________________
कर्त्तर्यपीति । भावकर्मणोस्तु सर्वेऽप्यात्मनेपदिन एव । ङनुबन्धा हस्वेकारानुबन्धास्तु कर्त्तर्यपि कर्त्री५ क्तावप्यात्मनेपदिन इत्यपेरर्थः । यथा 'शी स्वप्ने' 'एधि वृद्धौ' । दीर्घेकारानुबन्धो गकारानुबन्धश्चोभयपदी यथा 'डुपचष् पाके' 'णीं प्रापणे' । उक्तानुबन्धचतुष्टयरहितः शेषः परस्मैपदी यथा 'भू सत्तायाम्' 'पां पाने' इत्यादि । अत्रोपयोगिन्यो विभक्तयश्चैवम् ।
४७६
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ है मलघु
साभावे तवाया यबादेशाभावः । असङ्ग्रामयत शूर इति नायं 'सम' प्रादिः किन्तु धात्ववयवो यथा विच्छाद्यवयवो 'विः' 'सङ्ग्रामणि युद्धे' इत्यखण्डस्य चुरादौ पाठात् ।
एवं धातोर्लक्षणमुक्त्वा भेदानाह - स च त्रेघेत्यादि ।
२०
1
१० भविष्यन्ती ९ तथा क्रियातिपत्तिः १० परिकीर्त्तिता । दशानामप्यथैतासां विषयः प्रतिपाद्यते ॥ २ ॥ 'वर्त्तमाने वर्त्तमाना, विध्यादिषु च सप्तमी । प्रैषादिषु पञ्चमी स्यात् कालेऽतीतेऽग्रिमं त्रयम् ॥ ३ ॥ आशिष्याशीः, श्वस्तनी च भविष्यन्ती च भाविनि । क्रियातिपतने क्रियातिपत्तिः परिकीर्त्तिता ॥ ४ ॥ यश्चोपपदसान्निध्यात्तथा चार्थविशेषतः । अयथाकालमप्यासां विधिः सोऽप्यत्र वक्ष्यते ॥ ५ ॥ ॥ १ ॥ परस्मैपदिनः परस्मैपदमात्मनेपदिन आत्मनेपदमुभयपदिन उभयपदमर्हन्ति इति परस्मैपदादीनि १५ लक्षयति नवाद्यानीत्यादि ।
३०
वर्त्तमाना १ सप्तमी च २ पञ्चमी ३ ह्यस्तनी तथा ४ ।
अद्यतनी ५ परोक्षा च ६ स्यादाशीः ७ श्वस्तनीति च ८ ॥ १ ॥
नवाद्यानि शतृकसू च परस्मैपदम् ॥ २ ॥ [ सि० ३।३।१९ ]
सर्वासां त्यादिविभक्तीनामाद्यानि नववचनानि शत्रुक्कसू च प्रत्ययौ परस्मैपदसंज्ञानि स्युः । ( पराणि कानानशौ चात्मनेपदम् ) ( सि० ३।३।२० ) || २ ||
परस्मैपदे आत्मनेपदे च प्रत्येकं श्रींस्त्रीनर्थान्विभजते- त्रीणि त्रीणीत्यादि -
त्रीणि त्रीण्यन्ययुष्मदस्मदि ॥ ३ ॥ [ सि० ३।३।१७ ]
सर्वासां विभक्तीनां त्रीणि त्रीण्येक द्विबहुवचनान्यन्यदर्थे युष्मदर्थेऽस्मदर्थे च यथाक्रमं स्युः ॥३॥ कालस्य निश्चयाद्वर्त्तमानैकसमयात्मकत्वेपि व्यवहारातीतत्वानागतत्ववर्त्तमानत्वं वस्तुपर्यायविषयमेवेत्याह सतीति----
सति ॥ ४ ॥ [ सि० ५।२।१९]
२५ आरब्धासमाप्तवस्तुविषयः कालः सन् वर्त्तमानस्तदर्थाद्धातोर्वर्त्तमाना स्यात् ॥ ४ ॥
आत्मनेपदानि । ते आते अन्ते से आये ध्वे । ए वहे महे ।
परस्मैपदानि तिव् तस् अन्ति । सिव थस् थ । मिव् वस् मस । आरब्धासमाप्तवस्तुविषयः कालः सन् इति-आरब्धः साध्यत्वेन प्रस्तुतो न च परिसमाप्तः फलस्यानिष्पत्तेः । फलार्थमुपादीयमानायाः क्रियायाः फलेऽधिगते समाप्तिः स्यादिति ईदृशः क्रियाप्रबन्धः सन् वर्त्तमान इत्यर्थः । जीवं न मारयति, मांसं न भक्षयतीत्यादौ नियमः प्रारब्धोऽसमाप्तञ्च प्रतीयते, ३३ अन्यथा निषेधस्याभावरूपत्वेन प्रारम्भपरिसमाप्ती न घटेते । इहाधीमहे, इह कुमाराः क्रीडन्ति
For Personal & Private Use Only
वर्त्तमाना
Jain Education International
[सि० ३।३६]
www.jainelibrary.org