________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादयः परस्मैपदिनः
५१३
'वृतो०' वृश्च वृश्च ब्रौ 'वृग् वरणे' 'वृड्श सम्भक्तौ' एतौ धातू इत्यर्थः, ब्रौ च ऋत् च वृत् तस्य वृतः। तकाराभावे ऋ इति निर्दिश्यमाने वृ इत्यनेन धातुना साहचर्यात् 'ऋश् गतौ' इत्यस्यैव ग्रहणं स्यान्न ऋकारान्तधातुमात्रस्य ततश्च समरीता समरितेत्यत्रैव स्यात् । तकारे तु सति ऋदित्यस्य धातोर - भावात्तकारस्य वर्णनिर्देशेषु प्रसिद्धत्वात् ऋकारवर्णविज्ञानात्तदन्तधातुमात्रप्रतिपत्तिर्भवतीति तकारोपादानम् । सिचः परस्मैपदमिति षष्ठीसमासः यस्मिन् परस्मैपदे सिच् विधीयते तत् सिचः परस्मैपदम् ५ विशेषणसमासो वा सिश्च तत्परस्मैपदं चेति । परस्मैपदनिमित्तत्वेनोपचारात्सिजपि परस्मैपदेनोच्यते, आशीच सिच् परस्मैपदं च आशीः सिच्परस्मैपदम्, न आशीः सिच्परस्मैपदं अनाशीः सिच्परस्मैपदं, तस्मिन् । अनाशीःसिच्परस्मैपदम् (?) । अपरोक्षायामिति च 'गृहोऽपरोक्षायां दीर्घ' (४ | ४ | ३४ ) इत्यस्मात् पूर्वसूत्रादनुवर्त्तते । ततश्च परोक्षायामाशिषि परस्मैपदविषये सिचि च एषां धातूनामिटो दीर्घो न स्यात् । अन्यत्र विकल्पेन स्यादित्यर्थः संपन्न इति । यथा प्रावरीता प्रावरिता प्राविवरिषति प्राविवरीषति, १० वृङ् वरिता वरीता विवरिषते विवरीषते, ऋदन्त-तरिता तरीता, तितरिषति तितरीषति, जरिता ज़रीता, जिजरिषति जिजरीषति । वृत इति किम् ? करिष्यति । परोक्षादिवर्जनं किम् ? ववरिथ तेरिथ वरिषीष्ट प्रावरिषीष्ट आस्तरिषीष्ट प्रावरिष्टाम् प्रावरिषुः आस्तरिष्टाम् आस्तरिषुः । सिचः परस्मैपदविशेषणादात्मनेपदे दीर्घो भवत्येव - अवरिष्ट अवरीष्ट प्रावरिष्ट प्रावरीष्ट आस्तरिष्ट आस्तरीष्ट । एवं विभक्ति - त्रये सर्वत्र द्वैरूप्यं सिद्धम्-तरीता तरितेत्यादि । दीर्घऋकारान्तोऽयं धातुरेकः ॥ ७३ ॥
१५
आत्सन्ध्यक्षरस्य ॥ ७४ ॥ [ सि० ४।२।१]
धातोः सन्ध्यक्षरान्तस्य आः स्यात्, न तु शिति परे । ततश्च दासंज्ञा ॥ ७४ ॥ 'आत्स० ' 'ट्वें पाने' टकार शुनिन्धयीत्यादौ ङयर्थ इत्, ततश्च दासंज्ञेति । तत्फलं च 'ईर्व्यञ्जनेऽयपि' ( ४।३।९७) इति ईत्वे धीयते ॥ ७४ ॥ अद्यतन्यां सूत्रम् -
1
वेश्वेर्वा ॥ ७५ ॥
[ सि० ३ ४ ५९ ]
२०
आभ्यां कर्त्तर्यद्यन्यां ङो वा स्यात् । द्विर्धातुः ० ' ( ४|१|१) इति द्वित्वे पूर्वखत्वे दत्वे च । अदधत् अदधताम् अदधन् । 'दधेघाशाच्छासो वा' ( ४ | ३ |६७ ) इति सिज्लोपविकल्पे अधात् अधाताम् अधुः । पक्षे अधासीत् अधासिष्टाम् अधासिषुः ५ । दधौ ६ । धेयात् ७ । धाता ८ । धास्यति ९ । अधास्यत् १० । 'ध्यै चिन्तायाम् ' । ध्यायति ४ । अध्यासीत् ५ । दध्यौ दध्यतुः दध्युः । दध्यिथ ६ । ध्येयात् ध्यायात् ७ । 'अर्च पूजायाम् ' । अर्चति ॥ ७५ ॥
२५
'दूधे० ' कर्त्तरीति किम् ? अधिषातां गावौ वत्सेन, एवं चाद्यतन्यां सर्वेषु वचनेषु त्रैरूप्यम् । एकारान्तोऽयमेकः । ‘ध्यै चिन्तायां ' ' स्मृत्यर्थदयेश : ' ( २/२/११ ) इति कर्मणो विकल्पेन व्याप्यत्वे मातुर्ध्यायति मातरं ध्यायति, 'सृजिदृशि ० ' ( ४|४|७८ ) इति वेटि दध्याथ दध्यिथ । अनित्वात् ध्यातेत्यादि स्पष्टम् । ‘र्दैव् शोधने' वकारो 'अवौ दाधौ ० ' ( ३।३।५ ) अवेति दासंज्ञानिषेधार्थस्तेन क्ये निदायन्ते भाजनानि अवदातं मुखं अदासीत् दिदासति एषु दासंज्ञाऽभावात् यथाक्रमं इत्वं दत् ३० सिज्लुप् इदादेशश्च न भवन्ति । ननु दैधातोस्तिवि शवि ऐकारस्य नामित्वात् 'नामिनो गुणोऽकिति' (४|३|१) इति एकारलक्षणो गुणः कुतो न स्यात् । उच्यते । गुण इति सान्वयसंज्ञासमाश्रयणादत्र न गुणः, ऐकारादेकारस्य हीनत्वादिति दायति, एवं सर्वत्र । दायति अदासीत् ददौ ददाथ ददिथ दातेत्यादि स्पष्टम् । ‘ग्लैं हर्षक्षये' इह हर्षक्षयो धात्वपचयः । ग्लायति अग्लासीत् जग्लौ जग्लाथ जग्लिथ ३४ है० प्रका० उत्त० ६५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org