________________
५१६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुआनश्चः आनश्चिथ आनश्चथुः आनञ्च आनश्च आनश्चिय २ । आशिषि 'अश्चोऽन याम्' (४।२।४६) अश्चेरनोंयामेव वर्तमानस्योपान्त्यनकारस्य लुग भवति क्यादादेः कित्त्वात् , अनर्चायां गतौ नलोपे अच्यात् अच्यास्तां अच्यासुः, अर्चायां तु नलोपाभावे अञ्चयात् अनयास्ता अञ्चयासुः, अश्चिता अश्लिष्यति आश्चिष्यत् । 'वनं चञ्चू त त्वञ्चू मञ्चू मुझू मुंनू म्रचू ५म्लुचू ग्लंचू षस्च गतौ' । पस्चवर्जा ऊदितो दश । वञ्चति अद्यतन्यां अवञ्चीत् अवञ्चिष्टां परोक्षायां ववश्च ववश्चिव ववश्चिम, एवं चञ्चू चञ्चति तञ्चू तञ्चति त्वञ्चू त्वश्चति मन्नू मञ्चति मुख्न मुञ्चति, चुचू म्रोचति अद्यतन्यां ऋदिच्छि० (३।४।६५) इत्यादिना वा अङि अस्रुचत् अम्रोचीत् , म्लुचू म्लोचति अम्लुचत् , ग्लुग्यू ग्लुञ्चति अग्लुश्चत् अग्लुञ्चीत् । षस्च 'पः स.' (२।३।९८) इति षस्य सत्वे, 'सस्य शषौ' (१।३।६१) इति सस्य शत्वे च सश्चति असश्चीत् १०ससश्च, 'ग्रुचू ग्लुचू स्तेये' गतावपि केचित् , ग्रोचति ग्लोचति 'ऋदिति०' (३।४।६५) इति वा अङि अग्रुचत् अग्लुचत् अग्रोचीत् अग्लोचीत् जुग्रोच जुग्लोच । एवं विंशतिश्चान्ताः सेटः । 'म्लेछ अव्यक्तायां वाचिं' 'स्वरेभ्यः' (१॥३॥३०) इति छस्य द्वित्वे म्लेच्छति अम्लेच्छीत् मिम्लेच्छ । 'लछ लाछु लक्षणे' छस्य द्वित्वे लच्छति लक्षयतीत्यर्थः आह्वयतीति वा, अलच्छीत्
ललच्छ, लाछु-उदितत्वान्नागमे लाञ्छति स एवार्थः अलाञ्छीत् ललाञ्छ । 'वाछु इच्छायाम्' १५वाञ्छति अवाञ्छीत् ववाग्छ । 'आछु आया' उदित्वान्नोन्त आञ्छति 'अनातो नश्चा०'
(४।१।६९) इत्यातो वर्जनादात्वनागमयोरभावे आञ्छ आञ्छतुः । 'हीछ लज्जायाम्' छस्य द्वित्वे हीच्छति अह्रीच्छीत् जिह्वीच्छ । 'हुर्छा कौटिल्ये' 'भ्वादेर्नामिन०' (२।१।६३) इति दीर्घ अहू
छ त् जुहूर्छ । 'मुर्छा मोहसमुच्छ्राययोः' मूर्च्छति अमूर्चीत् मुमूर्छ । 'स्फुर्छा स्मुर्छा विस्मृतौ' स्फूर्च्छति स्मूर्च्छति अस्फूीत् अस्मीत् पुस्फूर्च्छ मुस्मूर्छ । 'युछ प्रमादे' छस्य द्वित्वे युच्छति २० अयुच्छीत् युयुच्छ । अत्र 'उछु उछे' 'उछ विवासे' इति केचित्पठन्ति, तदयुक्तम् , तुदादिपठिताभ्यामेवामूभ्यामभिमतरूपसिद्धेः । इति छान्ता एकादश सेटः । 'धृज धृजु ध्वज ध्वजु ध्रज ध्रजु बज व्रजु षस्ज गतौ' धर्जति अधीत् दधर्ज दधृजतुः । इकारोपान्त्योऽयमिति केचित् धेजति । धृजु उदित्वान्नागमे धृञ्जति अधृञ्जीत् दधृक्ष धृज्यात् । ध्वजं ध्वजति 'व्यञ्जनादेोपान्त्यस्या०' (४।३।४७)
इति वा वृद्धौ अध्वाजीत् अध्वजीत् । ध्वजु उदित्वान्नागमे ध्वञ्जति अध्वञ्जीत् दध्वञ्ज । ध्रज ध्रजति २५ अध्राजीत् अध्रजीत् दध्राज । ध्रजु ध्रञ्जति अध्रजीत् दध्रा । वज वजति अवाजीत् अवजीत् ववाज । अनादेशादेरियेत्वे प्राप्ते तत्प्रतिषेधसूत्रं न शसददिवादिगुणिनः' (४।१।३०) व आदिर्यस्य स वादिः गुणोऽस्यास्तीति गुणी शसश्च ददिश्च वादिश्च गुणी च शसददिवादिगुणी तस्य शसददिवादिगुणिनः । शसदद्योर्वकारादीनां गुणीनां च धातूनां स्वरस्य एत्वं न भवति । क्रमेणोदाहरणानि, 'शसू हिंसायां' विशशतुः विशशिथ । 'ददि दाने' ददे दददाते दददिरे । 'वलि वल्लि ३० संवरणे' ववले ववलाते ववलिरे । 'अण रण वणादयो गतौ' ववणतुः ववणिथ । 'श्रृश् हिंसायां'
विशशरतुः विशशरिथ, चिचयिथ लुलविथ ॥ प्रकृते ववजतुः ववजुः ववजिथ । ब्रजधातुं प्रसिद्धप्रयोगत्वात्कण्ठत एव वक्ष्यति । परज 'पः स.' (२।३।९८) इति षस्य सत्त्वे 'सस्य शौ' (शश६१) इति सस्य शत्वे 'तृतीयस्तृतीय०' (१।३।४९) इत्यासन्नत्वात् शस्य जत्वे सज्जति
असज्जीत् ससज्ज । कचिदस्यात्मनेपदमपि दृश्यते 'प्रकृतेर्गुणसंमूढाः सज्जते गुणकर्मसु' 'सज्जमान३५मकार्येष्विति' । अज क्षेपणे च' चागतो, अजति अशिति 'अघक्यबलच्यजेी' (४।४।२)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org