________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादयः परस्मैपदिनः
४९५ हीत्येव यूयं लुनीथ । अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेत्येव यूयमधीध्वे । तथा लुनीत लुनीतेत्येव यूयमलाविष्ट । लुनीहि लुनीहीत्येव यूयमलाविष्ट । अधीध्वमधीध्वमित्येव यूयमध्यैढ्वम् , अधीष्वाधीष्वेत्येव यूयमध्यगीढ्वम् । एवं हस्तन्यादिष्वप्युदाहार्यम् ॥ यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति, च्छिनत्ति लूयते वेति धातोः सम्बन्धे माभूत् । अधीष्वाधीष्वेत्येवायमधीते, पठति अधीयते वेति धातोः सम्बन्धे माभूत् लुनीत लुनीतेत्येव यूयं लुनीथ, छिन्थेति ५ धातोः संबंधे माभूत् । अधीध्वमधीध्वमित्येव यूयमधीध्वे, पठथेति धातोः संबंधे माभूत् ॥ लुनीहि लुनीहीत्यादौ च भृशाभीक्ष्ण्ये द्विवचनम् । ननु च भृशामीक्ष्ण्योर्यङपि विधीयते नतु तत्र द्विवचनमिह तु द्विर्वचनमित्यत्र को हेतुः । उच्यते । यङ् स्वार्थिकत्वात्प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये समर्थोऽवद्योतयितुमिति तदभिव्यक्तये द्विर्वचनं नापेक्षते । हिखादयस्तु कर्तृकर्मभावार्थत्वेनास्वार्थिकत्वादसमर्थाः प्रकृत्यर्थोपाधी भृशाभीक्ष्ण्ये अवद्योतयितुमिति तदवद्योतनाय द्विवचनमपेक्षन्त । सर्वं चैतदित्यादीति १० वचनेन संगृहीतं बोद्धव्यम् ॥ ३९ ॥
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः॥ ४०॥ [सि० ५।४।९] सप्तम्या अर्थो निमित्तं हेतुफलकथनादिसामग्री । कुतश्चिद्वैगुण्याक्रियानभिनिवृत्तौ सत्यामेष्यदर्थाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् ।।
'सप्त०' क्रियानभिनिवृत्तौ सत्यामिति । कुतश्चिद्वैगुण्याक्रियाया अतिपतनमनभिनिवृत्तिरनिष्पत्तिरि-१५ त्यर्थस्तस्यां सत्यामेष्यदर्थे वर्तमानाद्धातोः क्रियातिपत्तिः स्यात् । यथा दक्षिणेन चेदयास्यत् अथवा कमलकमावास्यत् न शकटं पर्याभविष्यत् अत्र दक्षिणगमनं कमलकाह्वानं च हेतुरपर्याभवनं फलं तयोः कुतश्वित्प्रमाणाद्भविष्यन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुङ्क्ते। एवमभोक्ष्यत भवान् (घृतेन) यदि मत्समीपमागमिष्यत् । स यदि गुरुमुपासिष्यत शास्त्रान्तमगमिष्यत् । अत्रायं विशेषः ‘भूते' (५।४।१०) भूतेऽर्थे वर्तमानाद्धातोः क्रियातिपत्तौ सत्यां क्रियातिपत्तिः स्यात् । 'सप्तम्युताप्योर्बाढे' (५।४।२१)२० इत्यारभ्य सप्तम्यर्थे अनेन क्रियातिपत्तिविधानम् , ततः प्राग् 'वोतात्प्राक्' (५।४।११) इति विकल्पो वक्ष्यते । दृष्टो मया भवतः पुत्रोऽन्नार्थी चंक्रम्यमाणः अपरश्चातिथ्यर्थी यदि स तेन दृष्टोऽभविष्यत् अत्राश्रद्धाया गम्यमानत्वात् 'जातुयद्यदा' (५।४।१७) इति सप्तमीनिमित्तत्वम् । उताभोक्ष्यत अध्यभोक्ष्यत नतु दृष्टोऽन्येन पथा गत इति न भुक्तवान् । 'सप्तम्युताप्योर्बाढ' इति सप्तम्यर्थः ॥ 'वोतात्प्राक्' (५।४।११) 'सप्तम्यताप्योर्बाढे' इत्यत्र यद् उतशब्दसंकीर्तनं ततः प्राक् सप्तमी-२५ निमित्त क्रियातिपत्तौ सत्यां भूतेऽर्थे वर्तमानाद्धातोः वा क्रियातिपत्तिः स्यात् । कथं नाम संयतः सन्ननागाढे तत्रभवानाधायकृतमसेविष्यत धिग्गर्हामहे । वावचनाद्यथाप्राप्तं च । कथं सेवेत कथं सेवते । उतात्प्रागिति किम् ? कालो यदभोक्ष्यत भवान् । अत्र सप्तमी यदीति सप्तम्यर्थता ततो 'भूत' इति नित्यं क्रियातिपत्तिः । भूत इत्येव-एष्यति तु नित्यमेव ॥ सूत्रक्रमेण 'सप्तम्युताप्यो ढे' इत्येवं तत्सूत्राप्राक् सप्तमीसूत्राणि चैवम् । एषु क्रियातिपत्तिविधानमस्तीति क्रियातिपत्त्यधिकारे एतान्युच्यन्ते । तथाहि ३० 'कथमि सप्तमी च वा' (५।४।१३) कथंशब्दे उपपदे क्षेपे गम्यमाने धातोः सर्वेषु कालेषु सप्तमी चकाराद्वर्त्तमाना च विभक्तिर्वा स्याताम् । वावचनाद्यथाप्राप्तं च । कथं नाम तत्रभवान् मांसं भक्षयेत् मांसं भक्षयति धिग्गर्हामहे अन्याय्यमेतत् । पक्षे अबभक्षत् अभक्षयत् भक्षयाञ्चकार भक्षयिता भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः स्यात् । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् भक्षयेत् भक्षयति अबभक्षत् अभक्षयत् भक्षयाञ्चकार । भविष्य ति तु ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org