________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
४७९ सीति भावगमनाभिधानात् प्रहासो गम्यते नहि यास्यसीति बहिर्गमनं प्रतिषिध्यते । अनेकस्मिन्नपि च प्रहसितरि प्रत्येकमेव परिहास इत्यभिधानवशान्मन्ये इत्येकवचनमेव । लौकिकश्च प्रयोगोऽनुगन्तव्य इति न प्रकारान्तरकल्पना न्याय्या। पाणिनीयास्तु 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच' (पा० १।४।१०६) मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात् , परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात् , स चैकार्थवाचकः स्यात् , इत्याहुः । प्रतित्रिकं वचनव्यवस्थां चैवमाहुः-एकद्वि-५ बहुषु अन्यादिषु यानि यानि त्रीणि त्रीणि वचनान्युक्तानि तान्येकद्विबहुष्वर्थेषु परिभाष्यन्ते । एकस्मिनर्थे एकवचनं द्वयोरर्थयोर्द्विवचनं बहुष्वर्थेषु बहुवचनमिति । इति वर्तमानाविभक्तिः । अथ सप्तमी विवक्षुः प्रथमं तस्या अर्थानाह ।
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थने ॥९॥ [सि० ५।४।२८ ] विधिः क्रियायां प्रेरणा । विध्यादिषु सप्तमी स्यात् । सँम्भावनादिष्वपि सप्तमी । परस्मैपदिनः ।
आत्मनेपदिनः । यात् याताम् युस् ।
ईत ईयाताम् ईरन् । यास् यातम् यात ।
ईथास् ईयाथाम् ईध्वम् । याम् याव याम ।
ईय ईवहि ईमहि । ॥९॥ विधिः० विध्यादिष्विति-विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ भवतः।१५ सर्वप्रत्ययापवादौ । विधिरप्राप्ते नियोगः क्रियायां प्रेरणेति यावत् , अज्ञातज्ञापनमित्येके । यथा कटं कुर्यात् करोतु भवान् , प्राणिनो न हिंस्यात् न हिनस्तु भवान् ॥ प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम् , इच्छामन्तरेणापि नियोगतः कर्त्तव्यमिति यावत् । द्विसन्ध्यमावश्यकं कुर्यात् करोतु भवान् , सामायिकमधीयीत अधीतां भवान् ॥ यत्र प्रेरणायामेव कामचारस्तदामैत्रणम् । इहासीत आस्तां भवान् यदि रोचते ॥ प्रेरणैव सत्कारपूर्विकाधीष्टम् , अध्येषणम् , तत्त्वज्ञानं नः प्रसीदेयुः प्रसी-२० दन्तु गुरुपादाः-अत्र तत्त्वज्ञानं कर्मतापन्नं नोऽस्मभ्यं प्रसादपूर्वकं दारित्यर्थः । व्रतं रक्षेत् रक्षतु भवान् ॥ संम्प्रश्नः सम्प्रधारणा । किं नु खलु भो व्याकरणमधीयीय अध्ययै उत तर्कमधीयीय अध्ययै । प्रार्थनं याच्या । प्रार्थना मे व्याकरणमधीयीय अध्ययै तर्कमधीयीय अध्ययै । सम्भावनादिष्वपि इत्यत्रापिशब्दसूचिताः सप्तम्या अर्थविशेषा एव ज्ञेयाः 'ससम्युताप्यो|ढे' (५।४।२१) बाढेऽर्थे वर्तमानयोरुताप्योरुपपदयोर्धातोः सप्तमी भवति । सर्वविभक्त्यपवादः । उत कुर्यात् अपि कुर्यात् ।२५ बाढं करिष्यतीत्यर्थः । बाढ' इति किम् ? उत दण्डः पतिष्यति ? अपिधास्यति द्वारम् । प्रश्नः पिधानं च यथाक्रमं गम्यते । 'सम्भावनेऽलमर्थे तदर्थानुक्तौ (५।४।२२) अलमोऽर्थः सामर्थ्यम् , तद्विषये सम्भावने श्रद्धाने गम्यमाने तदर्थस्यालमर्थार्थस्य शब्दस्यानुक्तावप्रयोगे धातोः सप्तमी भवति । सर्वविभत्त्यपवादः । शक्यसम्भावने-अपि मासमुपवसेत् । अशक्यसम्भावने अपि शिरसा पर्वतं भिन्द्यात् । अपि समुद्रं दोभ्यां तरेत् । अलमर्थ इति किम् ? निदेशस्थायी मे जिनदत्तः३० प्रायेण गमिष्यति । तदर्थानुक्ताविति किम् ? वसति चेत् सुराष्ट्रेषु वन्दिष्यतेऽलमुजयन्तम् । शक्तश्चैत्रो धर्म करिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने (नित्यं) क्रियातिपत्तिर्भवति। अपि पर्वतं शिरसा अभेत्स्यत् । तथा काक्रिन्या हेतोरपि मातुः स्तनं छिन्द्यादित्यत्र 'क्षेपेऽपिजात्वो-३३ १ एवमन्या अपि विभक्तयो द्रष्टव्याः । सन्निहितत्वाच भविष्यन्येव दर्शिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org