________________
५०८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदास्यति ९ । अदास्यत् १० । 'जिं जिं अभिभवे' । जयति १ । जयेत् २ । जयतु जयतात् ३ । अजयत् ४।॥६ ॥ __'अवौ०' दाधा इत्येवंरूपौ धातू अवानुबन्धौ दासंज्ञौ भवतः । दारूपाश्चत्वारः, धारूपौ द्वौ । 'दाम्
दाने' प्रणिदाता 'देछ पालने' प्रणिदयते 'डुदांग्क् दाने' प्रणिददाति 'दोच् छेदने प्रणियति । 'धे पाने' ५प्रणिधयति 'डुधांग्क् धारणे' प्रणिदधाति । एषु दासंज्ञायां 'नेदा०' ( २।३।७९) इति नेर्णत्वं सिद्ध्यति दाधारूपोपलक्षितस्य दासंज्ञावचनात् 'दों' '' 'धे' इत्येषां शिति दाधारूपाभावेऽपि दासंज्ञा सिद्धा । 'दीच क्षये' इत्यस्य 'यबक्कुिति' (४।२।७) इति सूत्रेण दारूपस्य सत्त्वेऽपि बहिरङ्गत्वान्न भवति तेन उपादास्तेत्यत्र 'इश्च स्थादः' (४।३।४१) इति इर्न भवति । अवाविति किम् ? 'दांवक् लवने'
दातं बर्हिः, 'दैव शोधने' अवदातं मुखम् , दाप्रदेशा हौ दः' (४।१।३१) इत्यादयः। प्रकृते १० दासंज्ञाफलमाह दासंज्ञत्वादित्यादि शेषं स्पष्टम् १० । षडेते आकारान्ताः अनिटः । 'जिं जिं अभिभवे'
पराभिभवे इत्यर्थः, जयति यति । केचित्तु 'जिं जय' इत्यकर्मकत्वार्थ पृथक् पठन्ति जयः सर्वोत्कर्ष इति च व्याचक्षते, तदयुक्तम् उत्कर्षस्याभिभवविशेषत्वात्सकर्माऽकर्मकत्वयोश्च विवक्षानिबन्धनत्वात् , तथा च जयति जिन इत्यकर्मकः, जयति शत्रूनिति सकर्मकः । अन्ये तु प्रिं स्थाने जूं इति ऋकारान्तं पठन्ति जरति इत्यादि ॥ ६० ॥ अद्यतन्यां विशेषमाह । सूत्रम्१५ सिचि परस्मै समानस्याङिति ॥ ६१॥ [सि० ४।३।४४ ]
समानान्तस्य धातोः परस्मैपदविषये सिचि अङिति वृद्धिः स्यात् । अजैषीत् अजैष्टाम् अजैषुः । अजैषीः अजैष्टम् अजैष्ट । अजैषम् अजैष्व अजैष्म ५।॥ ६१॥
'सिचि०' अङितीत्यस्यायमर्थः 'कुटादेर्डिद्वदब्णित्' (४।३।१७) कुटाद्यन्तर्गणो वृत्पर्यन्तः कुटादिः, कुटादेर्गणात्परो बित् णित् वर्जितः प्रत्ययो डिद्वद्भवति, ततश्च कुटादेः समानान्तस्य सिचि २० परे वृद्धिर्न स्यात् । तथा चाहुः-न्यनुवीत् न्यधुवीदिति अत्र डित्त्वात् 'सिचि परस्मै समानस्याङिती'त्यनेन वृद्धिरपि न भवति, प्रकृते त्वस्य कुटादित्वाभावेन सिचो ङित्त्वाभावाच्च वृद्धिर्भवति, एवं च अजैषीत् अत्रैषीत् इत्यादि स्पष्टम् ॥ ६१ ॥ परोक्षायां सूत्रम्
जेर्गिः सन्परोक्षयोः ॥ ६॥ [सि० १,३५१ सन्परोक्षयोः परयोत्वेि सति पूर्वात्परस्य जेर्गिः स्यात् । 'नामिनोऽकलिहले' इति वृद्धिः । २५ जिगाय । 'योऽनेकखरस्य । जिग्यतुः जिग्युः । जिगयिथ जिगेथ जिग्यथुः जिग्य ॥ ६२॥
'जेनि:.' जिगाय 'योऽनेकस्वरस्य' (२।१।५६) इति यत्वे जिग्यतुः जिग्युः । निधातोस्तु 'संयोगात्' (२।११५२) इतीयादेशे जिप्रियतुः जिनियुः ‘सृजिदृशि०' (४।४।७८) इत्यादिना वेटि जिगयिथ जिगेथ, जिप्रियिथ जिओथ, जिग्यथुः जिनियथुः, जिग्य जिप्रिय ॥ ६२ ॥ सूत्रम्
णिद्वान्त्यो णव् ॥ ६३ ॥ [सि० ४।३।५८ ] ३० परोक्षाया अन्त्यो णव णिद्वा स्यात् । जिगाय जिगय जिग्यिव जिग्यिम ६ । दीर्घश्वीति दीर्घ __ जीयात् जीयास्ताम् जीयासुः ७ । जेता ८ । जेष्यति ९ । अजेष्यत् १० । 'स्मं चिन्तायाम् । __ सरति १ । मरेत् २ । सरतु सरतात् ३। असरत् ४। असार्षीत् असार्टाम् असाधूः । ३३ असार्षीः अमार्टम् असार्ट । असार्षम् असावं असाम॑ ५। स्मृ स्मृ इति द्वित्वे ॥ ६३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org