________________
४९८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधातोः सप्तमी ॥ १९॥ अश्रद्धामर्षेऽन्यत्रापि' (५।४।१५) अकिंवृत्ते किंवृत्तेऽपि अश्रद्धामर्षयोर्गम्ययोः सर्वविभक्त्यपवादौ सप्तमीभविष्यन्त्यौ ॥ २१ ॥ 'जोतुयद्यदायदो सप्तमी' (५।४।१७ ) एषु चतुषूपपदेषु अश्रद्धामर्षयोः सप्तमी ॥ २९ ॥ सतीच्छार्थात्' (५।४।२४) इच्छार्थाद्धातोर्वर्तमानकाले सप्तमी ॥ ३० ॥ अथ भविष्यति सप्तमी क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ' ( ५।४।३) ५क्षिप्रार्थे आशंसार्थे चोपपदे आशंस्येऽर्थे यथासङ्ख्यं भविष्यन्तीसप्तम्यौ स्याताम् । भूतवच्चेत्यस्यापवादः ॥ ३१ ॥ 'वय॑ति हेतुफले' (५।४।२५) हेतुः कारणं फलं कार्यम् हेतुभूते फलभूते वर्त्यति सप्तमी वा ॥ ३२ ॥ 'सप्तमी चोर्द्धमौहूर्त्तिके' (५।४।३०) इति वर्त्यति सप्तमी ॥ ३३ ॥ 'कथमि सप्तमी च वा' (५।४।१३) इति सर्वेषु कालेषु सप्तमी ॥ ३४ ॥ क्षेपे च यच्चयत्रे' (५।४।१८)
यच्चयत्रयोरुपपदयोः क्षेपेऽश्रद्धामर्षयोश्च गम्ययोः सप्तमी स्यात् । अश्रद्धामर्षयोर्भविष्यन्त्याः, क्षेपे तु १० सर्वविभक्तीनामपवादः कालस्यानिर्देशात्रिष्वपि कालेष्वस्य प्रवर्त्तनात् ॥ ४०॥ चित्रे' (५।४।१९)
आश्चर्ये यच्चयत्रयोरुपपदयोः सप्तमी । सर्वविभक्त्यपवादः ॥ ४२ ॥ एवं सप्तम्या द्विचत्वारिंशद्विधयः, एकोनविंशतिश्च सूत्राणि ।।
विधिनिमन्त्रणे'ति सूत्रेण विध्याद्यर्थषट्के पञ्चमी ॥ ६॥ प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ' (५।४।२९) ॥९॥ 'आशिष्याशीः पञ्चम्यौ' (५।४।३८) ॥ १०॥ कश्चित्तु समर्थनायां पञ्चमीमिच्छति, १५परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना । कश्चिदाह-समुद्रः शोषयितुमशक्यः, स प्राह समुद्रमपि
शोषयाणि पर्वतमप्युत्पाटयानि ॥ ११॥ 'भृशाभीक्ष्ण्ये हिस्खौ यथाविधि तध्वमौ च तद्युष्मदि' (५।४।४२)॥ १२ ॥ प्रेचये नवा सामान्यार्थस्य' (५।४।४३) ॥ १३ ॥ इति त्रयोदश पश्चमीविधयः, पञ्च च सूत्राणि । ___ अनद्यतने ह्यस्तनी' (५।२।७) ॥१॥ 'ख्याते दृश्ये (५।२।८) अरुणसिद्धराजोऽवन्तीम् , २० अख्याते तु परोक्षा-चकार कटं बटुः ॥२॥ हंशश्वयुगान्तःप्रच्छये ह्यस्तनी च' (५।२।१३ ) चकारात्
परोक्षा ॥ ४ ॥ 'अँविवक्षिते' (५।२।१४) भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षिते ह्यस्तनी ॥५॥ 'संस्मे ह्यस्तनी च' (५।४।४०) सस्मे माङयुपपदे यस्तनी ॥६॥ चकारादद्यतनी । मास्म करोत् मास्म कार्षीत् । माशब्देन निषेध उच्यते स्मशब्देन स एव द्योत्यते । इति षट् ह्यस्तनीविधयः, पञ्च सूत्राणि ।
अद्यतनी' (५।२।४) अद्यतनकाले भूतार्थाद्धातोरद्यतनी ॥ १ ॥ विशेषाविवक्षाव्यामिश्रे' २५(५।२।५) ह्यस्तन्यादिविषयेऽप्यद्यतन्यथं वचनम् ॥ ३॥ 'रात्रौ वसोऽन्त्ययामास्वप्तर्यद्य' (५।२।६)
ह्यस्तन्यपवादोऽद्यतनी ॥ ४ ॥ 'माङ्यद्यतनी' (५।४।३९) सर्वविभक्त्यपवादः ॥ ५ ॥ 'संस्मे ह्यस्तनी च' (५।४।४०) चकारादद्यतनी ॥ ६ ॥ इत्यद्यतनीविधयः षट् , सूत्राणि पश्च ।
'परोक्षे (५।२।१२) भूतानद्यतने परोक्षेऽर्थे परोक्षा स्यात् ॥ १॥ परोक्षत्वेनाद्यतनत्वेन चाविवक्षिते विशेषाविवक्षेत्यनेनाद्यतनी, परोक्षत्वेन त्वविवक्षिते 'अविवक्षिते' इत्यनेन ह्यस्तनी, परोक्ष३० त्वेनानद्यतनत्वेन च विवक्षिते 'परोक्षे इत्यनेन परोक्षा । एवं च परोक्षानद्यतने विवक्षावशात् ह्यस्तन्य
द्यतनीपरोक्षास्तिस्रो विभक्तयः सिद्धाः । 'कृतास्मरणातिनिहवे परोक्षा' (५।२।११) अपरोक्षकालार्थ आरम्भः ।। २ ॥ परोक्षाविधी द्वौ, सूत्रे द्वे ।
'आशिष्याशीः पञ्चम्यौ' आशीविधिरेकः, सूत्रमेकम् ।
'अनद्यतने श्वस्तनी' (५।३।५) ॥ १॥ 'परिदेवने (५।३।६) परिदेवनमनुशोचनं तस्मिन् ३५गम्ये वर्ल्सति श्वस्तनी ॥ २ ॥ अद्यतनाथ आरम्भः । श्वस्तनी विधी द्वौ, सूत्रे द्वे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org