________________
४९० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु'तुमर्हादिच्छा०' (३।४।२१) इति सन् 'रभलभशकपतपदामिः' (४।१।२१) न च द्विः, लिप्स्यते इति। लब्धुमिष्यमाण ओदनादिर्लिप्स्यस्तस्मात्सिद्धौ स्वर्गाद्यवाप्तिलक्षणायां गम्यायां वय॑त्यर्थे वर्तमानाद्धातोर्वर्तमाना वा स्यात् , पक्षे भविष्यन्तीश्वस्तन्यावपि स्याताम् । अकिंवृत्तार्थोऽयमारम्भः । यो भिक्षां ददाति दास्यति दाता वा स स्वर्ग याति यास्यति याता वा । लिप्स्याद्भक्तात्स्वर्गसिद्धिमाचक्षाणो दातारं ५प्रोत्साहयति ॥ 'पश्चम्यर्थहेतौ' (५।३।११) पञ्चम्यर्थः प्रैषादिस्तस्य हेतुर्निमित्तमुपाध्यायागमनादिस्तस्मिन्नर्थे वय॑ति वर्तमानाद्धातोर्वर्त्तमाना वा स्यात् , पक्षे भविष्यन्तीश्वस्तन्यावपि भवतः । उपाध्यायश्चेदागच्छति आगमिष्यति आगन्ता वा, अथ त्वं सूत्रमधीष्व अथ त्वमनुयोगमादत्स्व । अत्र भविष्यदुपाध्यायागमनमध्ययनादिविषयप्रैषस्यातिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति । अत्र च न्यत्कारपूर्वकं प्रेषणं प्रैषः, अनुमतादेशदानमतिसर्गः प्राप्तकालता चावसरः । 'सप्तमी चोर्द्धमौहू१०र्तिके' (५।३।१२ ) ऊर्द्ध मुहूर्ताद्भव ऊर्द्धमौहूर्तिकः 'नामनाम्ना०' (३।१।१८) इति समासः उत्तरपदवृद्धिस्त्वऽस्मादेव निर्देशात् पञ्चम्यर्थहेतावूर्द्धमौहूर्त्तिके वय॑त्यर्थे वर्तमानाद्धातोः सप्तमी, चकाराद्वर्त्तमाना च विभक्तिर्वा स्यात् , पक्षे भविष्यन्तीश्वस्तन्यावपि स्याताम् । ऊर्द्ध मुहूर्तात् उपरि मुहूर्तस्य परं मुहूर्तादुपाध्यायश्चेदागच्छेत् आगच्छति आगमिष्यति आगन्ता वा, अथ त्वं तर्क
मधीष्व ॥ 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) वेति निवृत्तम् । १५ यस्माद्धातोस्तुमादिस्तद्वाच्या या क्रिया, साऽर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियायामुपपदे वय॑त्यर्थे वर्तमानाद्धातोस्तुम्-णकच् भविष्यन्तीप्रत्ययाः स्युः । कर्तुं ब्रजति कारको व्रजति करिष्यामीति व्रजति ॥ 'सत्सामीप्ये सद्वद्वा' (५।४।१) समीपमेव सामीप्यम् , सतो वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्तमानाद्धातोः सद्वर्त्तमानवत्प्रत्यया वा भवन्ति । 'सति' (५।२।१९) इति सूत्रादारभ्यापादपरिसमाप्तेर्विहिताः प्रत्यया भूतभविष्यतोर्वा अतिदिश्यन्ते । कदा २० चैत्रागतोऽसि अयमागच्छामि आगच्छन्तमेव मां विद्धि । वावचनाद्यथाप्राप्तं च, अयमागमम् एषोऽस्म्यागतः । कदा मैत्र गमिष्यसि एष गच्छामि गच्छन्तमेव मां विद्धि, पक्षे एष गमिष्यामि गन्तास्मि गमिष्यन्तमेव मां विद्धि । वत्करणस्य सादृश्यार्थत्वायेनैव प्रकृत्युपपदोपाध्यादिना विशेषेण वर्तमाने विहितास्तेनैव भूतभविष्यतोरपि भवन्ति । कदा भवान् सोमं पूतवान् पविष्यते वा एषोऽस्मि
पवमानः । कदा भवानिष्टवान् यक्ष्यते वा, एषोऽस्मि यजमानः । पवमानः यजमान इत्यत्र २५ प्रकृतिविशेषः । कदा भवान् कन्यामलङ्कृतवान् अलङ्करिष्यते वा, एषोऽस्म्यलङ्करिष्णुरित्यत्र उपपदविशेषः । शीलाद्युपाधिविशेषश्च । सामीप्य इति किम् ? परुदगच्छत् वर्षेण गमिष्यति ॥ 'भूतवच्चाशंस्ये वा' (५।४।२) अनागतस्य प्रियस्यार्थस्याशंसनं प्राप्तमिच्छा वा आशंसा तद्विषय आशंस्यस्तस्मिन्नर्थे वर्तमानाद्धातोभूतवञ्चकारात्सद्वच्च प्रत्यया वा भवन्ति । आशंस्यस्य भविष्यत्त्वादयमतिदेशः । वाग्रहणाद्यथाप्राप्तं च । उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि । उभयत्राप्याशंस्यस्य ३० विद्यमानत्वादनेनैव भूते प्रत्ययः । उपाध्यायश्चेदागतः एतैस्तर्कोऽधीतः, उपाध्यायश्चेदागच्छति एते तर्कमधीमहे, उपाध्यायश्चेदागमिष्यति एते तर्कमध्येष्यामहे, उपाध्यायश्चेदागन्ता एते तर्कमध्येतास्महे । सामान्यस्यातिदेशे विशेषस्यानतिदेशात् ह्यस्तनीपरोक्षे न भवतः, एतच्च व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात् । आशंस्य इति किम् ? उपाध्याय आगमिष्यति तर्कमध्येष्यते मैत्रः ॥ 'क्षिप्राशंसार्थयो३४ भविष्यन्तीसप्तम्यौं' (५।४।३) क्षिप्रार्थे आशंसाऽर्थे चोपपदे आशंस्येऽर्थे वर्तमानाद्धातोर्यथा
१ अतिक्रम्य निजं कालं दिश्यन्त इत्यर्थः। २ आदिशन्दात् कर्तृविशेषेणापि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org