________________
४८८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
__स्तायशितोऽत्रोणादेरिट् ॥ ३२ ॥ [सि० ४।४।३२] धातोः परस्य सादेस्तादेवाशित आदिरिट् स्यात् , नतु प्रत्यये उणादिषु च । भविता श्वः पूजोत्सवः । भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितासि भविताव: भवितासः ॥ ३२ ॥ ५ 'स्ताद्य० । सादेरित्यस्योदाहरणम्-अटिटिषति अलविष्ट लविष्यति अलविष्यत् । तादेरित्यस्योदाहरणम्-लविता लवितव्यम् लवितुम् । स्तादीति किम् ? अनुः, स्योमा, भूयात्, ईश्वरः, विद्वान् । अशित इति किम् ? आस्से आस्ते । न तु प्रत्यये इति-शस्त्रं योत्रं पोत्रम् । उणादिषु चेति-वत्सः अंसः दन्तः हस्तः ॥ ३२ ॥ अथ भविष्यन्तीमभिधातुं तस्या अर्थमाह।
भविष्यन्ती ॥ ३३॥ [सि० ५।३।४] १० सामान्यतो भविष्यदर्थाद्धातोर्भविष्यन्ती स्वात् ॥ ३३ ॥
सामान्यत इत्यादि स्पष्टम् । आदिशब्दात् 'किंकिलास्त्यर्थयोभविष्यन्ती' (५।४।१६) यथासङ्खयं नास्ति । न श्रद्दधे न मर्षयामि किंकिल नाम तत्रभवान्परदारानुपकरिष्यते, गन्धना(३।३।७६)दिसूत्रेण साहसे आत्मनेपदम् । अस्त्यर्था-अस्ति-भवति-विद्यतयः, न श्रद्दधे न मर्षयामि किंकिल नाम अस्ति नाम भवति (नाम) विद्यते नाम तत्रभवान्परदारानुपकरिष्यते, अत्र सप्तमीनिमित्तं १५ नास्तीति क्रियापतने क्रियातिपत्तिर्न भवति । यथा किलशब्दः प्रसिद्धद्योतने वाक्यालङ्कारे अमर्षद्योतने
कोमलामत्रणे, एवं किंकिलशब्दोऽपि । किंकिलशब्दोऽभिप्रायनिवेदनेऽखण्डोऽव्ययश्चेति कश्चित् । 'शेषे भविष्यन्त्ययदौ' (५।४।२०) शेषे यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्यमाने धातोर्भविष्यन्ती भवति । अयदौ-यदिशब्दश्चेन्न प्रयुज्यते, सर्वविभक्त्यपवादः । चित्रमाश्चर्यमन्धो नाम
पर्वतमारोक्ष्यति, बधिरो नाम व्याकरणं श्रोष्यति, मूको नाम धर्म कथयिष्यति । अत्र सप्तमी२० निमित्तं नास्ति इति न क्रियातिपत्तिः । शेष इति किम् ? यच्च-यत्रयोः पूर्वेण चित्रे इत्यनेन सप्तम्येव ।
अयदाविति किम् ? आश्चर्य यदि स भुञ्जीत, चित्रं यदि सोऽधीयीत, अत्राश्रद्धाप्यस्ति न केवलं यदि शब्दस्ततो 'जातुयद्यदा०' (५।४।१७) इति सप्तमी ॥ ३३ ॥ भविष्यन्तीमाह - परस्मैपदिनः।
आत्मनेपदिनः। म स्थति स्थतम् स्यन्ति ।
स्यते स्खेते स्यन्ते । . २५ स्यसि स्मथस् स्यथ ।।
स्वसे स्येथे स्यध्वे । र स्यामि सावस् स्यामस् ।
से स्यावहे स्यामहे । इडागमे । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविष्यावः भविष्यामः। "भविष्यन्ती'त्यादि स्पष्टम् ॥ अथोपपदविशेषे विभक्तिविशेषमाह ।
पुरायावतोवर्तमाना ॥ ३४ ॥ [सि० ५।३।७] अनयोरुपपदयोर्भविष्यदर्थाद्धातोर्वर्त्तमाना स्यात् । पुरा भवति । यावद्भवति । भविष्यतीत्यर्थः। ३२ कदाकोर्नवा (५।३।८) कदा भवति । कदा भविष्यति । कर्हि भवति । कर्हि भविष्यति ॥३४॥
१असिद्धं बहिरगामिति खरानन्तर्ये नेष्यते तेन यवं सिद्धमन्यथा ऊटोऽसत्वात् गुणः स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org