________________
४७८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुखाम्यर्थः प्रथमत उपलम्भश्च, पराभवति परिभवत्यमिभवतीति च तिरस्कारः, सम्भवतीति जन्मार्थः प्रमाणानतिरेकेण धारणं च, अनुभवतीति संवेदनम्, विभवतीति व्याप्तिः, आभवतीति भागागतिः, उद्भवतीत्युद्भेदः, प्रतिभवतीति लग्नकत्वमिति । अथवाऽर्थान्तरेष्वपि क्रियासामान्यरूपा सत्तानु(तु ?)वर्तत एवेति सत्ताया एवोपादानं कृतम् , सत्ताव्यतिरेकीण्यर्थान्तराणि खरविषाणायमानानि स्युः । 'षड् ५भावविकाराः' इति वचनाच भावः सत्ता सामान्यरूपा क्रियेत्यवसीयते । 'यदाहुः' जायते अस्ति विपरिणमते वर्द्धते अपक्षीयते विनश्यतीति षड् भावविकारा इति । अपि च-सर्वेऽपि खलु धातवस्तेन तेनोपाधिना सत्तामेवावच्छिद्य विषयीकुर्वन्तीति क्रियासामान्यमित्युच्यते, तथा च क्रियार्थो धातुरिति भुवो धातुत्वं सिद्धम् । आत्मनेपदोभयपदानुबन्धाभावाच 'शेषात्कर्त्तरि' ( ३।३।१००) परस्मै. पदम् ॥ ५ ॥ अपवादाभावाच्चौत्सर्गिकः शव् भवतीत्याह
कर्तर्यनद्भयः शव ॥ ६॥ [सि० ३।४७१] अदादिवर्जाद्धातोः कर्त्तरि विहिते शिति शव् प्रत्यय: स्यात् । शकारवकारावितौ ॥ ६ ॥ 'कर्त' । सूत्रं वृत्तिश्च निगदगम्या ॥ ६ ॥
नामिनो गुणोऽकृिति ॥७॥ [सि० ४।३१ ] कित डित् वर्जे प्रत्यये परे नाम्यन्तस्य धातोर्गुणः स्यात् । अवादेशे-स धार्मिको भवति । १५तौ भवतः । 'लुगस्यादे त्यपदे' इत्यकारलोपे ते भवन्ति । त्वं भवसि । युवां भवथः । यूयं
भवथ ॥ ७॥ _ 'नामि०' । तौ भवत इति । अत्र सूत्रम्-'शिदवित्' (४।३।२०) विद्वर्जः शित्प्रत्ययो ङिद्वत्स्यात् । इति तस्प्रत्ययस्य डिन्त्वेऽपि शवप्रत्ययनिमित्तो गुणः स्यादिति । बहुवचने भव अन्ति
इति स्थिते सूत्रम्-'लुगस्यादेत्यपदे' (२।१।११३) अपदादावकारे एकारे च परे अकारस्य लुक् २० स्यात् । अपदादाविति किम् ? दण्डानम् ॥ ७ ॥ अस्मदर्थैकवचने भव मि इति स्थिते ।
__ मव्यस्याः ॥८॥[सि० ४।२।११३] धातोर्विहिते मादौ वादौ च प्रत्यये परे अत आः स्यात् । अहं भवामि । आवां भवावः । वयं भवामः ॥८॥
अन्यदर्थादिद्वयत्रययोगे पराश्रयमेव वचनम् । स च खं च भवथः । स च त्वं चाहं च भवामः । २५ 'मव्यः ' सूत्रं स्पष्टम् ॥ ८॥ अन्यदर्थादिद्वयत्रययोगे इत्यादि 'त्रीणि त्रीण्यन्ययुष्मदस्मदि'
(३।३।१७) इति सूत्रोक्तशब्दस्पर्द्धात् पराश्रयमेव वचनमतिदिश्यते । स च त्वं च भवथः । एवं स चाहं च भवावः । कथमत्वं त्वं संपद्यते अनहमहं संपद्यते त्वद्भवति मद्भवति । अयमर्थः प्रकृतिविकत्योरभेदविवक्षायां च्विस्तत्र किं प्रकृत्याश्रयेण प्रथमत्रिकेण भाव्यमुत विकृत्याश्रयेण द्वितीयत्रिकेणेति । तत्र
च प्रकृतेरेव संपत्तौ कर्तृत्वात्प्रथमत्रिकेणैव भाव्यमित्याह-त्वद्भवति मद्भवतीति । अत्र अत्वशब्दस्य ३० भवनक्रियान्वयिनो मुख्यत्वं ततो युष्मदस्मदोर्गौणत्वाद्वितीयतृतीयत्रिके न स्यातां त्वमादेशौ तु
शब्दमात्राश्रयाद्भवत एव, नहि त्वमादेशविधावर्थचिन्ता कृतेति । एहि मन्ये रथेन यास्यसि नहि यास्यसि ३२ यातस्ते पितेति प्रहासे यथाप्राप्तमेव प्रतिपत्तिात्र प्रसिद्धार्थविपर्यासे किश्चिन्निबन्धनम् । रथेन यास्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org