________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५१५ हेतुः क्रिया, त्वति । 'युगु जुगु वुगु वर्जने' त्रयोऽप्युदितः युङ्गाति जुङ्गति वुङ्गति एवं गान्ता अष्टादश सेटः। 'गग्य हसने गग्घति घादिरयमित्येके घग्घति। 'दघु पालने' वर्जनेऽपीत्यन्ये, दवति 'शिघु आघ्राणे' आघ्राणं गन्धोपादानं शिवति । 'लघु शोषणे लङ्घति अत्र 'मघु मण्डने,' इत्येके पठन्ति मङ्घति, इति घान्ताश्चत्वारः, सेटो गग्यवर्जा उदितश्च । 'शुच शोके' शोचति 'कुच शब्दे तारे' सार उच्च इत्यर्थः शब्दमात्रेऽपीत्यन्ये कोचति चुकोच । 'कुच सम्पर्चने' इति ज्वलादौ पठिष्य-५ माणोऽपि इहार्थविशेषात्पुनः पठितः । 'क्रुश्च गतौ कुञ्चति । 'कुश्च च कौटिल्याल्पीभावयोः । चकार क्रुश्चोऽनुकर्षणार्थः तेन क्रुश्चक्षैयर्थ्य सिद्धम् । संक्रुश्चति आक्रुश्चति । 'लुश्च अपनयने' अनुपयुक्तापासने लुश्चति । इति ॥ ७५ ॥ एतेषु धातुषु प्रायः कांश्चित् काव्यादिषु अप्रसिद्धप्रयोगान् संभाव्य अतिप्रसिद्धप्रयोगान् पाठतो निर्दिशति । अर्चति-शस्तन्यां सूत्रम्
खरादेस्तासु ॥७६॥ [सि० ४।४।३१] खरादेातोरादेरद्यतनीयस्तनीक्रियातिपत्तिषु वृद्धिः स्यात् । आर्चत् ४ । आर्चीत् आर्चिष्टाम् ५॥७६ ॥ 'खरा०' स्पष्टम् । अद्यतन्यां आर्चीत् इत्यादि सुगमम् ॥ ७६ ॥ परोक्षायां सूत्रम् ।
अनातो नश्चान्त ऋदाद्यशौसंयोगस्य ॥ ७७॥ [सि० ४३११६९ ] ऋदादेरश्नोतेः संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरत आत्स्थानादन्यस्य आः स्यात् १५ कृतातो नोऽन्तश्च । आनर्च आनर्चतुः आनषुः ६ । अर्यात् ७ । अर्चिता ८ । अर्चिष्यति ९। आर्चिष्यत् १० । 'त्यजं हानौ' । त्यजति ४ ॥ ७७॥
'अना' न आत् अनात् , तस्य अनातः, आकारस्थानेऽनिष्पन्नस्येत्यर्थः । तथैवाह-आस्थानादन्यस्येति । क्रमेणोदाहरणानि । ऋदादि 'ऋधौच् वृद्धौ' द्वित्वे पूर्वस्य 'ऋतोऽत्' (४।१।३८) इति अत्वे अनेन तस्य आत्वे नोऽन्ते आनर्द्ध आनृधतुः आन्धुः । अशौ इति 'अशौटि व्याप्तौ' आनशे २० आनशाते आनशिरे । संयोग 'अऔप व्यक्तिम्रक्षणकान्तिगतिषु' आनञ्ज आनञ्जतुः । 'ऋछत् इन्द्रियप्रलयमूर्तिभावयोः' आनछे आनछेतुः । ऋदादेरिति किम् ? 'ऋक् गतौ' ' प्रापणे वा' द्वित्वे पूर्वस्य 'ऋतोऽत्' इति अत्वे 'अस्यादेराः परोक्षायाम्' (४।१।६८) इत्यात्वे 'नामिनोऽकलिहलेः' (४।३।५१ ) इति वृद्धौ आर आरतुः आद्यन्तवदेकस्मिन्नित्यपि ऋदादित्वं न यतो यथान्त्यव्यपदेशे ऋदादित्वमेवमादिव्यपदेशे ऋदन्तत्वमपि तत ऋत् आदिरेव यस्येत्यवधारणेनास्य निरासः । अशौ २५ इत्यौकारः किम् ? अभाते भूत् । आश आशतुः । संयोगस्येति किम् ? 'अट गतौ' आट आटतुः । अनात इति किम् ? 'आछु आयामे' आञ्छ आन्छतुः आञ्छुः, अत्र नोऽन्तागमे संयोगान्तत्वात्प्राप्नोति किन्तु द्वित्वे पूर्वस्य हस्खत्वे अकारस्य आत्स्थाननिष्पन्नत्वादनेन आत्वं नोऽन्तश्च न भवतः किन्तु 'अस्यादेः०' (४।१।६८) इति आत्वम् । कश्चिदत्रापीच्छति आनाञ्छ आनाल्छतुः आनाञ्छुः ॥ एवं च आनर्च आनर्चतुः आन ः 'स्क्रसृवृ०' (४।४।८१) इति इटि आनर्चिथ आनथुः आनर्च आनर्चिव २।३० आनर्चिम । अस्य चोपलक्षणत्वादन्येऽप्यत्र ज्ञेयास्ते चैवम् । 'अञ्चू गतौ च' चात्पूजायाम् , अश्चति १ अश्चेत् २ अश्चतु अश्चतात् ३ आश्चत् ४ आश्चीत् आश्विष्टां आश्विषु: ५ 'अनात०' (४।१।६९) इति पूर्वस्यात्वे नान्ते च आनन 'इम्ध्यसंयोगः' (४।२१) इति कित्त्वाभावेन नलोपाभावे आनञ्चतुः३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org