________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
४९९ 'भविष्यन्ती' (५।३।४) सामान्यतो भविष्यदर्थाद्धातोभविष्यन्ती ॥ १॥ अयदि स्मृत्यर्थे भविष्यन्ती' (५।२।९) स्मृत्यर्थे धातावुपपदे भूतेऽर्थे भविष्यन्ती ॥ २ ॥ क्षिप्राशंसार्थयोर्भविष्यन्ती सप्तम्यौ' (५।४।३) इति क्षिप्रार्थे उपपदे भविष्यन्ती 'भूतवञ्चाशंस्ये वा' (५।४।२) इत्यस्यापवादः ॥ ३ ॥ वा काङ्खायाम्' (५।२।१०) स्मृत्यर्थे धातावुपपदे यद्ययदि वा प्रयुज्यमाने प्रयोक्तुः क्रियान्तराकाङ्क्षायां भूतानद्यतने वा भविष्यन्ती, पक्षे ह्यस्तनी ॥ ४ ॥ 'शेषे भविष्यन्त्ययदौ'५ (५।४।२०) सर्वविभत्तयपवादः ॥५॥ 'किंकिलास्त्यर्थयोर्भविष्यन्ती' (५।४।१६) किंकिलशब्देऽस्त्यर्थे चोपपदेऽश्रद्धामर्षयोर्गम्ययोर्भविष्यन्ती ॥ ६॥ इति भविष्यन्तीविधयो नव, षट् सूत्राणि । __'सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः' (५।४।९) । सप्तम्या अर्थो निमित्तं हेतुफलकथनादिका सामग्री कुतश्चिद्वैगुण्यात् क्रियाया अतिपतनमनभिनिर्वृत्तिस्तस्यां सत्यामेष्यत्यर्थे धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् , यदि कमलकमावास्यन्न शकटं पर्या-१० भविष्यत् । अत्र दक्षिणेन गमनं कमलकाह्वानं च हेतुः, अपर्याभवनं फलम् । तयोः कुतश्चित् प्रमाणाद् भविष्यन्तीमनभिनिर्वृत्तिमवगम्यैवं प्रयुङ्क्ते इति भविष्यति क्रियातिपत्तिः । 'भूते' (५।४।१०) भूतेऽर्थे क्रियातिपत्तौ सत्यां क्रियातिपत्तिः । यद्ययं दानमदास्यत्ततो विश्वेऽपि यशः प्रासरिष्यत् । यदि ग्राममगमिष्यत्तदा चौरा द्रव्यं नाहरिष्यन् । इति भूते क्रियातिपत्तिः । इति क्रियातिपत्तिविधी द्वौ, सूत्रे द्वे । _ विधिस्त्यादिविभक्तीनां प्रागुक्तोऽप्युदितः पुनः । बालबोधप्रवृत्तानां पुनरुक्तिर्न दूषणम् ॥ १ ॥१५ विभक्तिषु दशस्वेवं भूधातुः प्रतिपादितः । धातवोऽन्येऽथ वक्ष्यन्ते धातुपाठक्रमाश्रिताः॥२॥४०॥
'पां पाने', अनुस्वार इइनिषेधार्थः। 'पा पाने' । अनुस्वार इनिषेधार्थ इति न 'एकस्वरादनुखारेत' इति वक्ष्यमाणसूत्रेण इनिषेधात् श्रौतिकृवुधिवुप्राघ्राध्मास्थाम्नादामदृश्यर्तिशदसदः शृकृधिपिबजिघ्रधम
तिष्ठमनयच्छपश्यछंशीयसीदम् ॥ ४१ ॥ [सि० ४।२।१०८] २० श्रौत्यादीनां त्रयोदशानां शिति शृप्रभृतयस्त्रयोदशादेशाः स्युः। पिबति पिबतः पिबन्ति १। पिबेत् पिबेताम् पिबेयुः २। पिबतु पिबतात्, पिबताम् पिबन्तु ३। अपिबत् अपिबताम् अपिबन् ४ । पिबैतिदेति सिज्लोपे अपात् २ अपाताम् ॥४१॥ _ 'श्रौति०' श्रौतिश्च कृवुश्च धिवुश्च पाश्च घ्राश्च ध्माश्च स्थाश्च नाश्च दाम् च दृशिश्च अर्तिश्च शदश्च सद् च ौति० तस्य भौति० । शृश्च कृश्च धिश्च पिबश्च जिघ्रश्च धमश्च तिष्ठश्च मनश्च यच्छश्च पश्यश्च २५ ऋच्छश्च शीयश्च सीदश्च शृधिः । श्रोत्यादीनां त्रयोदशनामिति । 'श्रृंट् श्रवणे १ 'कृवुद हिंसाकरणयोः' २ 'धिवुट् गतौ' ३ 'पा पाने' ४ 'घ्रां गन्धोपादाने' ५ मां शब्दाग्निसंयोगयोः' ६ 'ष्ठां गतिनिवृत्तौ पः सोऽष्टयैष्ठिवष्वष्क' (२।३।९८) इति षस्य सत्वे निमित्ताभावे नैमित्तकस्याप्यभाव इति ठस्य थत्वे स्था ७ 'नां अभ्यासे' ८ 'दाम् दाने' ९ 'दृशं प्रेक्षणे' १० इति दृशिः, ' प्रापणे च' ११ इति अतिः, 'शदं शातने' १२ इति शद्, 'पदं विशरणगत्यवसादनेषु' १३ 'पः सोऽध्यैः' इति सद् 'यथासङ्ख्यमनुदेशः३० समानाम्' इति न्यायादेतेषां त्रयोदशानां धातूनां शृप्रभृतयस्त्रयोदशादेशा यथासङ्ख्यं भवन्तीति भावः। शितीति शित्प्रत्यये परे । तत्राद्याश्चतस्रो विभक्तयः 'एताः शितः' (३।३।१०) इति परिभाषया शितः, अन्ये शत्रादयश्च प्रत्ययाः शकारानुबन्धत्वात् शित इति ज्ञेयम् । तत्र श्रौतेः शृ शृणोति शृण्वन् । कुवोः क कृणोति । धिवोधिः धिनोति । पः पिबति शे उत्पिबा, खरान्तत्वादुपान्त्यलक्षणो गुणो न भवति । यो ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org