________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
४८१
तस्यात् । कर्मत्वं तुल्यकर्तृकत्वं च धातोः श्रुतत्वादुपपदापेक्षम् । भुञ्जीयेतीच्छति एवं वाञ्छति कामयते - अहं भुजे इति चैत्र इच्छतीत्यर्थः । इच्छार्थं इति किम् ? भोजको व्रजति अत्र कर्मतापि नास्तीति व्यावृत्तेर्व्यङ्गवैकल्यमिति न वाच्यम् । यतो व्रजतीति गत्यर्थस्य प्राप्त्यर्थत्वात् व्रजतीति बुद्ध्या प्राप्नोतीति । किं तत्कर्मतापन्नम्, भाविभोजनम् । भोजक इत्यत्र भविष्यदर्थे णकः । कर्मण इति किम् ? इच्छन् करोति अत्र करोतीच्छत्योर्लक्ष्यलक्षणभावो न तु कर्मक्रियाभावः । तुल्यकर्तृक इत्येव - इच्छामि ५ भुङ्क्तां भवान्, पूर्वसूत्रेण पञ्चमी || 'सप्तमी यदि' (५।४।३४ ) यच्छब्दप्रयोगे सति कालवेलासमयेषु उपपदेषु धातोः सप्तमी स्यात्, तुमोऽपवादः । कालो यदधीयीत भवान् । वेला यद्भुञ्जीत भवान् । समयो यच्छयीत भवान् । बहुलाधिकारात्कालो यदध्ययनस्य, वेला यद्भोजनस्य, समयो यच्छयनस्येत्याद्यपि भवति । यच्छब्दप्रयोगेऽनेन सप्तमी विहितेत्यनट् न प्राप्नोति, बाहुलकात्तु सोऽपि भवतीत्यर्थः ॥ 'शक्ता कृत्याश्च' ( ५।४।३५ ) शक्ते अहे च कर्त्तरि वाच्ये गम्यमाने वा, धातोः १० कृत्याः सप्तमी च स्युः । भवता खलु भारो वाह्यः वोढव्यः वहनीयः उह्येत । भवान् भारं वत् भवान् हि शक्तः । अहे, भवता ( खलु ) कन्या वाह्या वोढव्या वहनीया । भवान् खलु कन्यां वहेत्-अन्नार्हे कर्त्तरि वाच्ये व्यक्तिव्याख्यानादनेन सप्तमी, अन्यथा कर्त्तरि 'अर्हे नृच्' ( ५।४।३७ ) इति परत्वात्जेव स्यात्, भावकर्मणोरस्य चरितार्थत्वात् । भवता खलु च्छेदसूत्रं वाह्यं वोढव्यं वहनीयम् । भवान् खलु च्छेदसूत्रं वहेत् भवान् एतदर्हति । सप्तम्या बाधो मा भूदिति कृत्यग्रहणम् । १५ बहुवचनमिहोत्तरत्र च यथासयनिवृत्त्यर्थम् ॥ ९ ॥ सप्तमीं निर्दिशति यः स०
यः सप्तम्याः ॥ १० ॥ [ सि० ४।२।१२२ ]
आत्परस्य सप्तम्या याशब्दस्य इः स्यात् । शिष्यो गुरुसेवी भवेत् । भवेदसौ भव्यः श्राद्धत्वात् । भवेताम् ॥ १० ॥
आत्परयोः 'याम्युसोरियमियुसौ' (सि० ४।२।१२३ ) । भवेयुः । भवेः भवेतम् भवेत । २० भवेयम् भवेव भवेम ।
आत्परयोरिति वृत्त्यवयवः सापेक्षत्वात्प्रागुपन्यस्तस्ततः सूत्रं 'याम् ० ' स्पष्टम् ॥ १० ॥ अथ पञ्चमीं विवक्षुः पञ्चम्या अर्थानाह-
प्रैषाऽनुज्ञावसरे कृत्यपञ्चम्यौ ॥ ११ ॥ [ सि० ५/४/२९]
न्यत्कारपूर्विका प्रेरणा प्रैषः । नैषादिषु कृत्याः पञ्चमी च स्युः (*विध्यादिषु +आशिषि च २५ पञ्चमी वक्तव्या )
'प्रैषा ० ' । प्रैषादिष्विति । न्यत्कारपूर्विका प्रेरणा प्रैषः । अनुज्ञा कामचारानुमतिः अतिसर्ग इति यावत् । अवसरः प्राप्तकालता निमित्त कालोपनतिः । भवता खलु कटः कार्यः कर्त्तव्यः करणीयः कृत्यः । भवान् कटं करोतु । भवान् हि प्रेषितोऽनुज्ञातो ( भवतो ) ऽवसरः कटकरणे । यद्यपि कृत्याः सामान्येन भावकर्म्मणोर्विहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या बाध्येरन्निति पुनर्विधीयन्ते । अनुज्ञायां केचित्सप्तमीमप्याहुः अतिसृष्टो भवान् ग्रामं गच्छेत् ॥ ११ ॥
३१
१ ननु समुच्चीयमानेन सह यथासङ्ख्यस्य 'राष्ट्रक्षत्रिय ० ' ( ६।१।११४ ) इत्यत्रापत्यग्रहणेन निरस्तत्वाद् व्यर्थ बहुवचनम् । सत्यम् । ज्ञापकज्ञापिता विधयो ह्यनित्या इति न्यायज्ञापनार्थम् ।
For Personal & Private Use Only
है० प्रका० उत्त० ६१
Jain Education International
www.jainelibrary.org