________________
५१२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्करः । 'ऋछत् इन्द्रियप्रलयमूर्तिभावयोः' आनछे आनछेतुः । ऋत् इति दीर्घऋकारान्ताः यथा 'कृत् विक्षेपे' विचकरतुः । स्कृग्रहणात् चक्रतुः चक्रुरित्यत्र न भवति, 'संयोगादत्त'रित्यनेन सिद्धे स्कृग्रहणं तत्रौपदेशिकसंयोगग्रहणार्थम् । विचकारेत्यादौ तु परत्वाद्वृद्धिरेव । अकीति किम् ? सञ्चस्कृवान् सञ्चस्काणः आनृच्छान् विचिकीर्वान् ॥ ६९ ॥ प्रकृते तु तर इति जाते इति । तत्र सूत्रम्
तृत्रपफलभजाम् ॥ ७० ॥ [सि० ४।१२५] एषां चतुर्णामवित्परोक्षा-सेट्थवोः परयोः खरस्य ए स्थान च द्विः । तेरतुः तेरुः । तेरिथ ६॥ ७० ॥
'तृत्रप०' एषां चतुर्णामिति एकस्तावत्प्रस्तुतोऽयं तृः, अन्ये च 'त्रपौषि लजायां' अयमात्मनेपदी यथा त्रेपे त्रेपाते ‘फल निष्पत्तौ' 'बिफला विशरणे वा' फेलतुः फेलिथ 'भजी सेवायाम्' भेजतुः भेजिथ । १० सूत्रे बहुवचनं त्रिफला इत्यस्य ग्रहणार्थं अन्यथा “निरनुबन्धग्रहणे न सानुबन्धस्य' इत्यस्य ग्रहणं न स्यात् । न च द्विरिति-'प्राक्तु स्वरे स्वरविधैरिति वचनात् पूर्वं द्वित्वे 'स्कृच्छृतोऽकि०' (४।३।८) इति गुणे अस्य एत्वे न च द्विरितिवचनात् कृतमपि द्वित्वं निवर्त्तते इत्यर्थः । अविदित्येव-अहं ततर । सेटीत्येव-बभक्थ । अत इत्येव-तितीर्वान् । तरतेरतो गुणरूपत्वात् 'न शसद दिवादिगुणिनः' (४।१।३०) इत्येव निषेधः स्यादिति पेरनेकव्यञ्जनमध्यत्वात्फलभजोरादेशादित्वान्न प्राप्नोतीति वचनम् ॥ ७० ॥ १५ आशिषि सूत्रम्
ऋतां कितीर ॥ ७१ ॥[सि० ४।४।११६] स्पष्टम् ॥ ७१॥ 'ऋ०' स्पष्टत्वादस्य सूत्रस्य वृत्तिर्नास्ति । परमार्थश्वायम् , ऋकारान्तस्य धातोः किति ङिति च प्रत्यये परे निर्देशात् ऋकारस्यैव स्थाने इरित्ययमादेशः स्यात् । ऋतामिति बहुवचनं लाक्षणिकस्यापि २० परिग्रहार्थं तेन 'स्वरहनगमोः सनि धुटि' (४।१।१०४) इति कृतदीर्घस्यापि इरादेशः सिद्धः, चिकीर्षतीत्यादि । कितीति किम् ? तरति ॥ ७१ ॥ इरादेशे सति । सूत्रम्- भ्वादेर्नामिनो दी? वोर्व्यञ्जने ॥ ७२ ॥ [सि० २।१।६३ ] भ्वादेर्धातोयौँ रवौ तयोः परयोस्तस्यैव नामिनो दीर्घः स्यात् , व्यञ्जने परे । तीर्यात् ७ ॥७२॥
'भ्वादे०' भ्वादेर्धातोयौ रवौ इति भ्वादेर्धातोरवयवभूतौ यौ रेफवकारावित्यर्थः, वकारस्यो२५ दाहरणं दीव्यतीत्यादि, असद्विधौ स्वरादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधात् प्रतिदीना । भ्वादेरिति किम् ? चतुर्भिः, चतुर्थी, कुकुरमिच्छति कुर्कुरीयति, एवं चतुर्यति दिव्यति । नामिन इति किम् ? स्मर्यते भव्यम् । ोरिति किम् ? बुद्ध्यते । व्यञ्जन इति किम् ? विकिरति । वोर्खादिविशेषणं किम् ? दीव्यतेः कनिपि 'य्वोः प्वऽयव्यञ्जने लुक्' (४।४।१२१) इति वकारलोपे दिवन् दिना दिने ।
नामिनो भ्वादिविशेषणं किम् ? दधिव्रज्या । प्रत्यासत्त्या तस्यैवेति विशेषणं किम् ? ग्रामणिव्रज्या ३० 'अस्सटिव्रज्यजः क्यप्' (५।३।९७) इति क्यप् ॥ ७२ ॥ अस्य सेट्त्वात् श्वस्तन्यां इडागमे सूत्रम्
वृतो नवाऽनाशीः सिच्परस्मै च ॥ ७३ ॥ [ सि० ४।४।३५ ] वृभ्यामृदन्तेभ्यश्च परस्पेटो दी| वा स्यात् , न तु परोक्षाशिषोः सिचि परस्मैपदे च । तरिता ३३ तरीता ८ तरिष्यति-तरीष्यति ९ । अतरिष्यत्-अतरीष्यत् १० । 'धे पाने' । धयति ४ ॥७३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org