________________
४८६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'नामि०' कलिहलिवर्जनानाम्नोऽपि । तेन पटुमाख्यातवान् अपीपटत् अलीलघदित्यत्र वृद्धावन्यस्वरादिलोपे चासमानलोपित्वात्सन्वद्भावः सिद्धो भवति । कलिहलिवर्जनं किम् ? कलिं हलिं वाग्रहीत् अचकलत् अजहलत् । अन्ये तु नाम्नो वृद्धिमनिच्छन्तोऽन्त्यस्वर(स्यो)कारस्यैव णिचि लोपमिच्छन्तः समानलोपित्वात्सन्वद्भावप्रतिषेधे अपपटत् अललघदित्येवाहुः, न चायं राजपथः ॥ २७ ॥ ५ स्क्रसृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः॥२८॥ [सि० ४।४।८१]
स्कृगः सादिवर्जेभ्यश्च सर्वधातुभ्यः परस्या व्यञ्जनादेः परोक्षाया आदिरिद् स्यात् । बभूविथ बभूवथुः बभूव । बभूव बभूविव बभूविम ॥ २८ ॥
'स्क्रसृ०' सृश्च वृश्च भृश्च स्तुश्च द्रुश्च श्रुश्च स्रुश्च सृवृभृस्तुद्रुश्रुनु । न सृवृभृस्तुद्रुश्रुनु असृवृभृस्तुद्रुश्रुनु । स्कृश्व असूवृभृस्तुद्रुश्रुस्रुश्च स्क्रसृवृभृस्तुद्रुश्रुनु । तस्मात् स्कृग इति सस्सटः करोतेः, स्रादिसप्त१. धातुवर्जेभ्यश्च सर्वधातुभ्य इति । स्कू-संचस्करिव सञ्चस्करिम सञ्चस्करिषे । साद्यन्येभ्यः-ददिव
ददिम ददिषे । एवं चिच्यिवहे निन्यिवहे जुहुविव लुलुविवे लुलुविध्वे जहिव तेरिव पेचिषे । स्कृनिर्देशात् केवलस्य माभूत्-चकृव चकम चकर्थ चकृषे । स्रादिवर्जनं किम् ? 'मुं गतौ' समृव समृम ससर्थ । 'ग्टु वरणे' ववृव ववृम ववृवहे ववृमहे । 'डु,ग्क् धारणे च' बभूव बभ्रम बभर्थ 'टुंग्क् स्तुतौ' तुष्टुव तुष्टुम तुष्टोथ । 'इं दुं दुं झुंझुं गतौ' दुद्रुव दुद्रुम दुद्रोथ, शुश्रुव शुश्रुम शुश्रोथ, सुनुव सुस्रुम १५सुस्रोथ । स्तुद्रुश्रुस्तॄणां 'मृजिदृशि०' (४।४।७८) इत्यादिनापि थवि विकल्पो न भवति अनेन प्राप्ते
हि स विकल्पः । एषां तु प्रतिषिद्धत्वात्प्राप्तिर्नास्ति । ववृषे इत्यत्र तु 'स्ताद्यशित०' (४।४।३२) इत्यादिनापि न भवति 'ऋवर्णश्यूणुगः कितः' (४।४।५७) इति प्रतिषेधात् ॥२८॥ अथात्र विशेषमाह ।
कृतास्मरणाऽतिनिढवे परोक्षा ॥ २९ ॥ [सि० ५।२।११] अनयोरर्थयोरपरोक्षेऽपि भूते परोक्षा स्यात् । सुप्तोऽहं किल विललाप । नाहं कलिङ्गं जगाम ॥२९॥ २० 'कृता' अनयोरर्थयोरिति कृतस्यापि व्यापारस्य चित्तव्यापेक्षादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्यमाने भूतानद्यतनेऽर्थे वर्तमानाद्धातोः परोक्षा स्यात् । अपरोक्षकालार्थ आरम्भः । नाहमित्यादि । अतिनिह्नवे-कश्चित्केनचिदुक्तः कलिङ्गेषु त्वया ब्राह्मणो हतः स तदपढुवान आह कः कलिङ्गान् जगाम को ब्राह्मणं ददर्श नाहं कलिङ्गान् जगाम इत्यन्तमपहृते । अतिग्रहणादेकदेशापह्नवे ह्यस्तन्येव
न कलिङ्गेषु ब्राह्मणमहमहनम् । एवं 'हशश्वद्युगान्तः प्रच्छये बस्तनी च' (५।२।१३) २५ पञ्चवर्ष युगं तस्यान्तर्मध्यं तत्र पृच्छयते यः स युगान्तःप्रच्छयः । हे शश्वति-प्रयुज्यमाने युगान्तः
प्रष्टव्ये (च) भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोबस्तनी परीक्षा च विभक्ती भवतः । इतिहाकरोत् इतिहचकार । इतिहशब्दो निपातसमुदायः पारम्पर्ये वर्त्तते 'इतिहः स्यात् सम्प्रदाये' इति वचनात् । यद्वा इति एतत् , ह इति वाक्यालङ्कारे ॥ शश्वदकरोत् शश्वञ्चकार । प्रच्छये-किमगच्छस्त्वं मथुरां किं जगन्थ त्वं मथुराम् । हशश्वद्युगान्तःप्रच्छय इति किम् ? जघान कंसं किल वासुदेवः । वेत्येव कृते ३० भूतानद्यतनमात्रभाविन्याः हस्तन्याः पक्षे सिद्धौ ह्यस्तनीविधानं स्मृत्यर्थप्रयोगेऽपि हस्तन्येव यथा स्यान्न
भविष्यन्तीत्येवमर्थम् , तेन स्मरसि मित्र काश्मीरेष्वितिहाध्यैमहि, अभिजानासि चैत्र शश्वदध्यमही' त्यादि सिद्धम् , क्रियान्तराकाङ्क्षायां तु हशश्वत्प्रयोग एव न सम्भवतीति नोदाह्रियते । निपातानां
यथादर्शनं प्रयोगात् । 'श्रुसवस्भ्यः परोक्षा वा' (५।२।१) भूत इत्यनुवर्त्तते । शृणोत्यादिभ्यो ३४भूतार्थवृत्तिभ्यः परोक्षा वा स्यात् । उपशुश्राव उपससाद अनूवास । वावचनाद्यथाकालमद्यतनकालेऽ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org