SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ५१४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुग्लेयात् ग्लायात् ग्लाता । 'म्लैं गात्रविनामे विनामः कान्तिक्षयः । म्लायति अम्लासीत् मम्लौ मम्लाथ मम्लिथ म्लायात् म्लेयात् म्लाता । 'चैं न्यङ्गकरणे' कुत्सितमङ्गं न्यङ्गम् । द्यायति अद्यासीत् दद्यौ दद्याथ दधिथ धायात् येयात् द्याता । '३ स्वप्ने' द्रायति निद्रायति, निद्राति इति तु 'द्रांक् कुत्सितगतो' इत्यस्य रूपम् । न्यद्रासीत् निदद्री निद्रिथ निद्राथ निद्रायात् निद्रेयात् निद्राता । 'तृप्तौ' प्रायति ५वत् । 'के गैं रै शब्दे' कायति गायति रायति, अकासीत् अगासीत् अरासीत्, [कङश्चञ् (४।१।४६)] धको जगौ ररौ, चकाथ चकिथ जगाथ जगिथ रराथ ररिथ, केयात् गेयात् रेयात् , काता गाता राता, कास्यति गास्यति रास्यति, अकास्यत् अगास्यत् अरास्यत् । 'ट्य स्त्य सङ्घाते च' चकाराच्छब्दे । ष्ट्यायति 'षःसोऽष्टयैः' (२।३।९८) इत्यत्र ट्यैवर्जनात् षस्य सत्वं न स्यात् अष्ट्यासीत् तष्ट्यौ तष्ट्याथ तष्टियथ ट्यायात् ध्येयात् ट्याता । स्मैं स्त्यायति ष्टयैवत् । 'खें खदने' खदनं हिंसा स्थैर्य च । खायति । " जै १० क्षये क्षायति जायति सायति, अक्षासीत् अजासीत् असासीत् , चक्षौ जजौ ससौ, चक्षाथ चक्षिथ जजाथ जजिथ ससाथ ससिथ, क्षेयात् क्षायात् , जेयात् , सेयात् , क्षाता जाता साता। मैं 3 पाके' स्रायति अनासीत् , सस्रो सस्राथ ससिथ, स्राता । . श्रायति सैंवत् । '. ओवै शोषणे' पायति । अस्य पारूपं लाक्षणिकमिति 'श्रौति०' (४।२।१०८) इति पिबादेशो न भवति । अशित्यात्वे पपौ पपिथ पपाथ, आशिषि ‘गापास्था०' (४।३।९६) इत्येत्वे पेयात् पाता । 'ओ' वायति ओकार इत् तस्य १५ फलं 'सूयत्याद्योदितः' (४।२।७० ) इति तयोस्तस्य नत्वे वानः वानवान् । शेषं पैंवत् । 'हर्णै वेष्टने 'पः सोऽष्ट्यैः' इति सत्वे स्नायति सस्नो साता 'ष्णांक शौचे' इत्यत्र वक्ष्यमाणाः प्रयोगा अत्राप्यूह्याः वेष्टने स्नायतीति प्रयोगार्थत्वादिहैतत्पाठस्य । इत्यैदन्ता अनिटश्चैकविंशतिः । ओदन्तादयोऽप्रसिद्धाः । ___ +इति खरान्ता भ्वादयः परस्मैपदिनो धातवः समासा: अथ व्यञ्जनान्तानामवसरस्ते च कादिव्यञ्जनक्रमेणैव निर्देष्टव्यास्तत्र 'फक नीचैर्गतौ' अकारः २० श्रुतिसुखार्थः, एवं शेषेष्वप्यदन्तेषु, नीचैर्गतिर्मन्दगमनं असव्यवहारो वा । फक्कति अफक्कीत् अफक्किष्टाम् अफक्किषुः पफक पफक्किथ पफक फक्क्यात् अस्य सेट्त्वात् फकिता फक्किष्यति अफक्किष्यत् । 'तकहसने', सहने इत्यन्ये, तकति अताक्षीत् तताक ततकिथ ततक्थ तक्यात् तकिता। 'तकु कृच्छ्रजीवने' उकारोऽनुबन्धः स च 'उदितः स्वरान्नोन्तः' (४।४।९८) इति नागमार्थः तङ्कति अताङ्क्षीत् सङ्ग्यात् तविष्यति । 'शुक गतौ' शोकति अशोकीत् शुशोक शुशुकतुः शुशोकिथ शुक्यात् शोकिता २५ शोकिष्यति । 'बुक्क भाषणे', भषणे इत्यन्ये, भषणं भर्त्सनं बुक्कति श्वा बुबुक्क बुकिष्यति । पञ्चैते कान्ताः सेटश्च । 'ओख राख लाख द्राख भ्रा शोषणालमर्थयोः' ओखति 'उपसर्गस्यानिणेधेदोति' (१।२।१९) प्रोखति औखत् औखीत् 'गुरुनाम्यादे.' (३।४।४८) इत्यामादेशे ओखाञ्चकार ऋदित्वादेव ओतो नेत्संज्ञा प्रयोगित्वाच्च । राखति अराखत् अराखीत् रराख । एवं लालुप्रभृतयोऽपि । एवं 'शाख श्लाख व्याप्तौ' एतावपि राखुवत् । 'कक्ख हसने' द्वितीयादिमेन ३० केचिन्मन्यन्ते कक्खति खक्खति चकक्ख चखक्ख । 'उख नख णख वख मख रख लख मखु रखु लखु रिखु इखु ईखु वल्ग रगु लगु तगु गु श्लगु अगु वगु मगु खगु इगु उगु रिगु लिगु गतौ' एवं ओखप्रभृतय ईखुपर्यन्ता द्वाविंशतिः खान्ताः सेटस्तेषु मखप्रभृतीनां ईखुपर्यन्तानां षण्णां उदित्वान्नोऽन्तागमे मङ्घति लङ्गति रितति इत्यादि, ईखोस्तु 'गुरुनाम्यादे०' रिति परोक्षाया आमादेशे ईखाश्चकारेति विशेषः । वल्गादयो गत्यर्था गान्ताश्चतुर्दश तेषु रगुप्रभृतयस्त्रयोदश उदितः ३५ वल्गति रगतीत्यादि । 'त्वगु कम्पने च' चकाराद्गतौ । स्थितस्यैव चलनं कम्पनम् , गतिर्देशान्तरप्राप्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy