________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादयः परस्मैपदिनः
'स्व' इति, 'आतो णव०' इति च सूत्रद्वयं स्पष्टम् ॥ ४४ ॥ ४५ ॥
इन्ध्यसंयोगात्परोक्षा किद्वत् ॥ ४६ ॥ [ सि० ४।३।२१] इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा किद्वत्स्यादिति किंच्चादिडेत्पुसीत्यालुक् । पपौ पपतुः पपुः ॥ ४६ ॥
' इन्ध्य ० ' न विद्यते संयोगो यस्यासावसंयोगः । इन्धिश्च असंयोगश्च इन्ध्यसंयोगं तस्मात् यथा ५ 'ञिइन्धैपि दीप्तौ ' इन्ध सम्पूर्वः, परोक्षाया ए, 'द्विर्धातुः ० ' द्वित्वं 'व्यञ्जनस्यानादेर्लुक्' (४।१।४४ ) इति पूर्वावयवस्य नकारधकारयोर्लोपः, विद्वत्तायाः फलं 'नो व्यञ्जनस्यानुदितः ' ( ४।२।४५ ) इति द्वितीयावयवस्य नलुक्, ततः ‘समानानां तेनेति दीर्घे समीधे । एवं निन्यतुः बिभिदतुः - अत्र कित्त्वाद्गुणाभावः ईजतुः उचुः – अत्र वृत्त्वम् । तथाहुः ङिद्वदिति प्रकृते किद्वचनं यजादिवपीनां वृदर्थं जागर्तेश्च गुणार्थम्, ङित्वे हि ते न स्याताम् यथा स्वपितः स्वपन्ति जागृतः जाग्रति । इन्धिग्रहणं संयोगान्तार्थमिति । प्रकृते १० च वित्परोक्षायाः किद्वत्तायां फलमाह - कित्वादित्यादि ॥ ४६ ॥ परोक्षायुष्मदर्थैकवचने सूत्रम् । सृजिदृशिस्कृस्वरात्वतस्तृनित्यानिट
स्थवः ॥ ४७ ॥ [ सि० ४ ४ ७८ ]
सृजिशिभ्यां स्कूगः स्वरान्तादत्वतश्च तुजिनित्यानिटो विहितस्य थव आदिरिया स्यात् । पपाथ पपिथ पपथुः पप । पपौ पपिव पपिम ६ ॥ ४७ ॥
१५
५०१
'सृजि०' सृजिश्व दृशिश्च स्वश्च स्वरश्च अत्वतश्च सृजि० । तस्मात् । स्कृरिति 'संपरेः कृगः स्सट्' ( ३|४|११ ) इत्यादिविहितेन स्सटा सहितः कृग्धातुरित्यर्थः । न विद्यते इट् यस्य स अनिट्, नित्यमनि नित्यानिट् । तृजि नित्यानिट् तृनित्यानिट् । तस्मात् । क्रमेणोदाहरणानि - 'सृजत् अतिसर्गे' सस्रष्ट ससर्जिथ । 'दृश्यं प्रेक्षणे' दृश् दृद्रष्ट ददर्शिथ । स्कृ- सनस्कर्थ सनस्करिथ । स्वर - ययाथ ययिथ, चिचयिथ चिचेथ, निनयिथ निनेथ, जुहोथ जुहविथ । अत्वत्- शशक्थ शशकिथ, पपक्थ पेचिथ, २० इष्ट इयजिथ, जगन्थ जगमिथ । सृज्यादेरिति किम् ? 'राधं साधं संसिद्धौ' रराधिथ, बिभेदिथ । जति किम् ? कति नित्यानिटो मा भूत् लुलविथ । 'उवर्णादि' ति कितीट् निषेधः । नित्येति किम् ? तृचि विकल्पितेटो मा भूत् दुधविथ ररन्धिथ 'धूगौदित:' ( ४ । ४ । ३८ ) इति तृचि इविकल्पः । अनिट इति किम् ? शिश्रयिथ । थव इति किम् ? पेचिव पेचिम । विहितविशेषणं किम् ? चकर्षिथ । अदादेशस्य घसेर्वेगादेशस्य वयेस्तृच्यभावान्नित्यमेवेट् भवति जघसिथ उवयिथ । प्रकृत्यन्तरस्य तु घसे: २५ परोक्षायामपि प्रायिक एव प्रयोगः । स्क्रादिसूत्रेण प्राप्ते विभाषा । स्वरान्तत्वेनैव सिद्धे स्कृग्रहणं 'ऋत' (४।४।७९) इति प्रतिषेधबाधनार्थम् ॥ प्रकृते तु इड्विकल्पे पपाथ पपिथेति ॥ ४७ ॥ आशिषि सूत्रम् । गापास्थासादामाहाकः ॥ ४८ ॥ [ सि० ४ | ३ । ९६]
एषां ङ्कित्याशिष्येः स्यात् । पेयात् पेयास्ताम् पेयासुः । पेयाः पेयास्तम् पेयास्त । पेयासम् पेया पेयास ७ ॥ ४८ ॥
Jain Education International
'गापा ०' 'गाच पाश्च स्थाश्च साश्च दाश्च माच हाक् च गापा० । तस्य । 'कैं मैं रैं शब्दे' 'आत्सन्ध्यक्षरस्य' (४।२।१ ) इत्यात्वे गा । गास्थोर्मध्ये पाठात्साहचर्याद्भौवादिकयोः 'मैं ओ शोषण' 'पां पाने' इत्येतयोः पाशब्देन ग्रहणम् 'पांकू रक्षणे' इत्येतस्य तु पायादित्येव रूपम्, न तु पेयादिति । 'पैं' इत्यस्या- ३३
1
For Personal & Private Use Only
३०
www.jainelibrary.org