________________
५००
५०० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहै मलघुजिघ्रः जिघ्रति शे उजिघ्रः। ध्मो धमः धमति उद्धमः । स्थस्तिष्ठस्तिष्ठति । नो मनः मनति । दामो यच्छः यच्छति । दृशः पश्यः पश्यति शे उत्पश्यः । अर्तेः ऋच्छः ऋच्छति समृच्छमानः । शदेः शीयः 'शदेः शिति' (३।३।४१) इत्यात्मनेपदे शीयते शीयमानः ॥ सदेः सीदः सीदति सीदन् । घ्रादिभिः साहचर्यात्पार्योभॊवादिकयोरेव ग्रहणम् , लाक्षणिकत्वाच्च पैं इत्येतस्य न ग्रहणम् , तेन पान् इयत् पायति ॥ ५श्रोत्यहॊस्तिनिर्देशः, कृवुधिवुदृशृदामामनुबन्धश्च यङ्लुप्यादेशनिवृत्त्यर्थः । शोश्रुवत् । अर्यङ्लुपि द्वित्वे पूर्वस्य 'ऋतोऽत्' (४।१।३८) इत्यत्वे रागमे धातोश्च रत्वे तन्निमित्ते रागमलोपे पूर्वाकारस्य दीर्घ च आरत् , अत्र अरर्तीति वाक्ये शतः । चरीकृण्वत् अत्र चरीकृणोतीति वाक्ये शतः, 'उदितः स्वरान्नोऽन्तः' (४।४।९८) इति नागमने वस्य ऊटि गुणे च वाक्यम् , केचिदूटं नेच्छन्ति तन्मते
चरिकर्तीति वाक्यम् । देधिन्वदित्यत्रापि नोऽन्ते ऊटि गुणे च देधिनोतीति वाक्यम् , मतान्तरे तु देधि१० न्वीति । ददृशत् इति अत्र दर्द्रष्टीति वाक्ये शतः । दामस्तु दादेतीतिवाक्ये शतरि दादत् । केचित्तु
ौतेर्यङ्लुप्यादेशं नुप्रत्ययं चेच्छन्ति शृणोति, कृवुधिव्वोस्तु चरीकृणोति देधिनोतीति रूपं मन्यन्ते (ते हि यङ्लुपि उप्रत्ययम्, वकारस्याकारान्तस्य 'अतः' (४।३।८२) इति लोपम् , अकारस्य स्थानिवद्भावादुपान्त्यगुणाभावं मन्यन्ते) । दामो मकारनिर्देशो दासंज्ञशङ्कानिवृत्त्यर्थश्च । अत्यादावित्यनुवृत्तेः पापातीत्यत्र यङ्लुपि अनन्तरे त्यादौ पिबादेशो न स्यात् । एवं च पाधातोः पिबादेशे पिबतीत्यादिरूपनिरूपणं १५ चतसृष्वपि विभक्तिषु भवत्यनुसारेण ज्ञेयम् ॥ ४१ ॥ अद्यतन्याः प्रथमत्रिकबहुवचने सूत्रम्
सिज्विदोऽभुवः ॥ ४२ ॥ [सि० ४।२।९२] अभुवः सिच्प्रत्ययान्ताद्विदश्च धातोः परस्थानः पुस् स्यात् । पकार इत ॥ ४२ ॥ 'सिज्वि०' अभुव इति, न चेत् भुवः परः सिच् भवति । भूवर्जनेन सिच् प्रत्ययो लक्ष्यते, अन्यथा 'षिचीत्' इत्यस्य ग्रहणं स्यात् । 'वा द्विषातोऽनः पुस्' (४।२।९१) इति सूत्रे शितोऽनः २० पुस्विधानादत्राद्यतन्याः सिच् लक्ष्यते । अभुव इति किम् ? अभूवन् ॥ ४२ ॥
इडेत्पुसि चातो लुक् ॥ ४३ ॥ [सि० ४।३।९४] क्लित्यशिति खरे इटि एति पुसि च परे आदन्तस्य धातोरन्तस्य लुक् स्यात् । अपुः । अपाः अपातम् अपात । अपाम् अपाव अपाम ५॥४३॥
'इडे.' किति स्वरे पपतुः पपुः। डिति स्वरे अदधत् आह्वत् । यान्ति वान्तीत्यादौ 'शिदवित्' (४।३। २५२० ) इति अन्तेः कित्त्वेऽपि शित्त्वादातो लुगू न स्यात् । इटि पपिथ । यङ्लुपि दादितुम् दादितव्यम् ।
एतीति एकारे परे व्यतिरे व्यतिले रांक लांक इत्येतयोः 'क्रियाव्यतिहारे०' ( ३।३।२३) इत्यात्मनेपदे वर्तमानयोः ए परे रूपम् । पुसीति उदगुः अपुः । कितीत्येव-दानम् , ददौ । अशितीत्येव-व्यतिरे व्यतिले, रांकलांकोर्खस्तनी इपरे अडागमे शित्त्वादाकारलोपाभावे 'अवर्णस्ये' (११२।६) एत्वे रूपम् । स्वर इत्येव-ग्लायते । अक्विदर्थं शिदर्थं चेडादिग्रहणम् ॥ ४३ ॥
हखः॥४४॥ [सि० ४।१।३९] द्वित्वे सति पूर्वस्य हवः स्यात् ॥ ४४ ॥
___ आतो णव औः॥४५॥ [सि० ४।२।१२०] ३३ आतः परस्य णव औः सात् ॥ ४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org