________________
४८५
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
परोक्षे ॥ २३ ॥ [सि० ५।२।१२] भूतानद्यतने परोक्षार्थाद्धातोः परोक्षा स्यात् । 'परो०' अक्षाणां परः परोक्षः, अत एव निर्देशात्साधुः; अव्युत्पन्नो वा असाक्षात्कारार्थः । भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोः परोक्षा स्यात् । यद्यपि साध्यत्वेनानिष्पन्नत्वात् सर्वोपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षाभिमानोऽस्ति । स यत्र नास्ति स परोक्षः । यथा५ दिदेश धर्मं जिनः ॥ २३ ॥ परोक्षामाह । परोक्षेत्यादि । ___परसैपदिनः।
आत्मनेपदिनः। अतुस् उस ।
ए आते इरे । Fथव् अथुस् अ।
से आथे ध्वे ।। ण व म ।
ए वहे महे । १० भू णव् इति स्थिते । णकारो वृद्ध्यर्थः ॥ २३ ॥ द्विर्धातुः परोक्षा के प्राक् तु खरे खरविधेः ॥ २४ ॥ [ सि० ४।१।१] परोक्षायां डे च परे धातुर्द्विः स्यात् । स्वरादौ तु द्वित्वनिमित्ते खरस्य कार्यात्मागेव ॥२४॥ 'द्विर्धा ' धातुर्द्विः स्यादिति धातोरवस्थितस्य द्वितीयमुच्चारणं क्रियते इत्यर्थः । स्वरादौ त्विति-निनाय निनयिथ निन्यतुः चक्रतुः पपौ पपतुः जग्मतुः अदधत् एवमादिषु वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं १५ स्यात् । स्वरादाविति किम् ? दिदीर्वान् शिशीर्वान् जेघीयते देध्मीयते जेगीयते । स्वरविधेरिति किम् ? श्वि शुशाव । 'तुक् वृत्तिहिंसापूरणेषु' भावेऽनटि तवनमिच्छति तवनीयति 'अमाव्ययात् क्यन् च' (३।४।२३) इति क्यनि तवनीयितुमिच्छति तितवनीयिषतीति सनि 'अन्यस्य' (४।१।८) इति द्वित्वम् । अत्र गुणरूपस्य स्वरविधेर्द्वित्वनिमित्तप्रत्ययाजन्यत्वान्न ततः प्राग द्वित्वम् । जग्ले मम्ले इत्यनिमित्तकमात्वम् । अधिजगे इति विषये आदेशः । प्राक्तु स्वरे स्वरविधेरिति आद्विर्वचनमधिकारः२० अन्यथा प्रागेव णेलोपे आदिटदित्यादि न सिद्ध्यति ॥ २४ ॥ .
भूखपोरदुतौ ॥ २५ ॥ [ सि० ४।१७० ] भूस्खपोः परोक्षायां द्वित्वे पूर्वस्य यथासङ्ख्यमदुतौ स्याताम् ॥ २५॥ 'भूख' सूत्रं सुगमम् ॥ २५ ॥
द्वितीयतुर्ययोः पूर्वी ॥ २६ ॥ [सि० ४।११४२] २५ द्वित्वे पूर्वयोर्द्वितीयतुर्ययोर्यथासङ्ख्यमाद्यतृतीयौ स्याताम् ॥ २६ ॥ 'द्विती०' प्रकटार्थम् ॥ २६ ॥
नामिनोऽकलिहलेः ॥ २७ ॥ [सि० ४।३।५१] नाम्यन्तस्य धातोर्नाम्नो वा कलिहलियर्जस्य णिति वृद्धिः स्यात् । ततो आवादेशे 'भुवो व (४।२।४३) इत्यूत्वे च बभूव श्रीवीरः । बभूवतुः बभूवुः ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org