________________
५०२
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
प्येत्वं नेच्छन्त्यन्ये लाक्षणिकत्वादिति । 'ष्ठां गतिनिवृत्तौ' स्था स्थेयात् । 'षोंचू अन्तकर्मणि' 'झैं जैं सैं क्षये' आत्वे सा अवसेयात् । 'सैं' इत्यस्य नेच्छन्त्यन्ये सायात् । देति दासंज्ञाधातवः देयात् घेयात् । 'मांकू माने' मेयात् । गाङ्मेङ्माङ यङलुबन्तानां ग्रहः अन्यथामीषामात्मनेपदित्वात्किदाशीर्न सम्भवति । 'ओहां त्यागे' हेयात् । हाकः ककारो यङ्लु निवृत्त्यर्थः 'न हाको लुपि' ( ४|१|४९) इत्यात्वनिषेधे ५ जहायात् । तथोक्तम् 'तिवा शवानुबन्धेन निर्दिष्टं यद्गुणेन च । एकस्वरनिमित्तं च पश्चैतानि न यङ् - प' ॥ १ ॥ शेषाणां तु यङ्लुप्यपि - जागेयात् पापेयात् तास्थेयात् अवसासेयात् दावेयात् मामेयात् । एषामिति किम् ? यायात् । कितीत्येव गासीष्ट पासीष्ट ॥ ४८ ॥ श्वस्तन्यां सूत्रम् ।
एकस्वरादनुखारेतः ॥ ४९ ॥ [ सि० ४|४|५६ ]
एकस्वरादनुस्वारेतो धातोः स्ताद्यशित इड् न स्यात् । पाता पातारौ पातारः ८ । पास्यति १० पास्यतः पास्यन्ति ९ । अपास्यत अपास्यताम् अपास्यन् १० । घ्रां गन्धोपादाने । जिघ्रति १ । जिघेत् २ । जिघ्रतु जिघ्रतात् ३ | अजिघ्रत् ४ ॥ ४९ ॥
'एक०' अनिट् - धातुसंग्रहं चैवमाहुः
विश्रडीशीयुरुक्षुक्ष्णुणुनुभ्यश्च वृगो वृङ: । 'उहृदन्ता युजादिभ्यः स्वरान्ता धातवोऽपरे ॥ १ ॥ 'पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे मताः । द्विविधोऽपि शकिश्चैवं वचिर्विचि - रिची पचिः ' ॥ २॥ ‘सिचतिर्मुचिरतोऽपि पृच्छति भ्रस्जि-मस्जि-भुजयो युजिर्यजि: ।
१५
व्वञ्जि-रञ्जि-रुजयो निजि - विजृ - सञ्जि-भञ्जि-भजयः सृजि-त्यजी' ॥ ३ ॥ 'स्कन्दि - विद्य-विद्ल - विन्तयो नुदिः स्विद्यतिः शदि सदी भिदि च्छिदी । यदि पदि-हदी खिदि-क्षुदी राधि-साधि-शुधयो युधि - व्यधी' ॥ ४ ॥ 'बन्धि - बुध्य- रुधयः क्रुधि क्षुधी सिध्यतिस्तदनु हन्ति मन्यती । आपिना तप- शपि क्षिपि-च्छुपो लुम्पतिः सृपि लिपी वपि स्वपी' ॥ ५ ॥ 'यभि-रभि-लभि-यमि-रमि- नमि - गमयः क्रुशि-लिशि० रुशि-रिशि-दिशति - दशयः । स्पृशि-मृशति-विशति-दृशि - शिष्ल - शुषयस्त्विषि पिषि - विष्ट - कृषि - तुषि - दुषि-पुषयः ॥ ६॥ मणिगुणनिकरच्छन्दः। 'लिष्यतिर्द्विषिरतो - घसि - वसती रोहतिर्लुहि-रिही अनिड् गदितौ । देग्धि - दोग्धि - लियो मिहि - वहती नह्यतिर्दिहिरिति स्फुटमनिटः ' ॥ ७ ॥
२०
२५
एषामयमर्थः 'वश्वि गतिवृद्ध्योः ' 'श्रिग् सेवायाम्' द्वौ ह्रस्वेदन्तौ ! 'डीङ् विहायसां गतौ' 'डीच् 'गत' 'शीङ्क स्वप्ने,' यो दीर्घेदन्ताः । 'युक् मिश्रणे' 'रुक् टुक्षुक शब्दे' 'क्ष्णुक् तेजने' 'णुक् स्तुतौ' 'नक् प्रनवने' उदन्ताः षट् । ‘वृग्ट् वरणे' 'वृङ्ग् सम्भक्तौ' सम्भक्तिः संसेवा । द्वौ ह्रस्वऋकारान्तौ । 'भू सत्तायाम् ' 'णूत् स्तुतौ' 'लग्श् छेदने' 'पूङ् पवने' 'मूङ् बन्धने' इत्यादयो दीर्घोदन्ताः । 'तू लवनतरणयोः' इत्यादयो ये दीर्घऋकारान्ताः युजादयश्चुराद्यन्तर्गताः अदन्ता धातवः, एभ्यः परे (भ्योऽपरे ) ३० ये स्वरान्ता अनुस्वारेतो धातवस्ते सर्वेऽप्यनिटो ज्ञेयाः । यथा 'पां पाने' । धात्वादेशा अपि धातव एवेति astrनुस्वारेतोऽनिट एव । 'चक्षो वाचि क्शांग् ख्यांग्' ( ४।४।४ ) आक्शाता आख्याता । 'जि प्रिं अभिभवे' जेता । 'णींग् प्रापणे' नेता । अजेर्वी प्रचेता । 'शुं गतौ' शोता । 'स्मृ चिन्तायाम् ' स्मर्ता | ३३ तथा व्यञ्जनान्ता अपि पाठे धातुपाठे ये एकस्वरा अनुस्वारेतस्तेप्यनिटस्ते च इमे वक्ष्यमाणा मता १ शीशुसाहचर्यात् यु-रु इत्येतयोरादादिकयोर्ग्रहणम् न 'रुङ् रेषणे च' 'युग्श् बन्धने' इत्येतयोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org