________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५०९ 'णिद्वा०' स्पष्टम् । जिगाय जिगय जिज्राय जिज्रय जिग्यिव जिग्यिम जिप्रियिव जिब्रियिम, शेषं स्पष्टम् । 'परावेर्जे:' (३।३।२८ ) इत्यात्मनेपदे पराजयते विजयते, 'जेर्गिः सन्परोक्षयोः' (४।१।३५) जिगीषति, 'णौ क्रीजीङः' (४।२।१०) इत्यात्वे जापयति, 'क्षय्यजय्यौ शक्ताविति' (४।३।९०) निपातनात् जेतुं शक्यो जय्यः जेयोऽन्यः । 'जिविपून्योहलिमुञ्जककल्के' (५।११४३) इति क्यपि जित्या जित्यो वा हलिः महद्धलम् , द्वावपि पुंस्त्रीलिङ्गौ, जेयमन्यत् । 'भृवृजितृतपदमेश्च ५ नाम्नि (५१११११२) इत्यणपवादे खे धनं जयति धनञ्जयः। 'भूजेःष्णुक्' (५।२।३०) जयतीत्येवं शीलो जिष्णुः । 'जीणदृक्षि०' (५।२।७२ ) इत्यादिना इनि जयी । 'सृजीणनशष्ट्वरप्' (५।२।७७ ) जित्वरी, उणादौ 'कृवापाजी' (१) त्यादिनोणि जायुः पित्तम् , 'तृजि०' (२२१) इत्यादिना अन्ते जयन्तः । 'चिजि०' (३९२) इति रे दीर्धे च जीरः अजाजी, लत्वे जीलः चर्मपुटः । 'ऋशी०' (९०६) इत्यादिना कनिपि जित्वा धर्मः जित्वानौ स्त्रियां 'णस्वराघोषाद्वनो रश्च' (२।४।४) इति ड्यां रत्वे च १० जित्वरी । 'क्षि क्षये' ऐश्वर्येऽप्ययमित्येके ऋभून तक्षयति ईष्टे इति ऋभुक्षा इन्द्रः । अक्षैषीत् अझैष्टाम् अझैषुः । चिक्षाय चिक्षियतुः चिक्षियुः, चिक्षयिथ चिक्षेथ चिक्षियिव चिक्षियिम इत्यादि जिवत् , क्षीयते इति तु कर्मकर्तरि । क्षयति कश्चित्स एवं विवक्षते नाऽहं क्षयामि स्वयमेवायं क्षीयते इति । 'इंदु स्रं गतौ' पश्चाप्येतेऽनुस्खारेतः । अयति 'उदयति विततोर्द्धरश्मिरज्जौ' इत्यादिप्रयोगप्रसिद्धिः, 'इंण्क् गतौ' 'इंक् स्मरणे' 'इंङ्क अध्ययने' एषां तु एति ग्रामम् , मातुरध्येति, शास्त्रमधीते १५ इति भवति । तथा चावोचम्
'इंक अध्ययनेऽधीते अध्येतीक् स्मृतौ पितुः । इं गतौ, ग्राममयति गृहमेती विणक् गतौ ॥ १ ॥ इं गतावित्युदयति उदेतीति विणक् गतौ । अयि गतावुदयते ईङ्च गतावुदीयते' ॥ २ ॥
यस्तन्यां शवि 'स्वरादेस्तासु' (४।४।३१) इति वृद्धौ आयत् आयतां आयन् । अद्यतन्यां ऐषीत् ऐष्टाम् ऐषुः, परोक्षायां इयाय अत्र द्वित्वे 'नामिनोऽकलिहलेः' (४।३।५१) इति वृद्धावायादेशे 'पूर्वस्यास्वे २० खरे य्वोरियुत्' (४।१।३७) इतीयादेशः इयतुः इयुः, अत्र द्वित्वे सति 'योऽनेकस्वरस्य' (२।११५६) इति यत्वम् इययिथ इयेथ इयथुः इय, इयाय (इयय ) इयिव इयिम । आशिषि दीर्घश्वि०' (४।३।१०८) इति दीर्घ ईयात् , अग्रे विभक्तित्रये एता एष्यति ऐष्यत् । चत्वार एते इदन्ता अनिटः ॥ दुं दवति, दवेत्, दवतु, अदवत् , अदौषीत् , दुदाव दुदुवतुः दुदुवुः दुदोथ दुदुविथ दुदुविव दुदुविम । टुं द्रवति, द्रवेत्, द्रवतु, अद्रवत् , अद्यतन्यां 'णिश्रि० (३।४।५८) इति डे अदुद्रुवत् , २५ परोक्षायां दुद्राव 'स्क्रस० (४।४।८१) इत्यत्र द्रुवर्जनान्नेद दुद्रोथ दुद्रुवथुः दुद्रुव दुद्राव दुद्रुव, द्रोता, द्रोष्यति, अद्रोष्यत् । शुं शवति दुंवत् । स्रं स्रवति प्रस्रवति, अद्यतन्यां 'णिश्रीति' (३।४।५८) • असुसुवत् , परोक्षायां सुस्राव सुस्रुवतुः सुसुवुः "स्क्रस०” (४।४।८१) इत्यत्र खुवर्जनान्नेट् सुस्रोथ, स्रोता, स्रोष्यति, अस्रोष्यत् । 'धुं स्थैर्ये च' चकाराद्गतौ; ध्रवति 'ध्रुत् गतिस्थैर्ययोः' इत्यस्य तु ध्रुवति, अधौषीत् , दुध्राव, दुध्रोथ, दुधुविथ । 'सुं प्रसवैश्वर्ययोः' गतावप्येके; सवति, असौषीत् , अषोपदेशत्वात् ३० पत्वाभावे सुसाव, येषां तु षोपदेशोऽयं तन्मते सुषाव, 'धुक् प्रसवैश्वर्ययोः' इत्यस्य तु सौति सुतः सुवन्ति इत्यादि । एते षडुदन्ता अनिटो ज्ञेयाः । सर्वे चैते जिग्रहणेनोपलक्षिता ज्ञेयाः । अग्रेऽप्येवं यथासम्भवं ज्ञेयम् । दीर्घकारान्ता दीर्घोकारान्ताश्चाप्रसिद्धा इति ऋकारान्तानाह 'स्मृ चिन्तायाम्। विभक्तिपञ्चकं स्पष्टम् । परोक्षायां सूत्रम् ॥ ६३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org