________________
५०६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशिति विभक्तिचतुष्टये तिष्ठादेशे सुगमैव रूपसिद्धिः । अद्यतन्यां 'पिबैतिदा०' (४।३।६६) इति सिच्लोपे अस्थात् इत्यादि ॥ ५७ ॥ अत्रोपसर्गयोगे विशेषमाह
स्थासेनिसेधसिचसओ द्वित्वेऽपि ॥ ५८॥ [सि० २॥३॥४०] उपसर्गस्थानाम्यादेः परेषां स्थादीनां सः षः स्यात्, द्वित्वेऽपि । अध्यष्ठात् अध्यष्ठाताम् ५अध्यष्टुः ॥ ५८॥
'स्था०' उपसर्गस्थादित्यादि । अयं भावः-उपसर्गस्थानाम्यन्तस्थाकवर्गात्परेषां स्थादीनां सकारस्य षो भवति, द्वित्वेऽपि अट्यपि-द्विर्वचनेन अटा द्वाभ्यां च व्यवधाने, अपिशब्दादव्यवधानेऽपीत्यर्थः, यथा अधिष्ठास्यति अधितष्ठौ अध्यष्ठात् । सेनि-सेनया अभियाति अभिषेणयति 'णिज् बहुलं नाम्नः कृगादिषु' (३।४।४२) इति णिजन्तो नामधातुः । अभिषेणयितुमिच्छति अभिषिषेण यिषति अभ्यषिषे१०णयिषत् ; अत्र द्विवंचनेन अटाद्वयेनापि व्यवधाने षत्वम् । 'षिधू गत्याम्' प्रतिषेधति प्रतिषिषेधिषति
प्रत्यषेधत् प्रत्यषिषेधिषत् ; अत्रोपसर्गयोगेन निषेधार्थत्वात् षत्वम् , गत्यर्थे तु षत्वं न भवति । तथाहुः 'गतौ सेधः' (२।३।६१) गतौ वर्तमानस्य सेधतेर्धातोः सकारस्य षो न स्यात् । अभिसेधति अनुसेधति गाः अभिगच्छति अनुगच्छतीत्यर्थः, अभिसेधयति गमयतीत्यर्थः, अभिसिसेधिषति
अनुसिसेधिषति अभिजिगमिषति अनुजिगमिषतीत्यर्थः । 'किंचीत् क्षरणे' सिच् अभिषिञ्चति, सुषिक्तं १५ नाम किं तवात्र, अभिषिषिक्षति अभ्यषिश्चत् अभ्यषिषिक्षत् । 'षनं सङ्गे' 'दंशसञ्जः शवि' (४।२।४९) इति नलोपः अभिषजति अभिषषञ्ज अभिषिषवति अभ्यषजत् अभ्यषिषड्वत् । ण्यन्तानामपि भवति प्रतितिष्ठन्तं प्रयुङ्क्ते प्रतिष्ठापयति एवं प्रतिषेधयति । उपसर्गादित्येव-अधिस्थास्यति गतार्थत्वान्नात्राधिरुपसर्गः । गतरुपरिभावोऽर्थः प्रस्तावादेः प्रतीयते परेश्च सर्वतो भावो गतार्थत्वं ततो
ऽनयोः वृक्षं वृक्षं परि सिञ्चति-अत्र वीप्स्यसम्बद्धस्य परेर्धातुना सम्बन्धाभावानोपसर्गत्वम् । निर्गताः २०सेचका अस्मान्निःसेचको देशः-अत्र तु येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञेति न भवति ।
सेधेति कृतगुणस्य निर्देशः सिध्यतिनिवृत्त्यर्थः । 'षिधूंच संराद्धौ' अभिसिद्ध्यति । अकारस्तूच्चारणार्थो नतु शनिर्देशस्तेन यङ्लुप्यपि भवति । प्रतिषिषेधीति । सेनेरषोपदेशार्थ स्थासञ्जोरवर्णान्तव्यवधानेऽपि विध्यर्थं सिचसञ्जसेधां षणि नियमबाधनार्थं सर्वेषामड्व्यवधानेऽपि पदादौ च षत्वार्थ वचनम्। एवं चात्र
अध्यष्ठात् अध्यष्ठातां अध्यष्टुः, अध्यष्ठाः अध्यष्ठातं अध्यष्ठात, अध्यष्ठाम् अध्यष्ठाव अध्यष्ठाम ५। ॥५८॥ २५ परोक्षायां स्था स्थेति द्वित्वे सूत्रम्
अघोषे शिटः ॥ ५९॥ सि० ४।११४५] द्वित्वे पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे लुक् स्यात् । तस्थौ अधितष्ठौ तस्थतुः तस्थुः ६। स्थेयात् स्थेयास्ताम् स्थेयासुः ७ । स्थाता अधिष्ठाता ८ । स्थास्यति अधिष्ठास्यति ९ । अस्थास्यत्
अध्यष्ठास्यत् १० । 'नां अभ्यासे' । मनति १। मनेत् २ । मनतु मनतात् ३ । अमनत् ४ । ३० अनासीत् ५ । मनौ ६ । नेयात्-म्नायात् ७ । नाता ८ । नास्यति ९ । अम्नास्यत् १० । 'दाम्
दाने' । यच्छति १ । यच्छेत् २ । यच्छतु ३ । अयच्छत् ४ । ॥ ५९॥ __ 'अघो.' द्वित्वे इति धातोत्वेि सति पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे परे लुक् स्यात् ।
'व्यञ्जनस्यानादेर्लुक' (४।१।४४) इत्यस्यापवादोऽयम् । अत्र तत्संबन्धिव्याख्यानाभावे नियमार्थ३४ मिदमित्याशङ्का स्यात् , अघोष एव शिट इति, ततः चनीकस्यते इत्यादिष्वेव स्यात्, नतु लालस्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org