गत्वे 'अघोषे प्रथमोऽशिटः' इति गस्य कत्वे 'नाम्यन्तस्था' इति सस्य षत्वे, अत्याक्षीत् ॥७८॥ 'व्यञ्ज०' बहुवचनं जात्यर्थं तेनानेकव्यञ्जनव्यवधानेऽपि । रञ्ज अराक्षात्, सञ्ज असाक्षात्, भञ्ज अभाङ्क्षीत्। तक्षौ अताक्षीत् , त्वक्षौ अत्वाक्षीत् । औदित्वाद्वेटौ। समानस्यत्यव-उदवोढां पूर्ववृद्धौ एकदेशेति न्यायाद्वहरोत्वं ततो भूतपूर्वगत्या ढस्य परेऽसत्त्वाद्वा व्यञ्जनान्तत्वे पुनरप्योकारस्य वृद्धिः प्राप्नोति । अनिटीति किम् ? अतक्षीत् अत्वक्षीत् अदेवीतू अकोषीत् अनर्तीत् ॥ ७८॥ ३६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy