________________
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञ है मलघुऋतोऽत् ॥ ६४ ॥ [ सि० ४ १ ३८ ] द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । सस्मार ॥ ६४ ॥ "ऋतो०" | स्पष्टम् ॥ ६४ ॥ द्विवचनादिषु सूत्रम् -
संयोगादृदः ॥ ६५ ॥ [ सि० ४ ३ ९ ]
५१०
संयोगात्परो य ऋतदन्तस्यार्तेश्चाकि परोक्षायां गुणः स्यात् । सस्मरतुः सस्मरुः ।। ६५ ।।
'संयोग०' अयमर्थः संयोगादि - ऋकारान्ताः 'ओस्ट शब्दोपतापयोः ' ' ं वरणे' वरणं स्थगनम् 'वं ह्रूं कौटिल्ये' इत्यादीनां अर्त्तेश्व अकि परोक्षायां गुणः स्यात्, अकीति कोपलक्षितायां कसुकानरूपायां न भवति । सस्वरतुः सस्वरुः, दृद्वरतुः दद्वरुः, दध्वरतुः दध्वरुः, जह्नरतुः जह्वरुः । अर्त्तिआतुः आरुः । संयोगादिति किम् ? चक्रतुः चक्रुः । ऋदर्त्तेरिति किम् ? चिक्षियतुः । गुणप्रतिषेध१० विषये पुनः प्रसवार्थं वचनम्, वृद्धिस्तु भवत्येव सस्मार सवार । ऋतः संयोगेण विशेषणादर्त्ति - ग्रहणमिति । अकीत्येव सस्मृवान् ॥ ६५ ॥ युष्मदर्थैकवचने सूत्रम् ।
"
२०
ऋतः ॥ ६६ ॥ [ सि० ४।४।७९]
ऋदन्तात् जि नित्यानिटो विहितस्य थव आदिरिड् न स्यात् । सस्मर्थ सस्मरथुः सस्मर । सस्मार सस्मर सस्मरिव सस्मरिम ६ । ।। ६६ ॥
१५
'ऋत: ० ' 'सृजिदृशि ० ' ( ४।४।७८) इत्यादिसूत्रस्यापवादोऽयम्, तेन वेति निवृत्तम् । जहर्थ सस्मर्थ दध्वर्थ । ऋत इति किम् ? बिभेदिथ । तृजि नित्यानिट इत्येव सस्वरिथ । अत्रापीट् निषेधमिच्छन्त्येके । सखर्थ । जजागरिथेत्यत्र त्वनेकस्वरत्वाच्चेनिषेधो न भवति । थव इत्येव जह्निव जहिम | ॥ ६६ ॥ आशिषि सूत्रम् -
"
क्यङाशीर्ये ॥ ६७ ॥ [ सि० ४ | ३ | १०]
संयोगात्परो य ऋत्तदन्तस्यार्त्तेश्च क्ये यड्याशीर्ये च गुणः स्यात् । मर्यात् स्मर्यास्ताम् स्मर्यासुः ७ । सर्ता ८ ॥ ६७ ॥
1
'क्य०' प्रागुक्तानां संयोगादि ऋकारान्तानामर्त्तश्च क्यादिषु गुणः स्यात् । भावकर्मणोः 'क्यः शिति' (३।४।७० ) इति विहिते क्ये - यथा स्मर्यते स्वर्यते अर्यते । भृशाभीक्ष्ण्ये विहिते यङि - यथा सास्मर्यते सास्वर्यते अरार्यते । आशी संबन्धिनि ये-यथा स्मर्यात् स्वर्यात् अर्थात् । औपदेशिक२५ संयोगग्रहणादिह न भवति - संस्क्रियते संचेस्क्रीयते संस्क्रियात् । ऋत इत्येव - आस्तीर्यते आतेस्तीर्यते आस्तीर्यात् । आशीर्य इति किम् ? स्मृषीष्ट । अर्त्तेरिति तिनिर्देशाद्यङ्लुपि न भवति, आरियात् अर्क्रियात् । 'ऋक् गतौ' इत्यस्य यङ्लुपि द्वित्वे 'रि रौ च लुपि' ( ४।१।५६ ) इति र् आगमे 'रिঃ शक्याशीर्ये' ( ४ | ३ | ११० ) इति द्वितीयऋकारस्य रित्वे 'ऋतोऽत्' ( ४|१|३८ ) इति प्रथमऋकारस्य अत्वे 'रो रे लुग्०' ( १।३।४१ ) इति रलोपे प्राग् दीर्घे च आरियात् । x x x x 'रिरौ च' ३० इति रिः रीर्वा, तस्य 'इवर्णादे: ०' इति यत्वे 'रिः शक्य ०' इति द्वितीयऋकारस्य रित्वे पूर्वस्य 'ऋतोऽत् ' ( ४ । १।३८ ) इति अत्वे अर्क्रियात् । इयादेशस्तु 'पूर्वस्यास्वरे ' ' इत्यत्र खो:' पूर्वस्येति समानाधिकरण्यव्याख्यानादिकारोकारमात्रस्यैव । अत्र तु अरि इति समुदायः पूर्व इति न । व्यधिकरणव्याख्याने तु ३३. अरिप्रियादिति भवत्येवेति ॥ ६७ ॥ भविष्यन्त्यां सूत्रम् -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org