________________
४८०
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञ हैमलघु
वर्त्तमाना' ( ५|४|१२ ) इति वर्त्तमानां बाधित्वा चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्द्यादित्यत्र तु 'शेषे भविष्यन्त्ययदौ' ( ५।४।२० ) इति भविष्यन्तीं च बाधित्वा परत्वादनेन सप्तम्येव भवति ॥ 'अयदि श्रद्धाघातौ नवा' ( ५।४।२३ ) श्रद्धा सम्भावना तदर्थे धातावुपपदे अलमर्थविषये सम्भावने गम्ये धातोः सप्तमी वा स्यात् यच्छन्दश्चेन्न प्रयुज्यते, क्रियाविशेषणत्वेनेति शेषः, हेत्वर्थे ५ तु भवत्येव । पूर्वेण नित्यं प्राप्ते विकल्पः । श्रदधे सम्भावयामि अवकल्पयामि भुञ्जीत भवान्, पक्षे यथाप्राप्तम्- भोक्ष्यते अभुक्त अभुङ्क भवान् । अयदीति किम् ? सम्भावयामि यद्भुञ्जीत भवान् । श्रद्धाधाताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् । 'सम्भावनेऽलमर्थे' इति नित्यं सप्तमी अत्रापि सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने क्रियातिपत्तिः । सम्भावयामि नाभोक्ष्यत भवान् ॥ 'सतीच्छार्थात् ' ( ५|४ | २४ ) वर्त्तमानेऽर्थे वर्त्तमानादिच्छार्थाद्धातोः सप्तमी वा स्यात् । इच्छेत् १० इच्छति उश्यात् वष्टि कामयेत कामयते वाञ्च्छेत वाञ्च्छति । 'क्षेपेऽपिजात्वोवर्त्तमाना' इत्यादावपि परत्वादयमेव विकल्पः । अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत् अपि संयतः सन्नकल्पयं सेवितुमिच्छति, धिग्गर्हामहे । भूतभविष्यतोरभावात्सत्यपि सप्तमीनिमित्ते सत्यपि क्रियातिपतने क्रियातिपत्तिर्न स्यात् । 'वर्त्स्यति हेतुफले' ( ५।४।२५ ) हेतुः कारणम्, फलं कार्यम् । हेतुभूते फलभूते वर्त्य - त्यर्थे वर्त्तमानाद्धातोः सप्तमी वा स्यात् । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते १५ शास्त्रान्तं गमिष्यति । अत्र गुरूपासनं हेतुः शास्त्रान्तगमनं फलम् । वर्त्स्यतीति किम् ? दक्षिणेन चेद्याति
न शकटं पर्याभवति । केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवादं संप्तमीं वा मन्यन्ते दक्षिणेन चेद्यायान्न शकटं पर्याभवेत्, पक्षे यास्यति न पर्याभविष्यति, चेद्याति न पर्याभवति, चेदयासीन्न पर्याभूत् । अत्रापि सप्तमीनिमित्तसत्त्वात् भविष्यति क्रियातिपतने क्रियातिपत्तिः । दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् । कथम् ? 'अमङ्क्षयद्वसुधा तोये च्युतशैलेन्द्रबन्धना । नारायण इव श्रीमान् यदि त्वं २० नाधरिष्यथाः' ॥ १ ॥ इति । वर्त्यत्येवायं प्रयोगः । केचित्तु भूते हेतुफले सप्तमी मिच्छन्ति है निष्यतीति पलायिष्यते वर्षिष्यतीति धाविष्यतीत्यत्र हेतुफलभावस्येतिशब्देनैव द्योतितत्वात्सप्तमी न स्यात् । सप्तम्या हि हेतुफलभाव एव द्योत्यते स स्वितिनैव द्योतित इति । 'कामोक्तावकच्चिति' ( ५।४।२६ ) । वेति नास्ति - कामोक्तौ विभक्त्यन्तरप्रयोगादर्शनात् । काम इच्छा तस्या उक्तिः प्रवेदनं तस्यां गम्यायां धातोः सप्तमी स्यात् । न चेत्कश्चिच्छन्दः प्रयुज्यते । सर्वविभक्त्यपवाद: । कामो मे २५ भुञ्जीत भवान् । इच्छा मेऽभिप्रायो मे श्रद्धा मेऽभिलाषो मे अधीयीत भवान् । अकञ्चितीति किम् ? कचिज्जीवति मे माता । अत्र सप्तमीनिमित्तसत्त्वात् भूते भविष्यति च क्रियातिपतने क्रियातिपत्तिः । कामो मेsभोक्ष्यत भवान् । 'इच्छार्थे सप्तमीपञ्चम्यौ' (५।४।२७) इच्छार्थे धातावुपपदे काम गम्यमानायां धातोः सप्तमीपञ्चम्यौ स्याताम् । सर्वविभक्त्यपवादौ । इच्छामि भुञ्जीत भवान् इच्छामि भुङ्कां भवान् । कामये प्रार्थये अभिलषामि वश्मि अधीयीत अधीतां भवान् । कामोक्तावित्येव ३० इच्छया इच्छतः कामयमानः कामयमानस्य भुङ्क्ते, नात्र प्रयोक्तुः कामोक्तिः, अत्र सत्यपि सप्तमीनिमित्ते इच्छार्थे उपपदे कामोक्तौ क्रियातिपतनस्यासामर्थ्यात्क्रियातिपत्तिर्न स्यात्, कामप्रवेदन क्रियातिपतनयोर्विरुद्धत्वात् । केचित्तु 'सप्तम्युताप्यो बढे' ( ५।४।२१ ) इत्यत आरभ्य यत्र केवलायाः सप्तम्या एव निमित्तमस्ति नान्यविभक्तिसहितायास्तत्रैव क्रियातिपतने क्रियातिपत्तिर्भवतीति मन्यन्ते । 'इच्छार्थे ३४ कर्मणः सप्तमी' (५।४।८९) इच्छार्थे धातावुपपदे तुल्यकर्तृकेऽर्थे वर्त्तमानात्कर्मभूताद्धातोः सम्बन्धे
१ बहुलाधिकाराद्धेतुहेतुमद्भावे शत्रानशौ न भवतः । २ नित्यम् । ३ उप समीपे पदमितिकृत्वा इच्छार्थेऽग्रेऽपि स्थिते भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org