________________
४७४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुपाराभिधायी पच् इति प्रकृतिभागः, कर्तृत्वैकत्ववर्तमानत्वाभिधायी अतिरिति च प्रत्ययभागः । अथ पठतीत्युक्ते पच्-शब्दो निवर्तते पठ्-शब्दश्वोपजायते अतिरिति चानुवर्त्तते, अर्थोऽपि विक्लित्तिनिवर्त्तते, पठिश्योपजायते, कर्तृत्वैकत्वादिकं चानुवर्तते, तेन मन्यामहे-पच्शब्दस्य विक्लित्तिरर्थः पशब्दस्य पठिरित्यर्थः, कर्तृत्वादिकं च अतेरर्थस्तदन्वयव्यतिरेकानुविधायित्वात् । साध्यमानरूपेति साधनानि ५ कर्तृकर्मादीनि तदायत्तं रूपं यस्याः तथा चोक्तं (वैयाकरणभूषणसारे धात्वर्थनिर्णये )।
'फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्' ॥ १॥ फलं विक्लित्त्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया । उक्तं च वाक्यपदीये 'यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥१॥न च साध्यत्वेनाभिधाने मानाभावः । पचति पाकः, करोति कृतिः, इत्यादौ धात्वर्थावगमाविशेषेऽपि १० क्रियान्तराकाङ्खानाकाङ्क्षयोदर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वम् । तद्रूपवत्त्वमसत्त्वभूतत्वम् । एतदेवादाय 'असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते' इति वाक्यपदीयमिति द्रष्टव्यम् । अयं च व्यापारः फूत्कारत्वाधःसन्तापनत्वयन्नत्वादि तत्तद्रूपेण वाच्यः । पचतीत्यादौ तत्प्रकारबोधस्याऽनुभवसिद्धत्वात् । न च नानार्थतापत्तिस्तदादिन्यायेन बुद्धिविशेषादेः
शक्यतावच्छेदकानामनुगमकस्य सत्त्वात् । आख्याते क्रियैकत्वव्यवस्थाऽप्यवच्छेदकं बुद्धिविशेषै. १५ क्यमादायैव । उक्तं च वाक्यपदीये
'गुणीभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते' इति ।
धात्वर्थं निरूप्य तिर्थमाह । आश्रये त्विति फलाश्रये व्यापाराश्रये चेत्यर्थः । फलाश्रयः कर्म, व्यापाराश्रयः कर्ता । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिरन्यलभ्यत्वात् । शक्यताs
वच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति + । ननु च कृतिः करोत्यर्थः क्रिया, तत्र युक्तं पचादीनां २० क्रियात्वम्, अयं किं करोति पचतीत्यादि करोत्यर्थगर्भितत्वात् । अस्तिभवत्यादीनां तु तथात्वाभावात्कथं क्रियात्वम् । नह्येवं प्रयुज्यते अयं किं करोति अस्ति भवतीति । तदयुक्तम् । न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तं किन्तु कारकव्यापारविशेषः, व्यापारश्च व्यापारान्तराद्भिद्यते इत्यस्त्याद्यर्थोऽपि क्रियैव । करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव । एवं भावशब्देऽपि भवत्यर्थो व्युत्पत्तिनिमित्तं
प्रवृत्तिनिमित्तं तु कारकव्यापार एवेति । एवं सति क्रियासामान्यवचनाः कृभ्वस्तयः, क्रियाविशेष२५ वचनास्तु पचादय इति सिद्धम् , तथाभावे घनित्युक्त्वा कारः पाक इत्यादयोऽप्युदाह्रियन्ते । क्रियोप
पदाद्धातोस्तुमित्युक्त्वा योद्धं धनुर्भवति द्रष्टुं चक्षुर्जातमित्याद्यप्युदाहरणं युक्तम् । यदाहुः यत्राऽन्यक्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते इति । क्रिया च द्वेधा सिद्धसाध्यभेदात् । तत्र सिद्धस्वभावोपसंहृतकमा परिच्छिन्ना सत्त्वभावमापन्ना धनादिभिरभिधीयते । यदाह 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति । हरिणाप्युक्तम्, ३० 'आख्यातशब्दे भागाभ्यां साध्यसाधनवर्त्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः॥१॥
'साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्त्वभागस्तु यस्तस्याः स घनादिनिबन्धनः' ॥२॥
तुमादिभिस्तु सत्त्वभावमनापन्नेति विशेषः । इयमपि सिद्धरूपैव । साध्यमानावस्था च पूर्वापरीभूतावयवा भूतभविष्यद्वर्त्तमानसदसदाद्यनेकावयवरूपाख्यातपदैरुच्यते यदाह । 'पूर्वापरीभूतं भावमाख्यातेनाचष्टे । यथा च पचतीत्यत्र पूर्वापरीभावस्तद्वदेव जायतेऽस्ति विपरिणमते वर्द्धते अपक्षीयते ३५ विनश्यति भवति श्वेतते संयुज्यते समवैतीत्यादावपि । साध्यत्वाभिधानेन क्रमरूपाश्रयणात् क्रिया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org