________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः सय भविष्यन्तीसप्तम्यौ स्याताम् , भूतवञ्चेत्यस्यापवादः । उपाध्यायश्चेदागच्छति आगमत् आगमिष्यति क्षिप्रमाशु त्वरितमरं शीघ्रमेते सिद्धान्तमध्येध्यामहे । क्षिप्रार्थेनेति वक्तव्ये भविष्यन्तीवचनं श्वस्तनी. विषयेऽपि भविष्यन्ती यथास्यादित्येवमर्थम् । अयमत्रामिप्राय:-यद्यपि 'क्षिप्रार्थे न' इति, 'आशंसार्थे सप्तमी' इति सूत्रद्वये कृते भविष्यन्ती सिद्ध्यत्येव । तथाहि 'भूतवचे'त्यनेन साम्यान्यतो भणनात् , क्षिप्रार्थेऽक्षिप्रार्थे चोपपदे भूतवत्सद्वच्च प्राप्तानां प्रत्ययानां क्षिप्रार्थे न' इति सूत्रेण निषेधे कृते पारिशेष्यात्स्वयमेव ५ भविष्यन्ती सिद्ध्यति । तथापि असति भविष्यन्तीग्रहणे यथाप्राप्तभविष्यत्प्रत्ययप्राप्ती भविष्यदद्यतने भविष्यन्ती भविष्यदनद्यतने तु श्वस्तनी प्राप्नुयात् । इदानीं पुनर्भविष्यत्यद्यतनेऽनद्यतने च क्षिप्रार्थे उपपदे भविष्यन्त्येव, न तु श्वस्तनी । उपाध्यायश्चेच्चैः शीघ्रमागमिष्यति एते श्वः क्षिप्रमध्येष्यामहे । आशंसार्थे खल्वपि-उपाध्यायश्चेदागच्छत्यागमदागमिष्यत्यागन्ता वा आशंसेऽवकल्पये सम्भावये युक्तोऽधीयीय । द्वयोरुपपदयोः सप्तम्येव, शब्दतः परत्वात् । आशंसे क्षिप्रमधीयीय ॥ 'सम्भावने सिद्धवत् १० (५।४।४) हेतोः शक्तिश्रद्धानं सम्भावनम् । तस्मिन् विषये असिद्धेऽपि वस्तुनि सिद्धवत्प्रत्ययाः स्युः 'समये चेत्प्रयत्नो भूदुदभूवन्विभूतयः । इषे चेन्माधवोऽवर्षीत्समपत्स्यन्त शालयः' ॥१॥ 'जातश्चायं मुखेन्दुश्चेद्भुकुटीप्रणयी पुनः । गतं च वसुदेवस्य कुलं नामावशेषताम् ॥२॥ 'वा हेतुसिद्धौ क्तः (५।३।२) वय॑त्यर्थे धात्वर्थहेतुः कारणं तस्य सिद्धौ सत्यां वा क्तः । किं ब्रवीषि वृष्टो देवः संपन्नास्तर्हि शालयः सम्पत्स्यन्ते वा, प्राप्ता नौस्तीर्णा तर्हि नदी तरिष्यते वा ॥"नानद्यतनः प्रबन्धासत्त्योः ' १५ (५।४।५) प्रबन्धः सातत्यम् , आसत्तिः सामीप्यम् , तच्च कालतः सजातीयेन कालेनाव्यवहितकालतेति यावत् , धात्वर्थस्य प्रबन्धे आसत्तौ च गम्यायां धातोरनद्यतनविहितः प्रत्ययो न भवति, भूतानद्यतने यस्तनी, भविष्यदनद्यतने च श्वस्तनी विहिता, तयोः प्रतिषेधः । यावजीवं भृशमन्नमदात् यावज्जीवं भृशमन्नं दत्तवान् यावज्जीवं भृशमन्नं दास्यति यावजीवं युक्तोऽध्यापिपत् यावज्जीवं युक्तोऽध्यापयिष्यति । आसत्तौ खल्वपि-येयं पौर्णमास्यतीता तस्यां जिनमहः प्रावतिष्ठ, (प्रवृत्तः), येयं पौर्णमास्यागामिनी २० तस्यां जिनमहः प्रवर्तिष्यते । द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञानाय । केचित्तु अनद्यतनविशेषविहितानामपि परोक्षादीनां प्रतिषेधमिच्छन्ति ॥ 'एष्यत्यवधौ देशस्यार्वाग्भागे' (५।४।६) देशस्य योऽवधिस्तद्वाचिन्युपपदे देशस्यैवाग्भिागे य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । अप्रबन्धार्थमनासत्त्यर्थ च वचनम्, यद्यप्यनद्यतन इति प्रकृतं तथापि इहैष्यतीतिवचनात् श्वस्तन्या एव प्रतिषेधः । योऽयमध्वा गन्तव्यः आशत्रुञ्जजयात्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्या-२५ महे द्विः सक्तून् पास्यामः । योऽयमध्वा गन्तव्य आपाटलिपुत्रात्तस्य यदवरमद्धं तत्रौदनं भोक्ष्यामहे । एष्यतीति किम् ? योऽयमध्वातिक्रान्त आशत्रुञ्जयात्तस्य यदवरं वलभ्यास्तत्र युक्ता द्विरध्यमहि द्विः सक्तूनपिबाम । अवधाविति किम् ? योऽयमध्वा निरवधिको गन्तव्यस्तत्र द्विरोदनं भोक्तास्महे द्विः सक्तून्पातास्मः ॥ 'कालस्यानहोरात्राणाम्' (५।४७) कालस्य योऽवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे य एष्यन्नर्थस्तत्र वर्तमानाद्धातोरनद्यतनविहितः प्रत्ययो न स्यात् । अनहोरात्राणाम् न३० चेत्सोर्वाग्भागोऽहोरात्राणां संबन्धी भवति । योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामोऽतिथिभ्यो दास्यामहे । एष्यतीत्येव-योऽयं संवत्सरोऽतीतस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता द्विरध्यैमहि । अवधावित्येव-योऽयमागामी निरवधिकः कालस्तत्र यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । अर्वाग्भाग इत्येव-परस्मिन्विभाषां वक्ष्यते। अनहोरात्राणामिति किम् ? योऽयं मास ३४
१ खमते तु सामान्यातिदेशे विशेषस्यानतिदेशात् परोक्षादीनां न निषेधः । एवं च भूतानद्यतने अद्यतनीक्तप्रत्ययोर्विधिभविष्यदनयतने च भविष्यन्या एव । २ यत्राहाशब्दो रात्रिशब्दो वा प्रयुज्यते तत्राहोरात्रत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org