________________
५०४
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
'दहं भस्मीकरणे' दग्धा । हान्ता दश । एकस्वरादिति किम् ? अवधीत् शाशकिता । विहितविशेषणं किम् ? (चिकीर्षतेः पश्चादनेकस्वरत्वेऽप्यत्र प्रतिषेधो भवत्येव ) । अनुस्वारेत इति किम् ? विरिवाचारीत् अवायीत्, अगावीत् अगवीत् ॥ कारिकायां श्वादिवर्जनादनुखारेत्त्वाभावेन सेट्त्वं सिद्ध्यति तदेव व्यावृत्तिद्वारेण दर्शयति श्वि श्वयिता, श्रि श्रयिता, डीङ् डीङ्च् वा डयिता, शीङ् शयिता, युक् यविता, ५ रुक् रविता क्षुक् क्षविता, क्ष्णुक् क्ष्णविता, णुक् नविता, स्नुक् प्रस्नविता, वृग्ट् प्रावरिता, वृश् वरीता वरिता, भू भविता, णूत् नविता, लूगशू लविता, तृ तरिता तरीता, स्तृग्शू आस्तरिता आस्तरीता ।
१०
'विजप्रभृतिधातूनामनुबन्धयुजा मिह । स्विद्यति प्रभृतीनां च श्यादिनिर्देशश लिनाम् ॥ १ ॥ 'पाठे तदन्यतत्तुल्यव्यावृत्तिः फलमुह्यताम् । विजृंकी पृथग्भावे ग्राह्यो विज़रिति श्रुतेः' ॥ २ ॥ 'औविजैति भय इति दिवादिः स्विद्यतीति च । तान् व्यावृत्तिमुखेनैव दर्शयन्तीह सूरयः ॥ ३ ॥ 'ओविजैति भयचलनयोः' उद्विजिता, 'विदक् ज्ञाने' वेदिता शास्त्रस्य, 'ञिविदाङ् ञिष्विदाङ् मोचने' च चकारात् स्नेहने, स्नेहनं स्नेहप्रयोगः क्ष्वेदिता स्वेदिता, 'ञिविदांच् मोचने च' चकारात् स्नेहने, क्ष्वेदिता । अस्मादपीटं नेच्छन्त्येके क्ष्वेन्ता, 'बुधृग् बोधने,' 'षिधू गत्याम्, ' 'षिधौ शास्त्रमाङ्गल्ययो:' माङ्गल्यं मङ्गलविषया क्रिया सेधिता, 'मनूयि बोधने' मनिता । कथं मतम् ? क्तिवेट्कत्वाद् 'वेटोऽपतः ' ( ४।४।६२ ) इति भविष्यति । 'लुपच मोहने' लोपिता । कथं तप्त दर्ता ? औदित्वाद्वि१५ कल्पेनेट् । 'कष शिष जस झष वष मष मुष रुष रिष यूष जूष शत्रू चष हिंसायाम्' शिष शेषिता । 'जिषू विषू मिषू निषू पृषू वृषू सेचने' अयं विषू 'विषश् विप्रयोगे वा' वेषिता । 'पुष् पुष्टौ ' 'पुषश् पुष्टौ ' वा पोषिता । उषू श्रिषू श्लिषू प्रूषू लुषू दाहे,' अयं श्लिषू श्लेषिता वा, केचिद्विषिपुषिऋिषिमात्रादिडभावमिच्छन्ति, तत्र 'विष्लंकी व्याप्तौ' 'विषू' 'विषशू' इति विषय:' । 'पुष पुष्टौ ' 'पुषच् पुष्टौ' 'पुषश् पुष्टौ ' इति पुषय: । 'लिच् आलिङ्गने' 'श्लिषू दाहे' 'श्लिषण श्लेषेणे' इति ऋषयः । एवं भविष्यन्ती२० क्रियातिपत्योरपि । इनिषेधे रूपपद्धतिः स्पष्टैव ।
प्रां० प्राधातोः शिद्विभक्तिचतुष्टये रूपरचना सुकरैव । अद्यतन्यां सूत्रम् ॥ ४९ ॥
घशाच्छासो वा ॥ ५० ॥ [ सि० ४।३।६७ ]
एभ्यः पञ्चभ्यः परस्य सिचः परस्मैपदे लुब्वा स्यात् । अघ्रात् । पक्षे सः ॥ ५० ॥
'दूधेघा०' 'दूधें पाने' 'घां गन्धोपादाने' 'शोंच तक्षणे' 'दों छोंच् छेदने' 'आत्सन्ध्यक्षरस्य' (४/२/१) २५ इत्यात्वे शा छा इति, ‘पोंचू अन्तकर्मणि' ' षः सोऽष्ट्यै ० ' (२।३।९८ ) इति षस्य सत्वे आत्वे च, 'बैं जैं मैं क्षये' इत्यस्य आत्वे सा इति रूपम्, तस्यानुकरणमिदम् । अघ्रात् इति ॥ ५० ॥ पक्षे सूत्रम् । सः सिजस्तेर्दिस्योः ॥ ५१ ॥ [ सि० ४ | ३ |६५ ]
सिजन्ताद्धातोरस्तेश्च परयोर्दिस्योरादिरीत् स्यात् ॥ ५१ ॥
‘सः सि०’ सिजन्तादिति सिच्प्रत्ययान्ताद्धातोरस्तेश्च सन्तादिति सकारान्तत्परः परादिरीत्स्यात् । ३० दिस्योः परयोरिति (य) ईत्, तस्य तकारो विशेषार्थ इत्संज्ञकः, ततः अत्रास् ईत् इति स्थिते ॥ ५१ ॥ सूत्रं मिरमिनाम्यातः सोऽन्तश्च ॥ ५२ ॥ [ सि० ४|४|८६ ]
३२ यम्यादिभ्यस्त्रिभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यादेषां च स् अन्तः ॥ ५२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org