________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
५०५ 'यमि०' यम्यादिभ्यस्त्रिभ्य इति 'यमूं उपरमें 'रमि क्रीडायाम्' 'णमं प्रहत्वे' एभ्य इत्यर्थः ॥५२॥ ततः सूत्रम्
इट ईति ॥ ५३ ॥ [ सि० ४।३७१ ] इटः परस्य सिच ईति परे लुक् स्यात् । अघ्रासीत् , अघाताम्-अघ्रासिष्टाम् , अघ्रः अघ्रासिषुः । अघ्रार-अघ्रासीः, अघ्रातम्-अघ्रासिष्टम् , अघ्रात-अघ्रासिष्ट । अघ्राम्-अघासिषम् , अघ्राव-अघ्रा-५ सिष्व, अघ्राम-अघ्रासिष्म ५ । परोक्षायां घ्रा घ्रा इति द्वित्वे ॥५३॥
'इट' सुगम अघ्रासीत् । एवं सर्वत्र द्वे द्वे रूपे निगदसिद्धे । एवं अशात् अशासीत् , अच्छात् अच्छासीत्, असात् असासीत् । परस्मैपद इत्येव-अधिषातां स्तनौ वत्सेन । धेर्दासंज्ञत्वात् 'पिबैतिदा०' (४।३।६६) इति नित्यं सिच्लोपे प्राप्ते, शेषेभ्योऽप्राप्ते विकल्पः। ५ ॥ ५३ ॥ परोक्षायां
व्यञ्जनस्यानादेलृक् ॥ ५४॥ [सि० ४।१।४४ ] द्वित्वे पूर्वस्वानादेर्व्यञ्जनस्य लुक् स्यात् । द्वितीयतुर्ययोः पूर्वौ इति घस्स गत्वे ॥ ५४॥
गहोर्जः ॥ ५५॥ [सि० ४।११४०] द्वित्वे सति पूर्वयोर्गहोर्जः स्यात् । जघौ जघ्रतुः जघ्रः ६ ॥ ५५ ॥ 'व्यञ्ज०' 'गहो.' इति सूत्रद्वयं स्पष्टम् ६ । ॥ ५४-५५ ॥ आशिषि सूत्रम्
. संयोगादेर्वाशिष्येः ॥ ५६ ॥ [सि० ४।३९५] संयोगादेरादन्तस्य क्लित्याशिष्येर्वा स्यात् । प्रेयात् घायात् , घेयास्ताम् घायास्ताम् , प्रेयासुः घ्रायासुः ७ । नाता ८ । प्रास्यति ९ । अघ्रास्यत् १०॥ "मां शब्दाग्निसंयोगयो । धमति १। धमेत् २ । धमतु धमतात् ३ । अधमत् ४ । अध्मासीत् ५। दध्मौ ६ । ध्मेयात् ध्मायात् ७। ध्माता ८ । ध्मास्यति ९ । अध्मास्यत् १० ।॥ ५६ ॥'ष्ठां गतिनिवृत्तौ'
'संयो' कण्ठ्यं सर्वत्र द्वे द्वे रूपे । अग्रेतनविभक्तित्रये रूपरीतिरविशेषैव । ध्मां शब्दाग्निसंयोग-२० योरिति शब्दो मुखादिना वादनं यथा शङ्ख धमति वासुदेवः, मुखेन वादयतीत्यर्थः । सुवर्णं धमति सुवर्णकारः, अमिना संयुनक्तीत्यर्थः । शेषं सर्व स्पष्टम् ॥ ५६ ॥ 'ष्ठां गतिनिवृत्तौ' गतिनिवृत्तिरवस्थानमित्यर्थः । अत्र सूत्रम्
षः सोऽष्टयैष्ठिवष्वष्कः ॥ ५७ ॥ [ सि० २।३।९८] पाठे धात्वादेः षः सः स्यान्न तु यैष्ठिवष्वष्काम् । निमित्ताभावे नैमित्तिकस्याप्यभाव इति २५ ठस्य थत्वे स्था । तिष्ठति १ । तिष्ठेत् २ । तिष्ठतु तिष्ठतात् ३ । अतिष्ठत् ४ । अस्थात् अस्थाताम् अस्थुः ५॥ ५७॥ _ 'षः सोऽष्ट्यैः। न त्वित्यादि ष्टय स्त्य सङ्घाते' भूवादिः, 'ष्ठिवू क्षियूच् निरसने' दिवादिः, 'ककुङ्' 'श्वकुङ्' इत्यादयः सप्तदशात्मनेपदिनो भूवादयो गत्यर्था धातवस्तेष्वष्टमः 'ध्वष्कि गतौ' इति धातुः । तत एतान् त्रीन् धातून वर्जयित्वा अन्यस्य धातोरादेः षः सः स्यात् , । एषां तु ष्ट्यायति ३० ष्ठीव्यति ध्वष्कते इत्यादिषु षः सो न स्यात् । निमित्ताभावे इति-यथा निमित्तस्याग्नेरभावे नैमित्तिकस्य स्वर्णादिद्रवत्वस्याभावो दृश्यते, तथा षत्वनिवृत्तौ तन्निमित्तस्य ठत्वस्य निवृत्तिः । स्था इति स्थिते ३२
है. प्रका० उत्त०६४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org