________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे भ्वादयः परस्मैपदिनः
४७७ इत्यादौ क्रियान्तरव्यवधानेऽप्यध्ययनादिक्रियायाः प्रारम्भापरिसमाप्तिरस्त्येव । चैत्रो भुक्के इत्यादावपि हि क्रियान्तरव्यवधानमवश्यं भवति स हि भुञ्जानोऽवश्यं जल्पति हसति पानीयं वा पिबतीति । तिष्ठन्ति पर्वताः स्यन्दन्ते नद्य इत्यादौ तु स्फुटैव प्रारम्भापरिसमाप्तिः । तथोक्तम्
'प्रवृत्तोपरतश्चैव १ वृत्ताविरत एव च २ । नित्यप्रवृत्तः ३ सामीप्यो ४ वर्तमानश्चतुर्विधः' ॥१॥
क्रमेणोदाहरणानि-सम्प्रति जीवघातं न करोति १ इह कुमाराः क्रीडन्ति २ पर्वतास्तिष्ठन्ति ३५ कदा मैत्राऽऽगतोऽसि अयमागच्छामि, कदा मैत्र गमिष्यसि एष गच्छामि ४ । कथं तस्थुः स्थास्यन्ति गिरय इति ? भूतभाविभरतकल्किप्रभृतीनां राज्ञां याः क्रियास्तद्विशिष्टत्वेन पर्वतादिक्रियाणामतीतत्वाऽनागतत्वोपपत्तेर्भूतभाविप्रत्ययोत्पत्तिरिति ज्ञेयम् । एवं च विद्यमानकर्तृकेभ्योऽस्त्यर्थेभ्यो धातुभ्यः सर्वा विभक्तयः स्युः । कूपोऽस्ति भविष्यति भविताऽभूत् आसीत् बभूवेति ॥ ४॥ वर्तमानाऽऽदिविभक्तिचतुष्टयस्य संज्ञान्तरमाह ।
एताः शितः॥ ५॥ [सि० ३।३।१०] वर्तमानासप्तमीपञ्चमीयस्तन्यः शितो ज्ञेयाः । 'भू सत्तायाम् । भू तिव इति स्थिते । वकारो वित्कार्यार्थः॥५॥
'एताः०' सूत्रं स्पष्टम् । अथ सर्वेषां धातूनां दशस्वपि त्यादिविभक्तिषु क्रमेण रूपाणि निरूपयितुं प्रक्रमते । तत्रापि स्वरव्यञ्जनक्रमेण धातूपदेशप्रतिज्ञानात् पां पाने इत्यादेः प्रथमं निर्देशे प्राप्ते भूवादयो १५ धातव इति वृद्धसमयानुवर्त्तनात् सत्ताभिधायित्वेन माङ्गलिकत्वाच्च प्रथमं भूधातोर्निरूपणम् । एवमदाचादिगणेष्वपि वृद्धसमयानुवर्त्तनायैवादादिधातूनां प्राक्प्रतिपादनम् । 'भू सत्तायाम्' भू इत्यविभक्तिको निर्देशः सान्तरान्तशङ्कानिरासार्थः, एवं सर्वत्र । भू इत्येषा प्रकृतिः सत्तायां वर्त्तते । अभूद्भूत इत्यादौ प्रयोगित्वदर्शनात् ऊकारस्य 'अप्रयोगीत् (१।१।३७) इति इत्संज्ञा न स्यात्, एवमन्यत्रापि । सतो भावः सत्ता अस्तित्वं द्रव्यधर्मः धात्वर्थसामान्यमिति यावत् । यदाहु:
'सा नित्या सा महानात्मा तामाहुस्त्वतलादयः । प्राप्तक्रमाविशेषेषु सा क्रियेत्यभिधीयते ॥१॥ 'तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते' इति ॥
ननु भुवः सत्तावाचित्वे धातुत्वमनुपपन्नं क्रियार्थो हि धातुः क्रिया च स्पन्दरूपा सत्ता तु द्रव्यादिषु सत्सदित्यनुवृत्तप्रत्ययाभिधानलिङ्गा स्पन्दरूपा न भवति । नैष दोषः । यथा जानाति पश्यति स्मरति श्रद्धत्ते संयुज्यते समवैति वियुज्यते नश्यति श्वेतते इत्यादीनां ज्ञानदर्शनस्मरणश्रद्धानसंयोगसम-२५ वायवियोगविनाशवर्णादयो द्रव्यगुणा अपरिस्पन्दात्मका अपि आख्यातप्रकृतिवाच्याः सन्तः क्रियाव्यपदेशमर्हन्ति, एवं सत्तापि द्रव्यधर्मो धातुवाच्यतामापद्यमाना क्रियाव्यपदेशं लभते । मणिमुकुरकपाणादिज्ञापकवैचित्र्याचैकरूपस्यापि मुखादे नात्वोपलब्धेर्धातुवाच्यैव सत्ता क्रियात्वमास्कन्दति न प्रातिपदिकवाच्येति नाव्यवस्था । अत एव वृक्ष इत्यादिप्रातिपदिकवाच्यायाः सत्ताया न क्रियात्वम् । एवं च क्रियावाचित्वमात्रमाख्यातुं सत्तोपात्ता । अर्थान्तराण्यप्यनयोपलक्ष्यन्ते । यदाहुः- १० 'निपाताश्वोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृतास्सर्वे पाठस्तेषां निदर्शनम्'॥१॥इति। तथा च भूरयं कचिदस्त्यर्थे यथा बहूनि धान्यान्यस्य भवन्ति-सन्तीत्यर्थः । काप्यभूतप्रादुर्भावे यथा वचाक्षीरभोजिन्याः श्रुतधरः पुत्रो भवति-जायते इत्यर्थः । कचिदभूततद्भावाख्ये सम्पद्यर्थे यथा अशुक्लः शुक्लो भवति-सम्पद्यते इत्यर्थः । उपसर्गवशाच्च धातोरनेकार्थः प्रकाशते-यथा प्रभवतीति ३४
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org