________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे भ्वादयः परस्मैपदिनः
४७५ ठयपदेशः सिद्धः । तदुक्तम्-यावत्सिद्धमसिद्धं चेत्यादि । सिद्धं सत्तादि । असिद्धं तु कटादि । ननु पचत्यादिष्वस्तु क्रियात्वम् , भवत्यादिषु तु सत्ताया नित्यत्वेन साध्यमानत्वाभावात्तदभावे च पूर्वापरविभागाभावात्तदभावे च क्रियार्थत्वाभावान प्राप्नोति धातुसंज्ञा । सत्यम् । उपाधिभेदेन सत्तापि पूर्वापरीभूता साध्यमानरूपा भवति यथा चैत्रसत्ता मैत्रसत्ता । सापि कचिद्गमनोपहिता कचिद्भोजनोपहितेत्यादि । यथा कस्तूरिकासामानाधिकरण्यात्पाषाणखण्डमपि सुगन्धीभवति, तथा साध्यमानपूर्वापरी-५ भूतपाकादिक्रियासामानाधिकरण्यात्सत्तायामपि साध्यमानत्वं भवति । किं बहुना, (आ)ख्यातपदेनाभिधीयमानः सिद्धभावोऽपि साध्यरूपतां भजतीति आयादिप्रत्ययान्तानामपि क्रियार्थत्वाद्धातुत्वम्-गोपायति कामयते ऋतीयते जुगुप्सते कण्डूयति पापच्यते चोरयति कारयति चिकीर्षति पुत्रकाम्यति पुत्रीयति अश्वति श्येनायते हस्तयति मुण्डयति । एवं जु-स्तंभू-चुलुम्पादीनामपि-जवनः स्तम्नाति चुलुपाञ्चकार प्रेखोलयति । शिष्टप्रयोगानुसारित्वाल्लक्षणस्याऽऽणपयत्यादिनिवृत्तिः । शिष्टज्ञानाय चेदं लक्षणम् , १० एतदसंविवादेन च शिष्टा ज्ञायन्ते इति । यद्येवं पाठ एवास्तु किमनेन लक्षणेनेति चेत् । मैवम् पाठपठितानामपि क्रियार्थानामेव धातुत्वज्ञापनार्थत्वात् , तेन या-वाप्रभृतीनां सर्वनाम-विकल्पाद्यर्थानां पाठाविसंवादित्वेऽपि लक्षणविसंवादित्वात् , आणपयत्यादीनां तु क्रियार्थत्वेऽपि पाठविसंवादित्वाद्धातुत्वाभावः । ननु 'क्रियार्थो धातु' रित्युक्ते शिश्ये इत्यादिषु भावप्रत्ययस्यापि क्रियार्थत्वाद्धातुसंज्ञायाम् 'आत्सन्ध्यक्षरस्य' (४।२।१) इत्यात्वं स्यात् । आत्वं हि धातोर्विहितमनैमित्तिकं चेति, ततो 'व्याख्यानतो १५ विशेषार्थप्रतिपत्तिः' इति प्रथममन्येनाऽनभिहितां यः क्रियामाह स धातुरिति विवक्षणीयम् । शिश्ये इत्यादिषु तु शीधातुनाभिहितां क्रियां प्रत्यय आहेति न तस्य धातुसंज्ञा । न चैवं चिकीर्षतीत्यत्रापि धातुसंज्ञा न प्राप्नोति यतोऽत्रापि सन्प्रत्ययः कृनाभिहितां क्रियामाहेति । अत्र हि करोत्यर्थोपसर्जनामिच्छामन्येनानभिहितां धातुराहेति स्यादेव धातुसंज्ञेति । अत्रोच्यते-यथा प्राथम्यविवक्षया शिश्ये इत्यादिषु धातुसंज्ञा निषिध्यते तथा स्वार्थिकायादिप्रत्ययान्तानामपि न स्यात् । गोपायतीत्यादिष्वपि धातुभि-२० रभिहिताया एव क्रियायाः प्रत्ययेनाभिधानात् । तस्मादेवं व्याख्येयम्-क्रियामेव प्राधान्येन योऽभिधत्ते स क्रियाओं धातुरिति गोपायतीत्यादावपि तदस्तीति सिद्धा धातुसंज्ञा, शिश्ये इत्यादौ तु भूतानयतनपरोक्षत्वादेरप्यभिधानान्न धातुसंज्ञेति ॥
अत्रायं विशेषः 'न प्रादिरप्रत्ययः' ( ३३१४) प्रादिश्चाद्यन्तर्गणः । स धातुः-धातोरवयवो न स्यात्, तं व्युदस्य ततः पर एव धातुसंज्ञः स्यात्, 'अप्रत्ययः' इति न चेत्ततः परः प्रत्ययः स्यात् , २५ प्रत्ययपरस्तु प्रादिर्धातुसंज्ञः स्यादेवेत्यर्थः । यथा अभीत्यभिमुखं मनो यस्य स अभिमनाः, अनभिमनाः अभिमना अभवत् 'व्यर्थे भृशादेः स्तोः' (३।४।२९) इति क्यङागमे सकारलोपे हस्तन्यास्ते 'कर्त्तर्यनझ्य०' (३।४७१) इति शवागमे अभीत्यवयवस्य धातुत्वनिषेधात्ततः परं 'अधातोः०' (४।४।२९) इत्यडागमे अभ्यमनायत, एवमभिमनायितुमिच्छति अभिमिमनायिषते इत्यत्र अभीत्यस्य धातुत्वनिषेधात् 'सन्यङश्च' (४।१।३) इति न द्वित्वं, ततः परमेव द्वित्वम् । अभिमनाय्य गतः ३० प्रासादीयत् प्रासिसादीयिषति प्रासादीय्य गतः । अभिमनायादिः प्रत्ययान्तः सप्राविसमुदायः क्रियार्थ इति तस्मिन् धातुसंज्ञे प्राप्ते प्रादिस्ततः प्रतिषेधेन बहिष्क्रियते, तत उत्तर एव धातुरिति तस्याड् द्विवचनं च स्यात् । प्रादेश्वोत्तरेण समास इति क्त्वाया यबादेशः । अप्रत्यय इति किम् ? औत्सुकायत उत्सुसुकायिषते 'उदुत्सोरुन्मनसि' (७१।१९२) इति कप्रत्ययः । अत्र प्रादेरपि धातुत्वात् 'स्वरादेस्तासु' (४।४।३१) इति वृद्धिर्दित्वं च सिद्धम् , उत्सुकायित्वा-अत्र धातुत्वेन नामत्वाभावात्समा-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org