________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
४९३ 'धातो.' धातूनां शब्दतः सम्बन्धाभावादत्र धातुशब्देन धात्वर्थ उच्यते । तथैवाह-धात्वर्थानां विशेषणविशेष्यभावे सतीति । विश्वदृश्वेति विश्वं दृष्टवान् विश्वाद् 'दृशः क्वनिप्' (५।१।१६६) इति भूतकाले प्रत्ययः । स भवितेति भविष्यत्कालेन श्वस्तनीप्रत्ययेन सम्बध्यमानः साधुर्भवति । एवं कृतः कटः श्वो भवितेति । भाविकृत्यमासीदिति। नन्वौणादिकानामनुपात्तकालविशेषाणां त्रिष्वपि कालेषु प्रवृत्तेः कथं भविष्यत्वम् , सत्यम् , अस्य गम्यादित्वात् 'वर्त्यति गम्यादिः (५।३।१) इत्यनेन भविष्यत्त्वम् । ततश्च५ भवितेति भविष्यत्कालप्रत्यय आसीदिति भूतकालप्रत्ययेनाभिसंबध्यमानः साधुर्भवति । विश्वदृश्वेत्यादि हि विशेषणम् , भवितेत्यादि च विशेष्यम् । कीदृशोऽस्य पुत्रो भविता ? विश्वदृश्वेति । विशेषणं गुणत्वाद्विशेष्यकालमनुरुध्यते तेन भविष्यत्कालप्रत्ययेन भूतकालप्रत्ययः सम्बध्यते इति विपर्ययो न भवति । तथा त्याद्यन्तमपि यदाऽपरं त्याद्यन्तं प्रति विशेषणत्वेनोपादीयते । तदा तस्यापि समुदायवाक्यार्थापेक्षया कालान्यत्वं भवत्येव । यथा 'साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी । तान्येक-१० देशान्निभृतं पयोधेः सोम्भांसि मेघान्पिबतो ददर्श' ॥ १ ॥ साटोपमनिशं नदन्तोऽमी मेघा यैः समन्तत उठवीं प्लावयिष्यन्तीत्यवान्तरं वाक्यार्थः। स मेघान् ददर्शेति समुदायवाक्यार्थस्य विशेषणत्वेनोपात्त इति कालान्यत्वम् । तथाहुः श्रीसूरयः अत्र प्लावयिष्यन्तीति भविष्यदर्थस्य ददर्शेति भूतानुगमः । यद्यपि 'धातोः कण्डादेयक' (३।४८) इति सूत्राद्धात्वधिकारस्यानुवृत्तेर्धात्वधिकारविहिता एव प्रत्यया लभ्यन्ते । तथापि सूत्रे बहुवचनोपादानाद्धात्वधिकारविहिता अपि तद्धितप्रत्यया धातुसम्बन्धे सति १५ साधवो भवन्ति । तथा गोमानासीत् गोमान् भविता । अस्तिविवक्षायां हि मतुरुक्तः स कालान्तरे न स्यादिति ॥ ३८ ॥
प्रचये नवा सामान्यार्थस्य ॥ ३९ ॥ [सि० ५।४।४३ ] धात्वर्थानां च समुच्चये गम्ये सामान्यार्थस्य धातोः संबन्धे सति धातोः परौ हिस्खौ तध्वमौ च तयुष्मदि वा स्याताम् । ब्रीहीन् वप लुनीहि पुनीहि इत्येवं यतते यत्यते वा । पक्षे वपति २० लुनातीत्येवं यतते यत्यते वा । सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवमधीते । पक्षे सूत्रमधीते नियुक्तिमधीते भाष्यमधीते इत्येवाधीते । एवं तध्वमोरप्युदाहरणानि ॥ ३९ ॥
'प्रच.' समान एव सामान्यः स्वार्थे ध्यणन्तो वाचस्पतिना पुंल्लिङ्गो निर्णिन्ये । सामान्योऽर्थो यस्य यद्वा समानस्य भावः सामान्यमों यस्येति । भृशाऽभीक्ष्ण्ये यथाविधीति च नानुवर्तते प्रचय इति भणनात् सामान्यार्थस्येति भणनाच्च । प्रचयः समुच्चयः स्वतः साधनभेदेन वा भिद्यमानस्य एकत्रानेकस्य २५ धात्वर्थस्याध्यावाप इति यावत् । तस्मिन् गम्यमाने सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हिस्खौ तध्वमौ च तद्युष्मदि वा भवतः । व्रीहीन्वप लुनीहि पुनीहि इत्येव यतते चेष्टते समीहते चैत्रः । यत्यते चेष्ट्यते समीह्यते चैत्रेण । पक्षे ब्रीहीन्वपति लुनाति पुनातीत्येव यतते चैत्रः । यत्यते चैत्रेण । वपनलवनपवनादिषु सर्वेष्वपि यत्र चेष्टेहानामनुगतत्वे नयति-चेष्टि-समीहिधातूनां समानार्थत्वम् इति स्वतो भिन्नानामनेकधातूनामेकत्र प्रचय उक्तः । अथ कर्तृकर्मादिसाधनभेदेन भिद्यमानस्यैकस्यापि धातोरनेकत्वे ३० सत्येकत्र प्रचय उच्यते । देवदत्तोऽद्धि गुरुदत्तोऽद्धि जिनदत्तोऽद्धीत्येव भुञ्जते श्रावकाः भुज्यते श्रावकैः पक्षे देवदत्तोऽत्ति गुरुदत्तोऽत्ति जिनदत्तोऽत्तीत्येव भुञ्जते भुज्यते । अत्र कर्तृभेदेन धातुभेदः । ग्राममट वनमट गिरिमटेयेवाटति घटते अट्यते घट्यते पक्षे प्राममटति वनमटति गिरिमटति इत्येवाटति घटते अट्यते घट्यते अत्र कर्मभेदेन धातुभेदः । सक्तून् पिब धानाः खाद ओदनं भुक्ष्वेत्येवाभ्यव-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org