________________
४८९
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादयः परस्मैपदिनः 'पुरा' अनयोरुपपदयोरिति अनयोर्निपातयोरित्यर्थः यथा पुरा भुले । यावद्भुङ्क्ते भोक्ष्यते इत्यर्थः । पुरेति क्रियाविशेषणं कालविशेषणे वा सप्तमी 'कालाध्व०' (२।२।४२) इति कर्मसंज्ञायामम्वा । भविध्यदनद्यतनेऽपि परत्वाद्वर्त्तमानैव पुरा श्वो भुते । यावच्छ्यो व्रजति । यावच्छब्दोऽत्रावध्यर्थः, परिमाणार्थे, तु न स्यात् । यावहास्यते तावद्भोक्ष्यते यत्परिमाणमित्यर्थः । लाक्षणिकत्वादिह न भवति-महत्या पुरा जेष्यति प्रामम् ॥ 'कदाकोनवा' (५।३।८ ) अनयोरुपपदयोवय॑त्यर्थे वर्तमाना वा स्यात् । कदा५ भवतीति, पक्षे भविष्यन्तीश्वस्तन्यावपि भवतः । यथा कदा भुते कदा भोक्ष्यते कदा भोक्ता, कर्हि मुक्ते कर्हि भोक्ष्यते कर्हि भोक्ता । ये कदाकर्हियोगे सर्वेषु कालेषु वर्तमानामिच्छन्ति तन्मतमपास्यमित्याह श्रीसूरि:-कर्हिशब्दस्यानद्यतनार्थवृत्तित्वात् अनद्यतन एव हिप्रत्ययविधानान्न प्राप्नोति । श्वो गमिष्यतीत्यादिवत्तु भविष्यति, भूते तु नित्यं परोक्षादयः । कदा बुभुजे कदा भुक्तवान् , कर्हि बुभुजे कर्हि भुक्तवान् ॥ 'ननौ पृष्टोक्तौ सद्वत्' (५।२।१७) (अनद्यतन इति निवृत्तम् ) ननावुपपदे प्रष्टव्य-१० प्रतिवचने भूतेऽर्थे सद्वद्भवति, सद्वद्वचनाद्वर्त्तमाना शत्रानशौ च भवन्ति । किमकार्षीश्चैत्र कटम् , ननु करोमि भोः ननु कुर्वन्तं कुर्वाणं मां पश्य । किमवोचः किश्चिञ्चैत्र, ननु ब्रवीमि भोः ननु ब्रुवन्तं ब्रुवाणं मां पश्य॥ 'नन्वोा ' (५।२।१८) न-नुशब्दयोर्योगे भूते सद्वत् । किमकार्षीः कटं चैत्र, न करोमि भोः, न कुर्वन्तं न कुर्वाणं मां पश्य, पक्षे नाकार्षम् । कस्तत्रावोचत् , अहं नु ब्रवीमि ब्रुवन्तं ब्रवाणं नु मां पश्य । पक्षे अहं न्ववोचम् ॥ क्षेपेऽपिजात्वोर्वर्तमाना' (५।४।१२) भूते इति निवृत्तम् । क्षेपो गर्दा १५ तस्मिन् गम्यमानेऽपिजात्वोरुपपदयोर्धातोर्वर्त्तमाना स्यात् । कालसामान्ये विधानात् कालविशेषविहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्रभवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, अपि संयतः सन्ननागाढे तत्र भवानाधायकृतं सेवते, धिग्गहीमहे । इह सप्तमीनिमित्ताभावाक्रियातिपतने क्रियातिपत्तिोंदाह्रियते ॥ ३४ ॥
___ माङयद्यतनी ॥३५॥ [सि० ५।४।३९] माङथुपपदे धातोरद्यतनी स्यात् । सर्वविभक्त्यपवादः। मायोगेऽडागमाभावः। मा भूत् ॥३५॥ 'माझ्य' सर्वविभक्त्यपवाद इति-कथं माभवतु, तस्य पापं मा भविष्यतीति । असाधुरेवायम् , केचिदाहुरङितो माशब्दस्यायं प्रयोगः । स्वमतेप्यङिन्माशब्दप्रयोगोऽस्ति, किन्तु क्रियायोगेऽसौ नेष्यतेऽतः केचिदाहुरित्युक्तम् ॥ ३५ ॥
सस्मे ह्यस्तनी च ॥ ३६ ॥ [ सि० ५।४।४०] ससे माङयुपपदे ह्यस्तनी अद्यतनी च स्यात् । मास भवत् मास भूत् ॥ ३६ ॥
'सस्मे' माशब्देन निषेध उच्यते, स्मशब्देन स एव द्योत्यते, व्यस्तोप्यनयोः प्रयोगः स्यात् । मा चैत्र स्म हरः परद्रव्यम् , मा चैत्र स्म हार्षीः परद्रव्यम् । आदिशब्दसन्निधानात् 'किंवृत्ते लिप्सायाम' (५।३।९) विभक्त्यन्तस्य डतरडतमान्तस्य च किमो वृत्तं किंवृत्तमिति वैयाकरणसमयस्तेन किंतरां किंतमामिति न किंवृत्तम् , तस्मिन्नुपपदे प्रष्टुर्लिप्सायां गम्यमानायां वय॑त्यर्थे वर्त्त-३० मानाद्धातोर्वर्तमाना वा स्यात् , पक्षे भविष्यन्तीश्वस्तन्यावपि स्याताम् । लब्धुमिच्छा लिप्सा । को भवतां भिक्षां ददाति दास्यति दाता वा । कं भवन्तो भोजयन्ति भोजयिष्यन्ति भोजयितारो वा । कतरः कतमो वा भवतो भिक्षां ददाति दास्यति दाता वा । किंवृत्त इति किम् ? भिक्षा दास्यति । लिप्सायामिति किम् ? कः सिद्धपुरं यास्यति ॥ 'लिप्स्यसिद्धौं' (५।३।१०) 'डुलभिं प्राप्तौ' लब्धुमिप्यते ३४
है. प्रका० उत्त० ६२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org