________________
१८४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुव्यामिश्रे-अद्य ह्यो वा भुक्ष्महि । विशेषाविवक्षेति किम् ? अगच्छाम घोषान् , अपिबाम पयः, अजयज्ज(द्?)ों हूणान् , रामो वनं जगाम । ह्यस्तन्यादिविषयेऽप्यद्यतन्यर्थं वचनम् । आदिशब्दसंसर्गात् 'रात्रौ वसोऽन्त्ययामाखप्तर्यद्य' (५।२।६) रात्रौ भूतेऽथे वर्तमानाद्वसतेर्धातो_स्तन्यपवादोऽ
द्यतनी स्यात् । अन्त्ययामास्वप्तरि स चेदर्थो यस्यां रात्रौ भूतस्तस्या एवान्त्ययामं व्याप्यास्वप्तरि कर्त्तरि ५ वर्त्तते । अद्य तेनैवान्त्ययामेनावच्छिन्ने अद्यतने चेत्प्रयोगो भवति, नाद्यतनान्तरे । न्याय्ये प्रत्युत्थाने
प्रत्युत्थितं कश्चित्कश्चिदाह क भवानुषितः स आह अमुत्रावात्समिति । रात्र्यन्त्ययामे तु मुहूर्त्तमपि स्वापे ह्यस्तन्येव अमुत्रावसमिति । उपाध्यायस्त्वाह-रात्रेश्चतुर्थे यामे यदा वाक्यं प्रयुते तदामुत्रावात्समिति, तस्यातिक्रान्तप्रहरत्रयमनद्यतनमिति यस्तनीप्रसङ्गे यदा प्रयोक्ता सकलमतिक्रम्य रात्रिप्रहरत्रयं जागरित
वान् तदाद्यतनी, यदा सुप्त्वा प्रयुङ्क्ते तदा ह्यस्तन्येव । यत्सूत्रं 'वसेल' रात्रिशेषे जागरणसन्तताविति १० तन्मतसङ्ग्रहार्थमिदं सूत्रमेवं व्याख्येयम् रात्रावस्वप्तर्योति कोऽर्थः अन्त्ययामे प्रयोगे क्रियमाणे अन्त्ययामेति लुप्तसप्तम्येकवचनान्तं पदम् ॥ १८ ॥
अद्यतनीमाह । - परसैपदिनः।
आत्मनेपदिनः । दि ताम् अन् ।
त आताम् अन्त । . १५ । सि तम् त ।
थास् आथाम् ध्वम् । " अम् व म ।
इ वहि महि ॥ १८ ॥ सिजद्यतन्याम् ॥ १९॥ [सि० ३।४।५३ ] अद्यतन्यां परस्यां धातोः परः सिच् स्यात् । इकार उच्चारणार्थः । चकारो विशेषणार्थः ॥१९॥
'सिज०' सूत्रं स्पष्टम् ॥ १९ ॥ २० पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट् ॥ २० ॥ [ सि० ४॥३॥६६ ]
देति दासंज्ञाधातवः । एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात् , लुब्योगे न चेट ॥२०॥ 'पिबै०' दासंज्ञाधातव इति दा धा इत्येवंरूपौ धातू अवानुबन्धौ दासंज्ञौ भवतः । तत्र दारूपाश्च त्वारः 'दाम् दाने' 'देङ् पालने' 'डुदांग दाने 'दोच् छेदने' । धारूपौ द्वौ 'धे पाने' 'दुधांगक् धारणे च' एते षट् दासंज्ञा इति ॥ २० ॥
___ भवतेः सिज्लुपि ॥ २१ ॥ सि० ४।३।१२] सिचो लुपि भवतेगुणो न स्यात् । अधातोरित्यडागमे । अभूत अद्य वृष्टिः । अभृताम् । ॥११॥ अभू अन् इति स्थिते सिज्लोपे 'धातोरिवर्णस्य०' (२।१।५०) इत्युवादेशे । "भव०' अतिस्पष्टम् ॥ २१ ॥
भुवो वः परोक्षाऽद्यतन्योः ॥ २२ ॥ [सि० ४।२।४३] ३० भुवो वन्तस्योपान्त्यस्य परोक्षाद्यतन्योरूत् स्यात् । अभूवन् । अभूः अभूतम् अभूत । अभूवम् __अभूव अभूम ॥ २२॥ ३२ 'भूवो०' सूत्रं सुगमम् ।। २२ ॥ अथ परोक्षां विवक्षुः परोक्षाया अर्थानाह ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org