________________
४९६
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहै मलघु
क्रियातिपतने नित्यमेव क्रियातिपत्तिः कथं नाम तत्रभवान् मांसमभक्षयिष्यत्, नतु वर्त्तमानासप्तमी भविष्यन्तीश्वस्तन्यः । क्षेप इत्येव - कथं नाम तत्रभवान् साधूनपूपुजत् । एवं यथाप्राप्तिर्वर्त्तमानादयोऽपि भवन्ति || 'किंवृत्ते सप्तमीभविष्यन्त्यौ' ( ५|४|१४ ) किंवृत्ते पूर्वोक्तलक्षणे उपपदे सति क्षेपे गम्यमाने धातोः सप्तमीभविष्यन्त्यौ स्याताम्, सर्वविभक्त्यपवादः । किं तत्रभवाननृतं ५ ब्रूयात्, किं तत्रभवाननृतं वक्ष्यति, को नाम कतरो नाम कतमो नाम यस्मै तत्रभवाननृतं ब्रूयात्, अनृतं वक्ष्यति, अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः, किं तत्रभवाननृतमवक्ष्यत्, पक्षे 'ब्रूयात् वक्ष्यति च । भविष्यति तु नित्यम् - किं तत्र भवाननृतमवक्ष्यत् । क्षेप इत्येव - किं तत्रभवान् देवान् अपूपुजत् इत्यादि । ' अश्रद्धामर्षेऽन्यत्रापि' (५/४/१५ ) क्षेप इति निवृत्तम् । अश्रद्धा असम्भावना, अमर्षोऽक्षमा, अन्यत्राकिंवृत्ते अपि शब्दात्किंवृत्ते चोपपदे श्रद्धामर्ष - १० योर्गम्यमानयोर्धातोः सप्तमीभविष्यन्त्यौ भवतः, सर्वविभक्त्यपवादः । वचनभेदाद्यथासङ्ख्यं नास्ति । अश्रद्धायाम् न श्रद्दधे न सम्भावयामि नावकल्पयामि तत्रभवान् नामादत्तं गृहीयात् । किंवृत्तेऽपि - न श्रद्दधे न सम्भावयामि नावकल्पयामि किं तत्रभवानदत्तमाददीत अदत्तमादास्यते । अमर्षे न मर्षयामि न क्षमे धिग्मिथ्या नैतदस्ति तत्र भवान्नामादत्तं गृह्णीयात् अदत्तं गृहीष्यति । किंवृत्तेऽपि न मर्षया न क्षमे धिग्मिथ्या नैतदस्ति किं तत्रभवानदत्तं गृह्णीयात् अदत्तं ग्रहीष्यति । अत्रापि सप्तमी - १५ निमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति । न श्रघे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् पक्षे गृह्णीयात् ग्रहीष्यति च । भविष्यति तु नित्यम्-न श्रद्दधे न मर्षयामि तत्रभवानदत्तमग्रहीष्यत् । अन्यत्रापीति किम् ? यदार्थात्प्रकरणाद्वाऽश्रद्धामर्षयोर्गम्यमानत्वात् तद्वाचकेनाप्युपपदेन धातोर्न योगस्तदा मा भूत् । 'जातुयद्यदायदौ सप्तमी' (५।४।१७) एषु चतुर्षूपपदेष्व श्रद्धामर्षयोर्गम्यमानयोर्द्धातोः सप्तमी स्यात्, भविष्यन्त्यपवादः । न श्रद्दधे न क्षमे जातु तत्रभवान् सुरां २० पिबेत्, यत्तत्रभवान् सुरां पिबेत् यदा तत्रभवान् सुरां पिबेत्, यदि तत्रभवान् सुरां पिबेत् । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । न श्रद्दधे न क्षमे जातु तत्रभवान् सुरामपास्यत्, पक्षे पिबेत् । भविष्यति तु नित्यम् - जातु तत्रभवान् सुरामपास्यत् । 'क्षेपे च यच्चयत्रे' (५|४|१८) यच्चयत्रशब्दयोरुपपदयोः क्षेपेऽश्रद्धामर्षयोश्च गम्यमानयोर्द्धातोः सप्तमी अश्रद्धामर्षयोर्भविष्यन्त्याः, क्षेपे तु सर्वविभक्तीनामपवादः कालस्यानिर्देशात् त्रिष्वपि कालेष्वस्य २५ प्रवर्त्तनात् । धिग्गर्हामहे यच्च तत्रभवानस्मानाक्रोशेत्, यत्र तत्रभवानस्मानाक्रोशेत् । न श्रद्दधे न क्षमे यञ्च तत्रभवान् परिवादं कथयेत् २ । अत्र सप्तमीनिमित्तसत्त्वाद्भूते क्रियातिपतने वा क्रियातिपत्तिः । धिगम न क्षमे न श्रदधे यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत्, पक्षे आक्रोशेत् । भविष्यति तु नित्यम् - धिग्गहूमहे न श्रद्दधे न क्षमे यच्च यत्र वा तत्रभवान् परिवादमकथयिष्यत् । 'चित्रे' (५|४|१९ ) चित्रमाश्चर्यम् । तस्मिन् गम्यमाने यच्चयत्रयोरुपपदयोर्धातोः सप्तमी स्यात् । सर्वविभक्तय३० पवादः । चित्रमाश्चर्यमद्भुतं विस्मयनीयं च यश्च यत्र वा तत्रभवानकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्त - सद्भावात् भूत क्रियातिपतने वा क्रियातिपत्तिः । चित्रं यच्च यत्र वा तत्रभवानकल्प्यमसेविष्यत पक्षे सेवेत । भविष्यति तु नित्यम् - चित्रं यच्च यत्र वा तत्रभवानकल्प्यम से विध्यत ॥ एवं वोतात्प्रागुक्तानि कथमि सप्तमी चेत्यादीनि सप्तमीविधायकानि षट्सूत्राण्यत्र दर्शितानि । एभिश्च सूत्रैः 'वोतात्प्रागि’ति वचनात् ३४ भूते क्रियातिपतने विकल्पेन क्रियातिपत्तिर्भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिर्भवतीति ज्ञेयम् ।
स्यात्,
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org