________________
४९२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुआगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे । योऽयं त्रिंशद्रात्र आगामी तस्य योर्डवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे । योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र द्विः सक्तून्पातास्मः, इति त्रिविधेऽप्यहोरात्रसंबन्धे माभूत् । अत्र प्रथमोदाहरणे अवयवितया द्वितीयेऽवयवतया तृतीये उभयतयाऽहोरात्रसंबन्धः । योगविभाग उत्तरार्थः । बहुवचनं कालस्येति सामानाधि५करण्यभ्रमनिरासार्थम् ॥ "परे वा' (५।४।८) कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैव परस्मिन् विभागेऽनहोरात्रसंबन्धिनि य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो वा न भवति । आगामिनः संवत्सरस्य आग्रहायण्याः परस्ताहिः सूत्रमध्येष्यामहे अध्येतास्महे वा । प्रबन्धासत्तिविवक्षायामपि परत्वादयमेव विकल्पः । आगामिनः संवत्सरस्याग्रहायण्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे
अध्येतास्महे वा । कालस्येत्येव-आशत्रुञ्जयाद्गन्तव्येऽस्मिन्नध्वनि वलभ्याः परस्ताहिरोदनं भोक्तास्महे । १० प्रबन्धासत्त्योस्तु नित्यं भविष्यन्ती । आशत्रुञ्जयाद्गन्तव्येऽस्मिन्नध्वनि वलभ्याः परस्तादविच्छिन्नं सूत्र
मध्येष्यामहे । पर इति किम् ? अर्वाग्भागे पूर्वेण नित्यं प्रतिषेधः । एष्यतीत्येव-अतीते वत्सरे परस्तादाप्रहायण्याः सूत्रं युक्ता अध्यैमहि । अवधावित्येव-योऽयमागामी निरवधिकः कालस्तस्य यत्परमाग्रहायण्यास्तत्र द्विरध्येतास्महे । अनहोरात्राणामित्येव-योऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे ॥ ३६ ॥ १५ अयदि स्मृत्यर्थे भविष्यन्ती ॥ ३७॥ [सि० ५।२।९]
स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थे भविष्यन्ती स्यात्, न तु यद्योगे । सरसि साधो सिद्धाद्रौ तपखिनो भविष्यामः । यद्योगे तु । सरसि यत्तत्र तपखिनोऽभवाम ॥ ३७॥ __अय.' स्मरसि साधो इति । एवं बुध्यसे चेतयसेऽध्येष्यस्यवगच्छसि चैत्र कलिङ्गेषु गमिष्यामः ।
स्मरसि साधो खर्गे स्थास्यामः । यद्योगे विति-अमिजानासि मित्र यत्कलिङ्गेष्ववसाम, यद्वसनं तत्स्मर२० सीत्यर्थः । तथा च माघे प्रयोगः ‘स्मरस्यथो दाशरथिर्भवन् भवानमुं वनं तद्वनितापहारिणम् । पयोधिमाबद्धचलजलाविलं विलय लङ्कां निकषा हनिष्यति' ॥ १ ॥ अत्र जघानेत्यस्य स्थाने हनिष्यतीत्युक्तम् ।। अत्रायं विशेष:-'वा काङ्क्षायाम्' (५।२।१०) अयदीति नानुवर्त्तते । स्मृत्यर्थे धातावुपपदे यद्ययदि वा प्रयुज्यमाने प्रयोक्तः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनेऽर्थे वर्तमानाद्धातो
भविष्यन्ती वा स्यात् । स्मरसि मित्र कश्मीरेषु वत्स्यामस्तत्रौदनं भोक्ष्यामहे पास्यामः पयांसि च । २५ स्मरसि मित्र कश्मीरेष्ववसाम तत्रौदनमभुञ्जमहि, स्मरसि मित्र यत्कश्मीरेषु वत्स्यामो यत्तत्रौदनं भोक्ष्यामहे, स्मरसि मित्र यत्कश्मीरेष्ववसाम यत्तत्रौदनमभुमहि । अत्र वासोलक्षणं भोजनं पानं च लक्ष्यम् , लक्ष्यलक्षणयोः प्रबन्धे प्रयोक्तुराकाङ्क्षा भवति ।।
धातोः सम्बन्धे प्रत्ययाः ॥ ३८॥ [सि० ५।४।४१] धात्वर्थानां विशेषणविशेष्यभावे सति यथाकालमपि प्रत्ययाः साधवः स्युः । विश्वदृश्वाऽस्य ३० पुत्रो भविता । भावि कृत्यमासीत् ॥ ३८॥
१ अत्र कालसंबन्धी तादात्म्येनाऽहोरात्ररूपोऽर्वाग्भागः। २ अत्र कालोऽहोरात्ररूपस्तस्य संबन्धी अवयवावयविभावे. नाऽर्वागभागः । ३ अत्र कालोऽर्वाग्भागश्चाहोरात्ररूपः । ४ कालस्य किं भूतस्यानहोरात्रस्येत्येवं सामानाधिकरण्यं निषिध्यते । कालसामानाधिकरण्ये हि व्यावृत्तिप्रथमोदाहरणेऽपि सूत्रप्रवृत्ती श्वस्तनीनिषेधः स्यात् । अत्रापि कालस्यानहोरात्ररूपत्वात् । वैयधिकरण्ये तु त्रिप्रकारेऽपि कालसंबन्धे व्यावृत्तिर्भवति । ५न तु 'नानद्यतन' इति नित्यं निषेधः । ६ 'नानद्यतन.' इति श्वस्तन्या निषेधात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org