________________
परस्मैपदिनः । 4 दिव् ताम् अन् । सिव् तम् । अम्व्वम ।
ह्यस्तनी ।
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे भ्वादयः परस्मैपदिनः
आत्मनेपदिनः ।
त आताम् अन्त ।
थास् आथाम् ध्वम् । हि महि | अधातोरादिर्ह्यस्तन्यां चामाङा ॥ १४ ॥ [ सि० ४।४।२९] ह्यस्तन्यामद्यतनीक्रियातिपत्त्योश्च विषये धातोरादिरट् स्यात् नतु माङ्योगे । अभवद् ह्यो जिनाच | 'विरामे वा ' ( १।३।५१ ) अभवत् अभवताम् अभवन् । अभवः अभवतम् अभवत । अभवम् अभवाव अभवाम ॥ १४ ॥
"
'अड्धा०' सूत्रं स्पष्टम् ॥ १४ ॥ अथात्र विशेषमाह
४८३
अविवक्षिते ॥ १५ ॥ [ सि० ५।२।१४ ]
परोक्षत्वेनाविवक्षिते परोक्षे भूतानद्यतने ह्यस्तनी स्यात् । अभवद्वीरः ।। १५ ।।
'अवि०' एवं परोक्षानद्यतने विवक्षावशाद्यतनी ह्यस्तंनी परोक्षास्तिस्रोपि विभक्तयः स्युः । अभवद्वीर इति, एवमभूद् बभूव वीर इत्यपि स्यात् । परोक्षत्वानद्यतनत्वाविवक्षायामद्यतनी, परोक्षत्वाविवक्षायां ह्यस्तनी, उभयसद्भावविवक्षायां परोक्षेति ॥ १५ ॥ अथोपपदविशेषात् भूतानद्यतनकाले विभक्तेर्व्यत्ययमाह ।
अद्यतनकाले भूतार्थाद्धातोरद्यतनी स्यात् ॥ १७ ॥ 'अद्य ० ' ॥ १७ ॥ अत्र विशेषमाह ।
[सि० ३|३|९]
Jain Education International
स्मे च वर्त्तमाना ॥ १६ ॥ [ सि० ५।२।१६]
भूतानद्यतने वर्त्तमानाद्धातोः मे पुरादौ चोपपदे वर्त्तमाना स्यात् । शिष्यास्तव भवन्तिस्स । पुरा भवति ते पदम् । अभवदित्यर्थः ॥ १६ ॥
'स्मे च ० ' स्मशब्दोऽतीतकालद्योतकश्चादिरव्ययः । पुरादयश्च पुरा तदा अथ यावद् - हशश्वदादयः प्रयोगगम्याः । प्रयोगाश्चैवम् इति स्मोपाध्यायः कथयति, वसन्तीह पुरा च्छात्राः, भाषते राघवस्तदा, २० अथाह वर्णी विदितो महेश्वरः, क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । एवं 'वाद्यतनी पुराद' (५|२| १५ ) इति सूत्रेण पुरादियोगेऽद्यतनी - ह्यस्तनी - परोक्षा- वर्त्तमानाश्चतस्रो विभक्तयों भवन्ति, मसहिते तु पुरादौ परत्वाद्वर्त्तमानैव । नटेन स्म पुराधीयते । एवं ह - शश्वद्योगेऽपि - इति हस्मोंपाध्यायः कथयति । हशब्दोऽत्र स्मृत्यर्थे इतिह इत्यव्ययसमुदायों वा सम्प्रदाये, 'इतिहः स्यात्सम्प्रदाये' इत्यभिधानचिन्तामणौ । शश्वदधीतेस्म बटुः । शेषं सुगमम् ॥ १६ ॥ अथाद्यतन्या अर्थमाहअद्यतनी ॥ १७ ॥ [ सि० ५।२४ ]
For Personal & Private Use Only
१०
१५
विशेषाऽविवक्षाव्यामि ॥ १८ ॥ सि० ५२२५ ]
३०
अद्यतनादिविशेषाऽविवक्षायां व्यामिश्रणे च सति भूतार्थाद्धातोरद्यतनी स्यात् । 'विशे० ' अद्यतनादिविशेषाविवक्षायामिति यथा अगमाम घोषान् । अपाम पयः । अजैषीज्ज ( ग ? ) त हूणान् । रामो वनमगमत् ॥ सतोप्यत्र विशेषस्याविवक्षा यथानुदरा कन्या, अलोमिका एडकेति । ३२
२५
www.jainelibrary.org