________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५११ हनृतः स्यस्य ॥ ६८॥ [सि० ४।४।४९] हन्तेर्बदन्ताच्च परस्य स्यस्यादिरिट् स्यात् । सरिष्यति ९ । अमरिष्यत् १० । 'तृ प्लवनतरणयोः' । तरति ४ । अतारीत् अतारिष्टाम् अतारिषुः ५॥ ६८॥ ततार ।
'हनृ०' बाधकबाधनार्थोऽयं योगः । ऋत इति तकारनिर्देशादतैरेव ग्रहणं न भवति । एवं 'गूं घं सेचने' गरति घरति अगार्षीत् अघार्षीत् अगाष्टम् अघाटम् अगाएः अघार्युः जगार जघार जग्रतुः५ जघ्रतुः अनुस्वारेतत्वात् गर्ता घर्ती 'हनृत' इति इटि गरिष्यति घरिष्यति । 'औस्वृ शब्दोपतापयोः' सेट् । स्वरति अस्वारीत् अस्वारिष्टाम् अस्वारिषुः सवार 'संयोगादर्तेः' (४।३।९) इति गुणे सखरतुः सस्वरुः सस्वर्थ औदित्त्वात् 'धूगौदितः' (४।४।३८) इति वेटि स्व" स्वरिता स्वरिष्यति । 'द्वं वरणे' 'वं हूं कौटिल्ये' द्वरति अद्वार्षीत् दद्वरतुः द्वरिष्यति । ध्वरति अध्वार्षीत् दध्वार दध्वरतुः दध्वरुः । ह्वरति अह्वार्षीत् जह्वार जह्वरतुः जह्वरुः ह्वरिष्यति । 'मुं गतौ' सरति प्रसरति अनुसरति १० उपसरति अपसरति संसरति निःसरति अभिसरति । 'वेगे सत्ता ' (४।२।१०७) सरतेवेंगेगम्यमाने शिति परे धाव् इत्ययमादेशो भवति । अत्यादौ-सरिसर्तीत्यादिवत् तिवादिश्चेदनन्तरो न भवति । धावति कतीह धावमानाः । वेग इति किम् ? प्रियामनुसरति । 'धावूग् गतिशुध्योः' इत्यनेन सिद्धे सरतेवेंगे सरतीतिप्रयोगनिवृत्त्यर्थं वचनम् । तिनिर्देशाद्यङ्लुपि न भवति सस्रत् सरिस्रत् सरीस्रत् ॥ अद्यतन्यां 'सर्त्यतैर्वा' ( ३।४।६१) इति वा अङि 'ऋवर्णदृशोऽङि' (४।३।७) इति १५ गुणे असरत् असरताम् असरन् , पक्षे असार्षीत् असा म् असाएः । परोक्षायां ससार सस्रतुः समः 'स्क्रस०' (४।४।८१) इत्यत्र सृवर्जनान्नेट ससर्थ समृव समृम । सर्ता, सरिष्यति । ' प्रापणे च' चकाराद्गतौ । 'श्रौति०' (४।२।१०८) इत्यादिना ऋच्छादेशे ऋच्छति प्रार्च्छति, ह्यस्तन्यां 'स्वरादेस्तासु' (४।४।३१) इति वृद्धौ आर्च्छत् आर्छताम् आर्छन् । अद्यतन्यां 'सर्त्यर्तेर्वा' इत्यङि 'ऋवर्णदृशोऽडि' इति गुणे 'स्वरादेस्तासु' इति वृद्धौ आरत् आरताम् आरन् , पक्षे आर्षीत् आर्टाम् २० आर्युः । परोक्षायां द्वित्वे वृद्धौ च 'ऋतोऽत्' (४।१।३८) इति पूर्वस्य अत्वे च आर 'संयोगादत्तेः' (४।३।९) इति गुणे आरतुः आरुः 'ऋवृव्येऽद इट्' (४।४।८०) इति इटि आरिथ आरथुः आर आर आरिव आरिम । आशिषि क्ययङाशीर्ये' (४।३।१०) इति गुणे अर्यात्, श्वस्तन्यामनिटत्वात् अर्ता 'हनृत' इडागमे अरिष्यति । क्रियातिपत्तौ इडागमे 'स्वरादेस्तासु' इति वृद्धौ आरिष्यत् । एवं च स्मृप्रभृतयो नव ह्रस्व ऋकारान्ताः स्मृग्रहणेनोपलक्षणीयाः । अथ दीर्घ-अकारान्तमाह 'तृ २५ प्लवनतरणयोः' इति प्लवनं मन्जनम् , तरणं लञ्चनम् । तरति वितरतीत्यादि विभक्तिचतुष्टयं स्पष्टम् । अद्यतन्यां अस्य सिजागमे 'सिचि परस्मै समानस्य०' (४।३।४४) इति वृद्धौ ‘सः सिजस्तेर्दिस्योः' (४।३।६५ ) इतीतागमे अस्य सेट्त्वात् , इडागमे 'इट ईति' (४।३।७१) इति सिज्लोपे अतारीत् इत्यादि । परोक्षायां ततार ॥ ६८ ॥ द्विवचनादौ सूत्रम्
स्कृच्छृतोऽकि परोक्षायाम् ॥ ६९ ॥ [सि० ४।३।८] स्कू-अच्छोरृदन्तानां च परोक्षायां गुणः स्थान तु कोपलक्षितायां तस्याम् । तर इति जाते ॥ ६९॥
'स्कृ०' स्कृश्च ऋच्छ् च ऋत् च स्कृच्छृत् तस्य । सस्स ट् 'डुकंग करणे' इति कृः स्वः । एषां नामिनः परोक्षायां गुणः स्यात् , न तु कोपलक्षितायां कसुकानरूपायां तस्याम् यथा सञ्चस्करतुः सञ्च- ३५
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org