________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५०७ इत्यादिषु, परत्राघोषाभावात् । चक्रम्यते इत्यत्र तु अनुस्वारस्य शिट्त्वेऽपि तत्संबन्धिन्येवेत्यत्रैवकारान्न लुक् , अत्र ह्यानन्तर्येण सम्बन्धमानं न तत्सम्बन्धित्वं म्वागमस्य पूर्वभक्तत्वात् । अघोष इति किम् ? सस्नौ। शिट इति किम् ? पप्सौ । एवं चात्र पूर्वस्य स्थाशब्दस्य सकारलोपे ह्रस्वत्वे 'द्वितीयतुर्ययोः पूर्वी' (४।१।४२) इति थस्य तत्वे तस्थौ तस्थतुः तस्थुः, अधितष्ठौ अधितष्ठथुः अधितष्टुः ‘सृजिदृशि०' (४।४।७८) इति वेटि अधितष्ठिथ अधितष्ठाथ अधितष्ठथुः अधितष्ठ,५ अधितष्ठौ अधितष्ठिव अधितष्ठिम ६ । आशिषि स्थेयादिति-अत्र 'संयोगादेर्वाशिष्येः' (४।३।९५) इति प्राप्तं द्वैरूप्यं 'गापास्थासादामा०' (४।३।९६) इति सूत्रेण बाध्यते ७ । शेषं विभक्तित्रयं सुगमम् १० । प्रत्यष्ठात्कठकालापं अत्र 'स्थासेनेत्यादिना अड्व्यवधानेऽपि षत्वं 'चरणस्य स्थेणोऽद्यतन्यामनुवादे' (३।१।१३८) इति द्वन्द्वस्यैकार्थत्वम् । उपरे णौ तिष्ठतेरित्युपान्त्यस्येत्वे अध्यतिष्ठिपत् । 'प्रवचनीयादयः' (५।१८) इति वा कर्त्तर्यनीये उपस्थानीयो गुरोश्चैत्रः, पक्षे यथाप्राप्तम्-उपस्थानीयो१० गुरुश्चैत्रेण, भावे उपस्थानीयं शिष्येण । 'श्लिषशी' (५।१।९) इत्यादिना वा कर्तरि क्ते उपस्थितो गुरुं शिष्यः, पक्षे कर्मणि उपस्थितो गुरुः शिष्येण भावे उपस्थितं शिष्येण "दोसोमा०" (४।४।११) इत्यादिनेत्वम् । 'ग्रहादिभ्यो णिन्' (५।११५३) स्थायी । 'स्थापास्नात्रः कः' (५।१।१४२) इति के प्रतिष्ठते प्रष्ठः अत्र 'प्रष्ठोऽअगें' (२।३।३२) इति षत्वम् । विपि साक्षाव्यञ्जन एवेत्यविधानादीत्वाभावे संस्था । संस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीत्येके । तथा च जयकुमारः 'पां पाने' इत्यस्य विपि १५ पीरित्याह । 'स्थाग्ला०' (५।२।३१) इत्यादिना स्नौ स्थास्तुः । 'श्रकम०' (५।२।४०) इत्यादिना उकणि स्थायुकः । 'स्थेश०' (५।२।८१) इत्यादिना वरे स्थावरः । 'स्थादिभ्यः कः' (५।३।८२) इति के आखूनामुत्थानं आखूत्थो वर्त्तते अत्र 'उदः स्थास्तम्भः सः' ( १।३।४४) इति सो लुक् 'स्थो वा' (५।३।९६) इति क्तौ व्यवस्थितिः, पक्षे 'उपसर्गादातः' (५।३।११०) इत्यङि व्यवस्था । व्यवस्था शीलमस्ये 'अस्थाच्छनादेरज्' (६।४।६० ) त्यनि वैयवस्थः । उणादौ 'स्थाक्षुतोरूच्च' ( १८५) इति २० णे ऊदादेशे च स्थूणा । 'शुषीषिबंधी( ४१६ )त्यादिना' कितीरे स्थिरः 'स्थविर०' (४१७ ) इत्यादि निपातनादिरे स्थविरः । 'स्थाविळे कित्' (४२९) इत्यूरे स्थूलः 'स्थो वा' (४७३) इति अलं स्थलं स्थली अकृत्रिमा चेत् , ङित्त्वाभावे स्थालं स्थाली 'कितिकुडि०' (५१८) इत्यादिना कित्यवे स्थवः। अजावृषः 'अजिस्था०' (७६८) इत्यादिना णौ स्थाणुः। 'सव्यात्स्थ' (८५५) इति डिति ऋप्रत्यये सव्ये तिष्ठतीति सव्येष्ठा 'सूतः सव्येष्ठ सारथी' इति कोषः । 'परमात्कित्' ( ९२५) इति कितीनि परमे २५ पदे तिष्ठतीति परमेष्ठी भीरुष्ठानादित्वात्षत्वं सप्तम्यलुब्च । प्रस्थास्यते इति प्रस्थायी 'वर्त्यति गम्यादिः' (५।३।१) इति सिद्ध्यति । 'म्नां अभ्यासे' अभ्यासः पारम्पर्येण वृत्तिः। 'स्यात् पारम्पर्यमाम्नायः सम्प्रदायो गुरुक्रम' इति वचनात् 'श्रौति०' (४।२।१०८) इत्यादिना मनादेशे आमनति इत्यादि । आङ्पूर्वक एवायं प्रयुज्यते । 'आदित्यवर्णं तमसः पुरस्तादामनन्ति यम्' इत्यादिप्रसिद्धः। शेषं स्पष्टम् । 'दाम् दाने' इत्यत्र मकार इत् अप्रयोगित्वात् स च 'श्रौति०' इत्यादौ विशेषार्थः, तथा च शिति ३० यच्छादेशे यच्छति इत्यादिप्रसिद्धः ॥ ५९ ॥ अथास्य सिच्लोपायुपयुक्तां दासंज्ञामाह । सूत्रम्
अवौ दाधौ दा॥६०॥ [सि० ३।३।५] अवितौ दाधारूपौ धातू दासंज्ञौ स्यातामिति दासंज्ञत्वात्पिवैतीत्यादिना सिलए । अदात् । विद्वर्जनात् दांव दैव् इत्यादेन दासंज्ञा । ददौ ६ । गापास्थासादामेत्येत्वे देयात् ७ । दाता ८।३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org