________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहरति अभ्यवह्रियते अत्र कर्मभेदेन कथञ्चिदर्थभेदेन च भिन्नानां धातूनामेकत्र प्रचयः । अभ्यवहरणस्य सर्वत्रानुगतत्वात्सामान्यार्थस्य सम्बन्धः । पक्षे सक्तून् पिबति धानाः खादति ओदनं भुङ्के इत्येवाभ्यवहरति अभ्यवह्रियते । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येव अधीते पठति अधीयते पठ्यते । पक्षे सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवाधीते पठति अधीयते पठ्यते वा । तध्वमौ च तद्यु५ष्मदीति । तयोस्तध्वमोः सम्बन्धी बहुत्वविशिष्टो युष्मद् ताष्मद् तस्मिंस्ताष्मदि अभिधेये तध्वमौ चकारात् हिस्वौ भवत इत्यर्थः । ब्रीहीन्वपत लुनीत पुनीत इत्येव यतध्वे चेष्टध्वे समीहध्वे । व्रीहीन्वप लुनीहि पुनीहि इत्येव यतध्वे चेष्टध्वे समीहध्वे । पक्षे ब्रीहीन्वपथ लुनीथ पुनीथेत्येव यतध्वे चेष्टध्वे समीहध्वे । ग्राममटत वनमटत गिरिमटतेत्येवाटथ घटध्वे । ग्राममट वनमट गिरिमटेत्येवाटथ घटध्वे । पक्षे प्राममटथ वनमटथ गिरिमटथेत्येवाटथ घटध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्ये१० वाधीध्वे पठथ । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीध्वे पठथ । पक्षे सूत्रमधीध्वे नियुक्तिमधीवे इत्येवाधीध्वे पठथ ॥ एवं वचनान्तरे त्रिकान्तरे विभक्त्यन्तरेऽप्युदाहाय॑म् , एतच्च हिस्खौ प्रत्येव ज्ञातव्यं न तध्वमौ तयोरेव घटनात् ॥ सामान्यार्थस्येति किम् ? ब्रीहीन्वप लुनीहि पुनीहि इत्येव वपति लुनातीति पुनातीति माभूत् । ग्राममट वनमट गिरिमटेत्येव-ग्राममटति वनमटति गिरिमटतीति च माभूत् । कारकभेदेनाटतीत्यस्य सामान्यार्थत्वाभावात् ॥ अथैतत् प्रकरणं संक्षेपेणाभिधातुं वार्त्तिकमाह । १५ यथाविधि धातोः संबन्धे सति भृशाभीक्ष्ण्येऽप्येवम् । लुनीहि पुनीहीत्येवायं लुनाति । अधीष्वाधीश्वेत्येवायमधीते इत्यादि ।
यथाविधीत्यादि । अत्रैवं सूत्रपद्धतिः 'भृशाभीक्ष्ण्ये हिखौ यथाविधि तध्वमौ च तद्युष्मदि' (५।४।४२) गुणक्रियाणामधिश्रयणादीनां क्रियान्तरैरव्यवहितानां साकल्यं फलातिरेको वा भृशत्वम् , प्रधानक्रियाया विक्लेदादेः क्रियान्तरैरव्यवहितायाः पौनःपुन्यमाभीक्ष्ण्यम् , तद्विशिष्टे (सर्व) २० कालेऽर्थे वर्तमानाद्धातोः सर्वविभक्तिसर्ववचनविषये हिस्खौ पञ्चमी संबन्धिनौ भवतः । यथाविधि धातोः सम्बन्धे यत एव धातोर्यस्मिन्नेव कारके हिखौ विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यैव सम्बन्धेऽनुप्रयोगरूपे सति । तथा तध्वमौ हिस्वसाहचर्यात्पञ्चम्या एव सम्बन्धिनौ, तयोस्तध्वमोः सम्बन्धी बहुत्वविशिष्टो युष्मद् , तस्मिन् तद्युष्मदि अभिधेये भवतः । चकारात् हिस्वौ च । यथाविधि
धातोः सम्बन्धे लुनीहि लुनीहीयेवायं लुनाति । अनुप्रयोगात्कालवचनभेदोऽभिव्यज्यते। लुनीहि लुनीही२५ त्येवेमौ लुनीतः एवमिमे लुनन्ति, लुनीहि लुनीहीत्येव त्वं लुनासि युवां लुनीथः, यूयं लुनीथ । लुनीहि
लुनीहीत्येवाऽहं लुनामि आवां लुनीवः वयं लुनीमः । लुनीहि लुनीहीत्येवायमलावीत् । एवं लुनीहि लुनीहीत्येवायमलविष्टात् । लुनीहि लुनीहीयेवायं लुलाव । लुनीहि लुनीहीत्येवायं लविष्यति । लुनीहि लुनीहीत्येवायं लविता। लुनीहि लुनीहीत्येवायं लुनीयात् । लुनीहि लुनीहीत्येवायं लुनातु । लुनीहि लुनीही
येवायं लूयात् । एवमधीष्वाधीष्वेत्येवायमधीते, इमावधीयाते इमेऽधीयते। अधीष्वाधीष्वेत्येव त्वमधीषे, ३० युवामधीयाथे, यूयमधीध्वे । अधीष्वाधीष्वेत्येत्येवाहमधीये, आवामधीवहे, वयमधीमहे । तथाऽधीष्वाधीष्वेत्येवायमध्यगीष्ट । अधीष्वाधीष्वेत्येवायमध्यैत । अधीष्वाधीष्वेत्येवायमधिजगे। अधीष्वाधीवेत्येवायमध्येष्यते । अधीष्वाधीष्वेत्येवायमध्येता । अधीष्वाधीष्वेत्येवायमधीयीत । अधीष्वाधीष्वेत्येवायमधीताम् । अधीष्वाधीष्वेत्येवायमध्येषीष्ट । एवं सर्वविभक्तिवचनान्तरेष्वपि हिस्वावुदाहरणीयौ । एवं
भावकर्मणोरपि शय्यस्व शय्यस्खेत्येव शय्यते, अशायि, शयिष्यते भवता । लूयस्व लूयस्वेत्येव लूयते, ३५ अलावि, लविष्यते केदारः ॥ तध्वमौ तद्युष्मदि लुनीत लुनीहीत्येव यूयं लुनीथ । लुनीहि लुनी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org